SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुकावल्याम् वश्यकत्वात् , निषेध्यसदृशस्यैव पर्युदासनबाबोधात् । यथाऽपण्डित इत्युक्ते विशिष्टज्ञानविकलश्चेतन एव गम्यते न घटादिः । धर्माधर्मेति, धर्मास्तिकायोऽधर्मास्तिकायश्चेति भावः, जीवपुद्गलानां स्वभावत एव गतिस्थितिपरिणतानामपेक्षाकारणं धर्मास्तिकायोऽधर्मास्तिकायश्च, अलोकलक्षणाकाशाभ्युपगमे च धर्माधर्मी लोकपरिमाणकारिणाववश्यं स्याताम् , अन्यथाऽऽकाशस्य निर्विशिष्टतया लोकोऽलोको वेति विशेषो न स्यात्, तथा चाविशिष्ट एवाकाशे गतिमतामात्मनां पुद्गलानाञ्च प्रतिघाताभावादनवस्थानेन सम्बन्धाभावात्सुखदुःखबन्धादिसंव्यवहारो न स्यात्, स चायं धर्मोऽधर्मश्च प्रत्येकं प्रदेशार्थतयाऽसंख्यातप्रदेशात्मकोऽपि द्रव्यार्थतयैकरूप इति भावः । अथात्मनो लोकवृत्तेः सदण्डस्य सक्रियस्य कर्मबन्धाद्वन्धमाश्रित्य सङ्ग्रहमाह बन्धमोक्षेति, सकषायत्वाज्जीवः कर्मणो योग्यान पुद्गलानादत्ते यस्मात्स बन्धः, स च प्रकृतिस्थितिप्रदेशानुभावभेदाचतुर्विधोऽपि बन्धसामान्यादेक इत्यर्थः, ननु बन्धो जीवस्य 10 कर्मणा संयोगः, स किं सादिरादिरहितो वा, प्रथमे किं पूर्व जीवः पश्चात्कर्म प्रसूयते, किं वा पूर्व कर्म पश्चाजीकः, अथवा द्वावपि युगपत् । तत्र न प्रथमं जीवसम्भूतिः, निर्हेतुकत्वात् , खरविषाणवत्, जीवस्य नित्यत्वेऽपि कर्मबन्धो न स्यादकारणत्वाद्गगनवत् , यदि तु निष्कारणमेव भवेत् स्यान्मुक्तस्यापि पुनः सा, कर्मयोगाभावे च नित्यमुक्त एव स्यात्, अथवा बन्धाभावे मुक्तताव्यपदेशोऽपि न स्यात् , न द्वितीयः, जीवस्य कर्तुस्तदानीमभावात् पूर्व कर्म न भवेदक्रियमाणत्वात्, कञभावेऽपि तस्य भावे 16 विनाशोऽपि तथैव भवेत् । नापि तृतीयः, युगपदुत्पन्नयोः कार्यकारणभावाभावेन जीवः कर्ता ज्ञाना वरणादिकं तस्य कर्मेति व्यपदेशो न स्यात् । कर्मणश्वानादित्वे मोक्षो न स्यात् , अनादित्वस्यानन्तत्वव्याप्यत्वात् , तस्मान्नास्ति बन्धो मोक्षो वेति चेदुच्यते सादिपक्षोऽनभ्युपगमान्निरस्तः, अनादिपक्षस्याश्रयणात् , अनादित्वस्यानन्तत्वव्याप्यत्वे मानाभावात् , काश्चनोपलयोः संयुक्तयोः सान्तत्वदर्शनात्, बीजाङ्करसन्तानस्य तन्मध्यगतस्यैकस्य दाहादिना विनाशे च सान्ततादर्शनात् , तथैव जीवकर्मसं20 योगोऽनादिसन्तानगतोऽपि तपःसंयमाद्युपायाद्व्यवच्छिद्यतेऽतो न मोक्षाभावः, एवमनादिजीवकर्मयोगः कथञ्चिदनन्तः यथाऽभव्यानाम् , कथश्चित्सान्तो यथा भव्यानाम् । जीवत्वसाम्येऽपि हि भव्याभव्यत्वविशेषो नरकतिर्यगादिविशेष इव भविष्यतीति न वक्तव्यम् , द्रव्यत्वादिसामान्येऽपि यथा चेतनाचेतनभेदः स्वभावतस्तथा भव्याभव्यत्वभेदोऽपि, न चैवं जीवत्ववद्भव्यत्वस्याविनाशित्वं स्यात्तथा च सति न निर्वाणम् , सिद्धो न भव्यो नाप्यभव्य इति वचनादिति वाच्यम् , 25 घटप्रागभावस्यानादिस्वभावत्वेऽपि घटोत्पत्तौ विनाश इव ज्ञानतपश्चरणक्रियोपायतो भव्यत्वस्यापि विनाशसम्भवादिति । कर्मपाशवियोजनं मोक्षः, स च ज्ञानावरणादिकर्मापेक्षयाऽष्टविधोऽपि मोचनसामान्यादेकः, मुक्तस्य पुनर्मोक्षाभावात् , कारणस्य कर्मणोऽभावात् , द्रव्यत्वे सत्यमूर्तत्वाद्वा गगनवनित्यो मुक्तात्मा, न चामूर्त्तद्रव्यत्वादाकाशवनिष्क्रियत्वं वक्तव्यम् , चेतनत्ववत्सक्रियत्वस्य तदानीमप्यङ्गीकारे बाधकामावादन्यथा चेतनत्वमपि न स्यादिति । मोक्षस्य पुण्यपापक्षयाद्भावात्पुण्य30 पापयोः सङ्ग्रहमाह-पुण्यपापेति, पुणति शुभीकरोति पुनाति वा-पवित्रीकरोत्यात्मानमिति पुण्यम् , सवेद्यादिशुभकर्म द्विचत्वारिंशद्विधमपि पुण्यानुवन्धिपापानुबन्धिभेदेन द्विविधमपि प्रतिप्राणिविचित्रत्वादनन्तभेदमपि वा पुण्यसामान्यादेकम् , पातयत्यात्मन आनन्दरसमिति पापमधःपतनकारित्वाद्वा
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy