________________
१५२
सूत्रार्थमुक्तावल्याम्
[ चतुर्थी
विकल्पप्रसङ्गेन तद्दोषतादवस्ध्यात्, अंत्रोच्यते, एकान्तेन भेदोऽभेदो वा तयोर्नाभ्युपगम्यते किन्त्ववaar एव तथाविधैकपरिणामादवयविद्रव्यतया व्यपदिश्यन्ते, त एव च तथाविधविचित्र परिणामापेक्षया अवयवा इति । अवयव्यभावे त्वेते घटावयवा एते पटावयवा इत्येवमसङ्कीर्णव्यवस्थाया असम्भवः प्रसज्येत । न च तयोर्भेदः स्याद्विरुद्धर्माध्यासादिति वक्तव्यम्, एकस्यैव प्रत्यक्षसंवेदनस्य B त्वया परमार्थापेक्षया भ्रान्तत्वेन संव्यवहारापेक्षया त्वभ्रान्तत्वेनाभ्युपगमात्, अत्रापि यदि भ्रान्तं तत्तर्हि कथमभ्रान्तमिति पर्यनुयोगस्य सम्भवात्, तथा चास्त्यवय विद्रव्यम्, अव्यभिचारितया तथैव प्रतिभासमानत्वात्, अवयववत्, नीलवद्वा, तथा प्रतिभासस्यानुभूयमानत्वादेव न हेतुरसिद्ध:, निखिलवस्तूनां व्यवस्थायाः प्रतिभासाधीनत्वान्नानैकान्तिकत्वविरुद्धत्वे, अन्यथा न किञ्चिद्वस्तु सिद्ध्येत् । ननु नास्त्यात्माऽनुपलभ्यमानत्वात् न ह्यसौ प्रत्यक्षेणोपलभ्यते, अतीन्द्रियत्वात्, नाप्य10 नुमानेन, लिङ्गलिङ्गिनोः साक्षात् सम्बन्धादर्शनात्, न वाऽऽगमवेद्यः, आगमानामन्योऽन्यं विसंवादादिति चेन्न, विकल्पानुपपत्तेः, अनुपलभ्यमानत्वं किमेकपुरुषापेक्षया, सकलपुरुषापेक्षया वा नाद्यः, सत्यपि वस्तुनि तस्य सम्भवात् न ह्येकस्य कस्यचिद्धटादिग्राहकप्रमाणाप्रवृत्तौ सर्वत्र सर्वदा तदभावो निर्णेतुं युज्यते, नापि प्रमाणनिवृत्तौ प्रमेयं निवर्त्तते, प्रमाणस्य प्रमेयकार्यत्वेन कार्याभावे कारणाभावस्यादृष्टत्वात् । न द्वितीयः पक्षः, असिद्धेः, सकलपुरुषाश्रितानुपलम्भस्यासर्वज्ञदुर्ज्ञेय - 15 स्वात् । किन विद्यते आत्मा, प्रत्यक्षादिभिरुपलभ्यमानत्वात्, घटादिवदित्यनुमानेन तत्सिद्धिः, अस्मदादिप्रत्यक्षेण ह्यात्मा गम्यते, ज्ञानाभिन्नत्वात्तस्य तदभिन्नत्वञ्च ज्ञानस्य तद्धर्मत्वात् ज्ञानन्तु स्वसंविदितरूपम्, नीलज्ञानमुत्पन्नमासीदिति स्मृतेः न ह्यस्वसंविदिते स्मृतिरुदेति, अन्यथा पुरुषान्तरज्ञानस्यापि स्मृतिविषयताप्रसङ्गात्, तस्मात्तदव्यतिरिक्तज्ञानगुणप्रत्यक्षत्वे गुण्यपि प्रत्यक्ष एव, रूपगुणप्रत्यक्षतया घटादिगुणिप्रत्यक्षवत् । शरीरमिदं विद्यमानकर्तृकम्, भोग्यत्वादोदनवदित्यनुमानगम्योऽ20 प्यात्मा, न चौदनकर्तृवन्मूर्त्त आत्मा स्यादिति वाच्यम्, संसारिणो मूर्त्तत्वेनाभ्युपगमात् । 'एगे आया ' इत्यागमगम्योऽप्यात्मा, न चायमागम आगमान्तरैर्विसंवादीति वक्तव्यम्, अस्य सुनिश्चिताSSHप्रणीतत्वात् । सोऽयमात्मा सप्रदेशः, निरवयवत्वे हस्ताद्यवयवानामेकत्वप्रसङ्गः प्रत्यवयवं स्पर्शाद्यनुपलब्धिप्रसङ्गश्च स्यात् एवञ्च द्रव्यार्थतया एक आत्मेति, एक आत्मा कथचिदिति वा व्यवस्थितम् । प्रतिक्षणं सम्भवदपरापरकालकृत कुमारतरुणनरनारकत्वादिपर्यायैरुत्पादविनाशयेोगेऽपि द्रव्या25 तयास्यैकत्वात् कालकृतपर्यायैरुत्पादविनाशेऽपि सर्वथा न नाशः स्वपरपर्यायरूपानन्तधर्मात्मकत्वाद्वस्तुनः । प्रतिक्षणं सर्वथा विनाशे हि 'प्रतिक्षणं क्षयिणो भावा:' इति वचनात् क्षणभङ्गविज्ञानं न स्यात्, असंख्यात समयैरेव वाक्यार्थग्रहणपरिणामात् एकैकमप्यक्षरं हि पदसत्कं संख्यातीतसमयसम्भूतं संख्यातानि चाक्षराणि पदं, पदसंघातश्च वाक्यम्, तदर्थग्रहणपरिणामाच्च सर्व क्षणभङ्गुरमिति विज्ञानं भवेत्, तच्च न समय विनश्वरस्य सम्भवति, तस्मादात्मोत्पादव्ययधौव्या30 त्मकः, स्थिररूपापेक्षया नित्यो नित्यत्वाच्चैकः, उत्पादव्ययापेक्षया त्वनित्यत्वादनेक इति । एक आत्मा कथञ्चिदिति प्रथमव्याख्याने च सामान्यविशेषरूपत्वाद्वस्तुनः सामान्यापेक्षया एको विशेषापेक्षयास्वनेक इति, सर्वात्मनां तुल्यं रूपमुपयोगः, सर्वात्मसूपयोगाभावेऽनात्मत्वप्रसङ्गादिति ॥ २ ॥
"