SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १५८ सूत्रार्यमुक्तावल्या [चतुर्थी कलहः, अभ्याख्यानं-प्रकटमसदोषारोपणम् , पैशुन्यं पिशुनकर्म प्रच्छन्नं सदसदोषाविर्भावनम् , परेषां परिवादः परपरिवादो विकथनम् , अरतिस्तन्मोहनीयोदयजश्चित्तविकार उद्वेगलक्षणः, रतिस्तथाविधानन्दरूपा, अरतिरतीत्येकमेव विवक्षितम् , यतः कचन विषये या रतिस्तामेव विषयान्तरापेक्षयाऽरति तथाऽरतिमेव रतिं व्यपदिशन्तीत्यौपचारिकमेकत्वमनयोः। मायया सह मृषा मायामृषा, इदं मान। मृषादि संयोगदोषोपलक्षकम् । प्रेमादीनि विषयभेदादध्यवसायभेदाद्वा. बहुविधानि, मिथ्यादर्शनं विपर्यस्तदृष्टिः, तदेव शल्यं दुःखहेतुत्वात् , मिथ्यादर्शनं च पञ्चधाऽभिग्रहिकानभिग्रहिकाभिनिवेशिकानाभोगिकसांशयिकभेदात्, उपाधिभेदतो बहुतरं वा, सर्वेषामेषां प्राणातिपातादीनां स्वखसामान्यादेकत्वमवगन्तव्यम् । एषामष्टादशपापस्थानानां विपक्षाः प्राणातिपातविरमणादिरूपा अपि तथैवेति दर्शयति सविपक्षाणि चेति ॥ ७ ॥ कालस्य स्थितिरूपत्वेन द्रव्यधर्मत्वात्तद्विशेषाश्रयेणाह षडरका अवसर्पिण्युत्सर्पिणी च ॥ ८॥ पडिति, अवसर्पति हीयमानारकतया, अवसर्पयति वाऽऽयुष्कशरीरादिभावान् हापयतीत्यवसर्पिणी, सूक्ष्माद्धासागरोपमाणां दशकोटीकोट्यात्मकः कालविशेषः, अत्र च समस्ता अपि शुभा भावाः क्रमेणानन्तगुणतया हीयन्ते, अशुभा भावाश्च क्रमेणानन्तगुणतया परिवर्द्धन्ते, अस्य षडरकाः, 1 सुषमसुषमा सुषमा सुषमदुःषमा दुःषमसुषमा दुःषमा दुःषमदुःषमा चेति, सुष्टु शोभनाः समा वर्षाणि यस्यां सा सुषमा, सुषमा चासौ सुषमा च सुषमसुषमा, तत्राद्यानां तिसृणां समानां क्रमेण सागरोपमकोटीकोट्यश्चतुनिद्विसंख्या:, चतुर्थ्यास्त्वेका द्विचत्वारिंशद्वर्षसहस्रोना, अन्त्ययोस्तु प्रत्येक वर्षसहस्राण्येकविंशतिरिति । उत्सर्पति वर्धतेऽरकापेक्षया उत्सर्पयति वा भावानायुष्कादीन वर्धयतीत्युत्सर्पिणी, इयमप्यवसर्पिणीप्रमाणा वैपरीत्येनारकषड्युता, एतेषां कालविशेषाणां समयराशीनां स्वस्ख20 सामान्यादेकत्वं विभावनीयम् ॥ ८ ॥ अथ वर्गणाश्रयेणैकत्वमाह नैरयिकादिचतुर्विंशतिवर्गणा अपि ॥ ९॥ नैरयिकादीति, नैरयिकासुरनागसुपर्णविद्युदग्निद्विपोदधिदिक्पवनस्तनितकुमारपृथिव्यप्तेजोघायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियतिर्यकरव्यन्तरज्योतिष्कवैमानिकसम्बन्धिचतुर्विंशतिवर्गणा अपि प्रत्येक सामाम्यादेकरूपाः, तत्र नैरयिकाः पृथिवीप्रस्तटनरकावासस्थितिभव्यत्वाभव्यत्वादिभेदादनेकविधास्तेषां समुदायो वर्गणा तस्याश्चैकत्वं नारकत्वपर्यायसाम्यात्। नारकाश्च प्रकृष्टपापकर्मफलभोक्तृतया सिद्धा यथा देवाः प्रकृष्टपुण्यफलभोक्तृतया सिद्धाः । न च देवा अप्यसिद्धा इति वक्तव्यम् , देव इति सार्थकं पदं व्युत्पत्तिमच्छुचपदत्वाद्धटादिपदवदिति तत्सिद्धेः, न च गुणर्द्धिसम्पन्नो नर एव देवपदाभिधेय इति वाच्यम्, तत्र देवत्वस्यौपचस्तिस्वात् , उपचारश्च सत्यां तथ्यार्थसिद्धौ भवति, यथाऽनुपचरितसिंह30 सद्भावे माणवके सिंहोपचारः । नारकादिस्तनितकुमारपर्यन्तेषु दर्शनत्रयमस्ति सम्यग्दृष्टिनैरयिकादिव गणाः, मिथ्यादृष्टिनैरयिकादिवर्गणाः, सम्बअिध्यादृष्टिनरयिकादिवर्गणाः । पृथिव्याविषञ्चानां मिथ्या
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy