SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ मुक्ता ]. सूत्रकृतलक्षणा । १४९ माहासद्भूतेति, ये हि श्रमणा ब्राह्मणा वा भूतशब्दविशेषणत्वेन प्रत्याख्यानमाचक्षते परैः पृष्टास्तथैव प्रत्याख्यानं भाषन्ते स्वतः कुर्वन्तः कारयन्तश्च तथा, किन्तु सविशेषणप्रत्याख्यानप्ररूपणावसरे सामान्येन प्ररूपयन्ति ब्राह्मणो न हन्तव्य इत्येवम्, तत्रापि स यदा वर्णान्तरे तिर्यक्षु वा व्यवस्थितो भवति तद्वधे ब्राह्मणवध आपद्यते भूतशब्दाविशेषणात् तदेवं प्ररूपयन्तो न खलु ते श्रमणा वा ब्राह्मणा वा यथार्थी भाषां भाषन्ते किन्त्वनुतापिकाम्, अन्यथा भाषणे तथानुष्ठातुरपरेण जानता 6 बोधितस्य सतोऽनुतापो भवति, तथा यथावस्थितप्रत्याख्यानप्रदातृन् साधून भूतदोषोद्भावनतोऽभ्याख्यानं ददति, यतः संसारिकाः खलु प्राणिनः परस्परजातिसङ्क्रमणभाजोऽतस्रसाः स्थावरत्वेन स्थावराश्व त्रसत्वेन प्रत्यायन्ति तेषाञ्च त्रसकाये समुत्पन्नानां स्थानमेतत्र सकायाख्यमघातार्हं भवति, तीव्राध्यवसायोत्पादकत्वाल्लोकगर्हितत्वाच्च, श्रावकेण च स्थूलप्राणातिपातविरमणं कृतं तन्निवृत्त्या तत्र स्थानमघात्यम्, स्थावरकायाच्चानिवृत्तः स इति तद्योग्यतया तत्स्थानं घात्यम्, तथा वर्त्तमानकालवाचिभूतशब्दोपादानमपि 10 केवलं व्यामोहाय भूतशब्दो ह्युपमानेऽपि वर्त्तते, देवलोकभूतं नगरमिदं न देवलोक एवेत्यादौ, तथाचापि ससदृशानामेव प्राणातिपातनिवृत्ति कृता स्यात्, न तु त्रसानाम् । तादर्थ्येऽपि भूतशब्दो दृश्यते शीतीभूतमुदकमित्यादौ, तथाऽत्र त्रसभूता इत्यस्य त्रसत्वं प्राप्ता इत्यर्थः स्यात्, तथा च सति त्रसशब्देनैव गतार्थत्वात् पौनरुक्त्यं स्यात्तथापि भूतशब्दोपादाने घटभूतो घटभूत इत्यादि प्रयोगप्रसङ्गः स्यात्, नन्वेवं कतरान् प्राणिनो यूयं वदथ किं त्रसा एव ये प्राणिनस्ते त्रसा इति किं वाऽन्यथा, उच्यते 15 यान् प्राणिनो यूयं त्रसत्वेनेदानीमा विर्भूतान्नातीतान्नाप्येष्यान् वदथ त्रसाः प्राणिन इति तानेव वयं त्रसान् वदामः केवलं यूयं त्रसभूता इति वदथ, शब्दभेद एव केवलमस्त्यत्र, न त्वर्थभेदः कश्चित् एवं व्यवस्थिते कोऽयं भवतां व्यामोहः, एकस्य पक्षस्याभिनन्दनेऽपरस्य चाक्रोशने, उभयोरपि पक्षयोः समानत्वात्, केवलं सविशेषणपक्षे भूतशब्दोपादानं मोहमावहतीति । न वा साधोस्तदन्येषां वधानुमतिः, स्थावरपर्यायापन्नं व्यापादयतो वा व्रतभङ्गः - गुरुकर्मणां प्रव्रज्यां कर्तुमसमर्थानां तद्व्यतिरेकेण धर्म 20 चिकीषूणां धर्मोपदेशप्रवणस्य साधोरप्रतः प्रथमं गृहस्थयोग्यं देशविरतिलक्षणं श्रावकधर्ममनिन्द्यमनुपालयामस्ततः पश्चादनुक्रमेण श्रमणधर्ममित्यवसायं प्रकटयतां नान्यत्राभियोगेन व्यवस्थां श्रावयन्ति ते । स चाभियोगो राजाभियोगो गणाभियोगो बलाभियोगो देवताभियोगो गुरुनिग्रहश्चैवमादिनाऽभियोगेन श्रसं व्यापादयतोऽपि न व्रतभङ्गः । तदेवं देशविरतानां त्रसप्राणातिपात विरमणत्रतं कुशलहेतुत्वात् कुशलमेव, गृहपतिचोरविमोक्षणदृष्टान्तोऽत्र भाव्यः । स्थावरपर्यायापन्नत्रसव्यापादने बहिः स्थनागरिक - 26 व्यापादन इव यो व्रतभङ्ग उक्तस्तदपि न युज्यते, त्रसत्वेन यत्परिषद्धमायुष्कं तद्यदोदयप्राप्तं भवति तदा प्रससम्भारकृतेन कर्मणा जीवाखसा इति व्यपदिश्यन्ते न तदा कथविस्स्थावरत्वव्यपदेशः, संभारो नामावश्यं तदा कर्मणो विपाकानुभवेन वेदनम् । त्रसकायस्थितिकं कर्म यदा परिक्षीणं भवति ततस्त्रयकाय स्थितेरभावात्तदायुष्कं ते परित्यजन्ति तच कर्म जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्सातिरेकसहस्रद्वयसागरोपमपरिमाणम् । तथा चापराण्यपि तत्सहचरितानि कर्माणि परित्यज्य स्थावरत्वेन प्रत्यायन्ति 30 स्थाबरा अपि स्थावरसंभारकृतेन कर्मणा तत्रोत्पद्यन्ते स्थावरादिनाम च तत्राभ्युपगतं भवति, अपराण्यपि तत्सहचरितानि कर्माणि सर्वात्मना त्रसत्वं परित्यन्य स्थावरत्वेनोदयं यान्ति एवञ्च व्यवस्थिते
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy