SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ अथ स्थानमुक्तासरिका 10 अथ स्थानाङ्गसारार्थं वर्णयितुमारभते अथ स्थानाङ्गसारः॥१॥ अथेति, मङ्गलार्थ आनन्तर्यद्योतकश्च, सारतया सूत्रकृताङ्गनिरूपणानन्तरमित्यर्थः, क्रमप्राप्तत्वात् , त्रिवर्षपर्यायस्य ह्याचारप्रकल्पनामाध्ययनं चतुर्वर्षस्य सूत्रकृतं नामाङ्गम् , दशाकल्पव्यवहाराः । संवत्सरपञ्चकदीक्षितस्यैव, स्थानाङ्गसमवायावपि चाङ्गे अष्टवर्षस्य देये इति क्रमः । स्थानाङ्गसार इति, स्थानाङ्गसारार्थ उच्यत इत्यर्थः । तिष्ठन्त्यासते-वसन्ति यथावदभिधेयतयैकत्वादिभिर्विशेषिता आत्मादयः पदार्था यस्मिन् तत्स्थानम् , अथवा स्थानशब्देनेहै कादिकः संख्याभेदोऽभिधीयते, ततश्चात्मादिपदार्थगतानामेकादिदशान्तानां स्थानानामभिधायकत्वेन स्थानम् , स्थानञ्च तत् प्रवचनपुरुषस्य क्षायोपशमिकभावरूपस्याङ्गमिवाङ्गश्चेति स्थानाङ्गं तस्य सारमिति ॥ १॥ अथ समुत्पन्नकेवलज्ञानेन सकलपदार्थेष्वव्याहतवचनतयाऽऽप्रतीताप्तेन तीर्थकरनामकर्मादिपरमपुण्यप्राग्भारेणाष्टमहाप्रातिहार्यनिखिलसम्पत्समन्वितेन श्रीमहावीरेणैकत्वादिप्रकारेण समस्तवस्तुविस्तारव्याप्त्याऽऽख्यातमात्मादिवस्तुजातं दिशा प्रदर्शयितुकाम एकत्वेनात्मादिव्यापनप्रकारमादर्शयतिस्यादेक आत्मा, उपयोगलक्षणत्वाद्रव्यार्थत्वाद्वा ॥२॥ .. 15 स्थादेक इति, जीवः कथञ्चिदेक इत्यर्थः, अतति सततं गच्छति जानातीत्यात्मा, सिद्धावस्थायां संसार्यवस्थायाश्चोपयोगभावनानवरतमवबोधस्य सद्भावात् , सततमुपयोगलक्षणावबोधाभावे हि जीकोऽजीवः स्यात् , यस्त्वजीवः स न जीवभावमापद्यते, अन्यथाऽऽकाशादीनामपि जीवत्वं प्रसज्येत, एवन जीवानाद्यनन्तत्वाभ्युपगमाभावप्रसङ्गः। अथवाऽतति स्वकीयान् ज्ञानादिपर्यायान्निरन्तरमुपयातीत्वात्मा, न च स्वखपर्यायेषु गगनादीनामपि गमनादात्मत्वप्रसङ्ग इति वाच्यम् , उपयोगलक्षण-20 त्वात् , उपयोगो लक्षणमसाधारणो धर्मः प्रवृत्तिनिमित्तं यस्यात्मपदस्य स उपयोगलक्षणस्तस्य भावस्तत्त्वम् , तस्मादित्यर्थः, सततं पर्यायगमनं हि व्युत्पत्तिनिमित्तमात्रम्, न तु प्रवृत्तिनिमित्तं स चोपयोग एव सर्वात्मसाधारणोऽतस्तदपेक्षयाऽऽत्मा एक इति भावः, एकात्मद्रव्यापेक्षयाऽप्येकानेकत्वं प्रदर्शयतिद्रव्यार्थत्वाद्वेति, अवयविद्रव्यत्वादित्यर्थः, प्रदेशार्थता चावयवलक्षणार्थता, तदपेक्षया त्वनेकत्वं तस्थासंख्येयप्रदेशात्मकत्वात् । ननु नास्त्यवयविद्रव्यं विकल्पद्वयेन तस्याघटमानत्वात् , खरविषाणवत् , 25 अक्यविद्रव्यं हि यद्यक्यवेभ्योऽभिन्नं तदाऽवयविवदवयघानामप्येकत्वं स्यादवयववद्वाऽवयविद्रव्यमनेकं भवेत्, अन्यथा भेद एव स्यात्, विरुद्धधर्माध्यासस्य भेदनिबन्धनत्वात् । यदि चावयवेभ्यस्तद्भिनं तरक्यवेषु किं प्रत्येकं सर्वात्मना वा समवैति, देशतो वा, यदि सर्वात्मना तर्षवयवी नाना भवेत् , प्रत्येकं पानत्वात् , यहि देर समवेति तदा यैर्देशैरवयवेषु तद्वर्त्तते वेष्वपि देशेषु तक
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy