________________
मुक्ता]
स्थानमुक्तासरिका । क्षयोपशमो वा ज्ञातिर्वा, आवरणद्वयक्षयायाविर्भूत आत्मपर्यायविशेषः सामान्यविशेषात्मके वस्तुनि विशेषांशग्रहणप्रवणः सामान्यांशग्राहकश्च ज्ञानपञ्चकाज्ञानत्रयदर्शनचतुष्टयरूपः, तपानेकमप्यवबोधसामान्यादुपयोगापेक्षया वैकम् , लब्धितो हि बहूनां बोधविशेषाणामेकदा सम्भवेऽप्युपयोगत एक एव, एकोपयोगत्वाज्जीवानाम् । ननु कथं दर्शनस्य ज्ञानव्यपदेशो विषयभेदादिति चेन्न, अवबोधसामान्यात्तथोक्तेः, 'आभिनिबोहियनाणे अट्ठावीसं हवन्ति पयडीउ' इत्यागमे ज्ञानग्रहणेन दर्शनस्यापि गृहीतत्वाच, दर्शनेति, श्रद्धानश्चात्र दर्शनम् , ज्ञानादित्रयस्य सम्यक्छब्दलान्छितत्वे सति मोक्षमार्गतया विवक्षितत्वात् , मोक्षमार्गभूतश्चैतनयं श्रद्धानपर्यायेण दर्शनेनैव सहेति । दृश्यन्ते श्रद्धीयन्ते पदार्था अनेनास्मादस्मिन् वेति दर्शनं दर्शनमोहनीयस्य क्षयः क्षयोपशमो दर्शनमोहनीयक्षयाद्याविभूतस्तत्त्वश्रद्धानरूप आत्मपरिणामो वा, तच्चोपाधिभेदादनेकविधमपि श्रद्धानसामान्यादेकम् , एकस्य जीवस्य वैकदैकस्यैव भावात् , रुचिः सम्यक्त्वं तत्कारणन्तु ज्ञानमिति, चारित्राणीति, पर्यते 10 मुमुक्षुभिरासेव्यते तदिति चारित्रं यद्वा चयस्य कर्मणां रिक्तीकरणाचरित्रम् , चारित्रमोहनीयक्षयाद्याविर्भूत आत्मनो विरतिरूपः परिणामः, तस्य सामायिकादिभेदवत्त्वेऽपि विरतिसामान्यादेकस्यैवैकदा भावाद्वैकम् , ज्ञानादीन्युत्पादव्ययस्थितिमन्ति स्थितिश्च समयादिकेति समयं प्ररूपयति समयविशेपाश्चेति, विशेषपदेन निरंशता सूच्यते, परमनिरुद्धकालः समयः स चैक एव वर्तमानस्वरूपः, अतीतानागतयोर्विनष्टानुत्पन्नत्वेनाभावात् , अथवाऽसावेकः स्वरूपेण निरंशत्वात्, चशब्देन निरंश-15 भूतयोः प्रदेशपरमाण्वोर्ग्रहणम् , प्रकृष्टो निरंशो धर्मादीनां देशोऽवयवविशेषः प्रदेशः स चैकः स्वरूपतः, सद्वितीयादौ देशव्यपदेशेन प्रदेशत्वाभावात् । परमाणुरत्यन्तसूक्ष्मो व्यणुकादीनां कारणभूतः, स च स्वरूपत एकोऽन्यथा परमाणुत्वासम्भवात् । अथवा समयादीनां प्रत्येकमनन्तानामपि तुल्यरूपापेक्षयैकत्वमिति ॥ ६ ॥ अथ पुद्गलधर्माणां तदालिङ्गितजीवाप्रशस्तधर्माणामेकतामाह
20 रूपादयोऽव्रतकषायप्रेमद्वेषकलहाभ्याख्यानपैशुन्यपरपरिवादारतिरतिमायामृषामिथ्यात्वशल्यानि सविपक्षाणि च ॥७॥
रूपादय इति, रूपरसगन्धस्पर्शशब्दा इत्यर्थः तत्र रूपादयः स्वस्थावान्तरभेदापेक्षयाऽनेकेऽपि खस्वसामान्यादेकरूपा इति भावः । अव्रतेत्यादि, प्राणातिपातो द्रव्यभावभेदेन द्विविधः, विनाशपरितापसंक्लेशभेदेन त्रिविधः, योगैः करणैर्नवविधः, क्रोधादिभेदात् षट्त्रिंशद्विधो वा, मृषावादो द्रव्यभाव-25 भेदेन द्विविधः, अभूतोद्भावनभूतनिह्नववस्त्वन्तरन्यासनिन्दाभेदेन चतुर्विधः, अदत्तादानं विविधोपाधिवशादनेकविधम् , मैथुनमौदारिकवैक्रियविषयं करणैर्योगैरष्टादशविधं विविधोपाधितो बहुतरं वा, परिग्रहो बाह्याभ्यन्तरभेदेन द्विविधः, विविधोपाधितो बहुविधो वा। कषायाः क्रोधमानमायालोभा, कषायमोहनीयकर्मपुद्गलोदयसम्पाद्या जीवपरिणामाः, ते चानन्तानुबन्ध्यादिभेदतोऽसंख्याताध्यवसायस्थानभेदतो वा बहुविधाः। प्रियस्य भावः कर्म वा प्रेम, तच्चानभिव्यकमायालोभलक्षणभेद-30 खभावमभिजनमात्रम्, द्वेषणं द्वेषः स चानभिव्यक्तकोधमानलक्षणभेदखभावोऽप्रीतिमात्रमिति ।