________________
सूत्रार्थमुक्तावल्याम्
चतुर्थी
आत्मधर्माश्रयेणाह
भवधारणशरीरविकुर्वणामनोवाकायव्यापारादयोऽपि तथा, सामान्यादेकदैकस्यैव भावाच्च ॥५॥
भवेति, वैक्रियशरीरं द्विविधं भवधारणीयमुत्तरवैक्रियश्चेति । तत्र बाह्यपुद्गलग्रहणमन्तरेण 6 भवधारणीयवैक्रियशरीररचना स्वस्वोत्पत्तिस्थाने जीवैः क्रियते, तच विरचनं सर्व तत्सामान्यात्क
थनिदेकम् , एकस्मिन् समय एकजीव एकस्यैव भावाद्वैकम् , उत्तरवैक्रियश्च बाह्यपुद्गलग्रहणानिर्वय॑ते सा च रचना विचित्राभिप्रायपूर्वकत्वाद्वैक्रियलब्धिमतस्तथाविधशक्तिमत्त्वाच्चैकजीवस्याप्यनेकापि स्यात् । मननं मनः, औदारिकादिशरीरव्यापाराहृतमनोद्रव्यसाचिव्याज्जीवव्यापारो मनो.
योग इति भावः, मन्यतेऽनेनेति वा मनो द्रव्यविशेषः तच्च मनः सत्यादिभेदादनेकमपि संज्ञिनां 10 वाऽसंख्यातत्वादसंख्यातभेदमपि मननलक्षणत्वेन सर्वमनसामेकत्वादेकम्, यस्मिन् वा समये विचा
येते तस्मिन् समय एकजीवापेक्षया एक एव मनोयोगः न कचनापि समये व्यादिसंख्यः सम्भवति ततो जीवानामेकोपयोगादेकत्वं तस्य, न च नैकोपयोगो जीवः, युगपच्छीतोष्णस्पर्शविषयसंवेदनद्वयदर्शनात्तथाविधभिन्न विषयोपयोगपुरुषद्वयवदिति वाच्यम् , भिन्नसमयत्वाच्छीतोष्णोपयोगस्य, योग
पद्यप्रतीतिस्तु समयमनसोरतिसूक्ष्मत्वात् , न पुनर्युगपदेव, अन्यथाऽन्यत्र गतचेताः पुरोवस्थितं हस्तिनis मपि किं न विषयीकरोतीति । सत्यादिस्वरूपाणां वा मनोयोगानामेकदैकस्यैव भावो न व्यादीनां विरोधादिति । वचनं वाक्, औदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याजीवव्यापारो वाग्योगः, स च सत्यादिभेदादनेकोऽप्येक एव, सर्ववाचां वचनसामान्येऽन्तर्भावात् , एकस्यैकदा भावाद्वैकम् । औदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेष: काययोगः, स चौदारिकादिभेदेन सप्तप्रकारोऽपि जीवानन्तत्वेनानन्तभेदोऽपि काययोगसामान्यादेक एव, सप्तानां काययोगानामे20 कदैकतरस्यैवैकस्य भावादेकदा स एक एव । नन्वेकदा कथं न काययोगद्वयम् , आहारकप्रयोगकाले
चौदारिकावस्थितेः श्रूयमाणत्वादिति चेन्न, तत्सत्त्वेऽपि तस्य व्यापाराभावात् , तस्यापि तदा व्याप्रियमाणत्वे मिश्रयोगतैव स्यात् , केवलिसमुद्धाते सप्तमषष्ठद्वितीयसमयेऽवौदारिकमिश्रवत् , तथा च केवलाहारकप्रयोक्का न लभ्येत, एवञ्च सति सप्तविधकाययोगप्रतिपादनमनर्थकं स्यादत एक एव काययोगः ।
एवं चक्रवर्त्यादेरपि कृतवैक्रियशरीरस्यौदारिक निर्व्यापारमेव, सव्यापारत्वे चोभयस्य व्यापारवत्त्वेन 26 मिश्रयोगतया तथाप्येकत्वस्याव्याहतत्वात् , क्रमेण व्याप्रियमाणत्वेऽपि यौगपद्यप्रतीतेोन्तत्वेनैकत्वस्याव्याहतत्वाचेति । आदिपदेन कायव्यापारविशेषाणामुत्थानभ्रमणबलवीर्यपुरुषकारपराक्रमादीनां प्रहणम् , एतेषां वीर्यान्तरायक्षयोपशमवैचित्र्यतः प्रत्येकं जघन्यादिभेदैरनेकत्वेऽप्येकजीवस्यैकदा क्षयोपशममात्राया एकविधत्वादेकत्वं विभावनीयम् ॥ ५॥ पराक्रमादेश्च शानादेर्मोक्षमार्गस्य प्राप्तानादीनां निरूपणायाह
ज्ञानदर्शनचारित्राणि समयविशेषाश्च तथा ॥६॥ ... ज्ञानेति, ज्ञायन्ते परिच्छिद्यन्तेऽर्था अनेनास्मिन्नस्माद्वेति ज्ञानम्, ज्ञानदर्शनावरणयोः क्षयः