________________
मुंका] स्थानमुक्तासरिका।
१५३ ___एवमात्मन एकत्वमभ्युपगच्छन्तोऽपि केचन तं निष्क्रियं वदन्ति तन्निराकरणाय क्रियावत्त्वं सत्कारणश्वाह
तस्य दण्डः क्रिया चैका वधकरणसामान्यात् ॥३॥ - तस्येति, एकानेकरूपस्यात्मन इत्यर्थः, आत्मा ज्ञानाद्यैश्वर्यापहारतो दण्ड्यते निःसारीक्रियतेऽनेनेति दण्डः, स च द्रव्यतो भावतश्च, द्रव्यतो यष्ट्यादिर्भावतो दुष्प्रयुक्तमनःप्रभृति । तत्प्रयुक्त आत्मा क्रियामाचरति, सा च कायिक्यादिरूपा, दण्डः क्रिया चैका स्वस्वविशेषाविवक्षणात् , यद्वा दण्डक्रियाशब्दाभ्यां त्रयोदशस्थानानि ग्राह्याणि, तत्रार्थानर्थहिंसाऽकस्मादृष्टिविपर्यासदण्डरूपः पञ्चविधो दण्डः, तस्य चैकत्वं वधसामान्यात् , मृषाप्रत्ययादत्तादानप्रत्ययाऽऽध्यात्मिकी मानप्रत्यया मित्रद्वेषप्रत्यया मायाप्रत्यया लोभप्रत्ययैर्यापथिकी चेत्यष्टविधा क्रिया, तदेकत्वश्च करणमात्रसामान्यात्, एतेनात्मनः क्रियावत्त्वमुक्तं भवति, पात्मनोऽक्रियत्वेऽपि भोक्तृत्वमभ्युपगतम् , तश्च भुजिक्रियानिवर्त्तन-10 सामर्थ्य सति सम्भवति तस्माक्रियावत्त्वं सिद्धमेव, न च प्रकृतिः करोति, पुरुषश्च प्रतिबिम्बन्यायेन भुत इति वाच्यम् , क्रियामन्तरेण प्रतिबिम्बस्याप्यसंभवात् , प्रतिबिम्बो हि रूपान्तरपरिणमनरूपः, प्रकृतिविकारभूतबुद्धेरेव सुखार्थप्रतिबिम्बनत्वे तु सुतरामात्मनो भोगाभावः प्रसक्त इति ॥ ३ ॥
आत्मन आधारप्रदर्शनमुखेनाजीवानामेकानेकत्वं तथैव दर्शयति
लोकालोकधर्माधर्मबन्धमोक्षपुण्यपापास्रवसंवरवेदनानिर्जरा अप्ये-15 करूपाः सामान्यात् ॥४॥
लोकेति, धर्माधर्मास्तिकायव्यवच्छिन्नो निखिलद्रव्याधारभूत आकाशविशेषः, आकाशस्तु लोकरूपोऽलोकरूपश्च, तत्र चतुर्दशरज्जुप्रमाणो लोकोऽसंख्यातप्रदेशात्मकोऽपि तत्प्रदेशाविवक्षया द्रव्यार्थतया वैकरूपः, अलोकश्वानन्तप्रदेशात्मकोऽपि तत्प्रदेशाविवक्षया द्रव्यार्थतया वैकः । अथ वा नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यवभेदेनाष्टधा, नामस्थापने प्रसिद्धे, द्रव्यलोको जीवाजीवरूपः, 20 क्षेत्रलोकोऽनन्तप्रदेशात्मकमाकाशमात्रम. काललोकः समयावलिकादिः. भवलोकः स्वस्मिन स्वस्मिन भवे वर्तमाना नारकदेवमनुष्यतिर्यग्योनिकाः सत्त्वाः, भावलोक औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिकरूपः, पर्यवलोकश्च पर्यायमात्रम् , एतेषामेकत्वन्तु केवलज्ञानावलोकनीयस्वसामान्यात् । ननु निखिलद्रव्याधारभूताकाशसद्भावे किं मानमिति चेन्न, अस्त्याकाशम् , जीवादिपदार्थानां साधारत्वान्यथानुपपत्तेरिति मानसद्भावात्, न च धर्माधर्मास्तिकायावेव तदाधारौ, तयो- 25 स्तद्गतिस्थितिसाधकत्वात् , न चान्यसाध्यं कार्यमन्यः साधयत्यतिप्रसङ्गात्, अयमाकाशास्तिकायः सर्वद्रव्याणां साधारणावकाशदाता लोकालोकप्रकारेणोच्यते, स च सावयवः प्रदेशव्यवहारस्य तत्र दर्शनात् , न चायं व्यवहारो मिथ्या, तन्निमित्तस्याभावात् । ननु लोकैकदेशस्य प्रत्यक्षत्वात्तद्देशान्तरमपि स्याद्वाधकप्रमाणशून्यत्वात् , अलोकस्तु कथं स्यात्तस्य देशतोऽप्यप्रत्यक्षत्वादिति चेन्न, अस्ति लोकस्य विपक्षो व्युत्पत्तिमच्छुद्धपदाभिधेयत्वात् , यद्वधुत्पत्तिमता शुद्धशब्देनाभिधीयते तस्य विपक्षोऽस्ति यथा 30 घटस्याघटः, लोकश्च व्युत्पत्तिमच्छुद्धपदाभिधेयः, तस्मात्सविपक्षः, यश्च लोकस्य विपक्षः सोऽलोक इति तत्सिद्धेः । न चालोको घटादिरेव भवेत् किं वस्त्वन्तरेणेति वाच्यम् , लोकानुरूपस्यैषालोकस्याऽs
ब०म०२०