SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ स्थानमुक्तारिका । मुक्ता ] पापम्, तश्चाष्टादशविधमपि द्व्यशीतिभेदमपि पुण्यानुबन्धिपापानुबन्धिभेदाह्निविधमप्यनन्तसत्वाश्रितत्वादनन्तमपि वाऽशुभ सामान्यादेकम् । ननु कर्मैव न विद्यते प्रमाणाविषयत्वाद्गगनकुसुमवदिति चेन्न, यदिदं जगत्यात्मत्वेनाविशिष्टानामात्मनां देवासुरनरतिर्यगादिरूपं नरपतिरङ्कमनीषिमन्द महर्द्धिदरिद्रादिरूपं वा वैचित्र्यं तन्न निर्हेतुकम् नित्यभावाभावदोषप्रसङ्गात्, यदेव च निमित्तं तत्र तत्कर्मेत्युच्यते, न च दृष्ट एवेष्टानिष्टविषयप्राप्तिमयो हेतुर्भविष्यति, किमदृष्टकर्मकल्पनया, न हि दृष्टेऽदृष्टकल्पना 6 न्याय्या, अतिप्रसङ्गादिति वाच्यम् इष्टसाधनशब्दादिविषयसमेतयोर्द्वयोरेकस्य दुःखानुभूतेरपरस्य च सुखानुभूतेर्दर्शनात् एवं दुःखसाधनसमेतयोरपि फलवैचित्र्यदर्शनान्न तद्धेतुक एवासौ फलविशेषः, साधनानां विपर्यासात्, यच्च तत्र विशिष्टो हेतुस्तदेव कर्म । एवं बालशरीरं शरीरान्तरपूर्वकम्, इन्द्रिया दिमत्त्वात्, युवशरीरवदित्यनुमानेन शरीरान्तरस्य कर्मणः सिद्धिः, न च जन्मान्तरातीतशरीर पूर्वकमेवेति शक्यते वक्तुम्, तस्यापान्तरालगतावसत्त्वेन तत्पूर्वकत्वानुपपत्तेः, न चाशरीरिणो नियतगर्भदेशस्थान- 10 प्राप्तिः, नियामकाभावात् तथा च यच्छरीरपूर्वकं बालशरीरं तत्कर्ममयमिति, तच पौगलिकम्, आत्मनः पारतन्त्र्यनिमित्तत्वात्, निगडादिवत्, न च क्रोधादिना व्यभिचारस्तन्निमित्तभूतस्य पौलिकत्वात् । ननु भवतु कर्म, तच्च पापरूपमेव, न तु पुण्यरूपमपि परमप्रकर्षावस्थं पापं कर्मोत्कृष्टदुःखफलं जनयति तस्यैव च तरतमयोगाद्धानिः क्रमेणापकर्षेण सुखकारणम्, यथाऽपध्यस्य क्रमेण वृद्धौ रोगवृद्धिः क्रमेण च तस्यापकर्षे रोगशमनलक्षणं सुखं तथा प्रकृतेऽपि, एवं पापानभ्युपगमे पुण्यकर्मणोऽ- 15 पचयोपचयभावेन सुखदुःखे चिन्तनीये, मैवम्, सुखदुःखे स्वानुरूपकारणके कार्यत्वाद्धादिबत् घटस्य ह्यनुरूपं कारणं परमाणवः, तथेहापि सुखस्य पुण्यं दुःखस्य पापमनुरूपं कारणमित्यनुमानात्तयोः सिद्धेः । न चानुरूपकारणत्वे साध्ये सुखदुःखयोरात्म परिणामत्वात्पुण्यपापात्मकं कर्मापि तथा स्यात् यदि च तद्रूपवत्तर्हि नानुरूपं मूर्त्तत्वेन विलक्षणत्वादिति वाच्यम्, कार्यकारणयोः सर्वथा सारूप्यतायाः सर्वथा विरूपताया वाऽनिष्टत्वात्, सर्वथाऽनुरूपत्वे कार्यकारणयोर्भेद एव न स्यात् सर्वथा भेदे च 20 घटस्य मृत्तिकैव कारणं न पाषाणादिरिति नियमो न भवेत्तस्मात्कार्यकारणयोस्तुल्यातुल्यरूपतैवेति । 'पुण्यपापकर्मणोर्ब न्धकारणमाहास्रवेति, आस्रवन्ति प्रविशन्ति येन कर्माण्यात्मनीत्यास्रवः कर्मबन्धहेतुरिति भावः, स चेन्द्रियकषायाव्रतक्रियायोगरूपः क्रमेण पञ्चचतुःपञ्च पञ्चविंशतित्रिभेदः, तदेवं द्विचत्वारिंशद्विधोऽपि द्रव्यभावभेदाद् द्विविधोऽप्यास्रवसामान्यादेकः । आस्रवप्रतिपक्षसंवरमाह-संवरेति, 'संव्रियते कर्मकारणं प्राणातिपातादि निरुद्ध्यते येन परिणामेन स संवरः, आस्रवनिरोध इत्यर्थ:, 25 स च समिति गुप्तिधर्मानुप्रेक्षा परीषहचारित्ररूपः क्रमेण पश्चत्रिदशद्वादशद्वाविंशतिपञ्चभेदो द्रव्यतो भावतश्च द्विविधो वा तथापि संवरसामान्यादेकः । संवरविशेषे चायोग्यवस्थारूपे कर्मणां वेदनैव न बन्ध इति वेदनास्वरूपमाह वेदनेति, वेदनं वेदना स्वभावेनोदीरणाकरणेन वोदयावलिकाप्रविष्टस्य कर्मणोऽनुभवनम्, सा च ज्ञानावरणीयादिकर्मापेक्षयाऽष्टविधापि विपाकोदयप्रदेशोदयापेक्षया द्विविधापि वेदनासामान्यादेकैवेति । अनुभूतरसं कर्म प्रदेशेभ्यः परिशटतीति निर्जरास्वरूपं सङ्ग्रहमाह - निर्जरेति, 30 निर्जरणं निर्जरा परिशटनमित्यर्थः, सा चाष्टविधकर्मापेक्षयाऽष्टविधापि द्वादशविधतपोजन्यतया द्वादशवि भापि निर्जरासामान्यादेकविधैव । देशतः कर्मक्षयो निर्जरा सर्वतस्तु मोक्ष इति तयोर्भेद इति ॥ ४॥ १५५
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy