________________
सूत्रार्थमुकावल्याम्
[हवीया कथं स्थावरकायं व्यापादयतो गृहीतत्रसकायप्राणातिपातनिवृत्तेः श्रावकस्य प्रतभङ्गः, नगरदृष्टान्तोऽप्यनुपपन्नः, सादृश्याभावात् , नगरधभैरुपेतो नागरिकः, स च मया न हन्तव्य इति प्रतिज्ञां गृहीत्वा थवा तमेव व्यापादयति बहिःस्थितपर्यायापन्नं तदा तस्य प्रतभङ्ग इति भवतः पक्षः, स च न घटते बहिःस्थस्यापि सस्य नगरधभैरुपेतत्वेन नागरिकत्वात् , अतः पर्यायापन इत्येतद्विशेषणं नोपपद्यते, अथ । सामत्येन परित्यज्य नगरधर्मानसौ वर्त्तते तदा तमेवेत्येतद्विशेषणं नोपपद्यते, अत्र तु जीवनसत्वं सर्वात्मना परित्यज्य स्थावरः समुत्पद्यते नासौ त्रस एव तदा भवति पूर्वपरित्यागादपरपर्यायापनत्वात् अथा नागरिकः पल्यां प्रविष्टस्तद्धर्मोपेतत्वात् पूर्वधर्मपरित्यागाच नागरिक एवासौ न भवति । न च परस्परसंसरणशीलत्वात् प्राणिनां त्रसकायात्तदायुषा विप्रमुच्यमानाः सर्वे स्थावरकाये स्थावरकायाच स्वायुषा विप्रमुच्यमानास्त्रसकाये यदि समुत्पद्यन्ते तदा सर्वेषां त्रसानां स्थावरकायसमुत्पन्नानां स्थानं 10 घात्यं वर्त्तते तेन श्रावकेण स्थावरकायवधनिवृत्तेरकरणात् , तथा च निर्विषयं तस्य त्रसवधनिवृत्तिरूपं
प्रत्याख्यानं भवति यथा नगरवासी न हन्तव्य इति गृहीतव्रतस्य नगरे उद्वसित निर्विषयमिति वक्तव्यम् , सर्वेऽपि तसा निर्लेपतया स्थावरत्वमापन्ना इत्येतस्यासम्भवात् , यद्यपि विवक्षितकालवर्त्तिननसाः कालपर्यायेण स्थावरकायत्वेन यास्यन्ति तथाप्यपरापरत्रसोत्पत्त्या त्रसजात्यनुच्छेदान्न कदाचिदपि त्रस
शून्यः संसारो भवति । अतो न निर्विषयं श्रावकस्येदं व्रतमित्यधिकं सूत्रकृताङ्गे । तदेवं ज्ञानदर्शन16 चारित्राणि सम्यगवगम्य पापकर्मणामकरणाय समुत्थितं श्रमणं निन्दति यः स सुगतिलक्षणस्य पर
लोकस्य तत्संयमस्य विघाताय तिष्ठति यस्तु महासत्त्वो रत्नाकरवद्गम्भीरो न श्रमणादीन् परिभाषते तेषु च परमां मैत्री मन्यते सम्यग्दर्शनज्ञानचारित्राण्यनुगम्य तथा पापानां कर्मणामकरणायोत्थितः स खलु परलोकविशुद्ध्याऽवतिष्ठत इति ॥ ८२ ॥
इत्थं सरलपदौथैः सूत्रकृताब्धेस्समुद्धृता मुक्ताः। कोमलहृदयहृदये कलिताः कलयन्तु सत्सौख्यम् ॥
इति श्रीतपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पधरेण विजयलब्धिसूरिणा सङ्कलितायां सूत्रार्थमुक्तावल्यां सूत्रकृत
लक्षणा तृतीया मुक्तासरिका वृत्ता।