________________
For 1
स्थानकारिक
१५९
त्वस्यैव सद्भावान्मिथ्यादृष्टिपृथिवी कायिका दिवर्गणाः । द्वीन्द्रियादीनां त्रयाणां मिश्रताया अभावेन द्वीन्द्रियादीनां सम्यग्दृष्टीनां मिध्यादृष्टीनां वर्गणा अप्येकैकरूपाः सामान्यात्, शेषाः पश्चेन्द्रियतिर्यङ्नरव्यन्तरज्योतिष्क वैमानिकानां त्रिविधा अपि वर्गणा भवन्ति, कृष्णपाक्षिकाणां शुकुपाक्षिकाणाश्च नैरयिकादिचतुर्विंशतिमार्गणा अप्येकरूपाः, षड्लेश्यानां वर्गणा अपि । तत्र भवनपतिवानव्यन्तरपृथिव्य कायिक वनस्पतिकायानां प्राथमिकाश्चतस्रो लेश्याः, तेजोवायुकायिकद्वित्रिचतुरिन्द्रियाणां तिस्रो 5 लेश्याः, पञ्चेन्द्रिय तिर्यग्योनिकानां मनुष्याणां षडपि । ज्योतिष्काणां तेजोलेश्या वैमानिकानामुत्तरातिस्रो लेश्या भवन्ति । ततस्तादृशानां ता वर्गणा एकैकाः । एवं यथायथं कृष्णादिलेश्यानां भव्यानामभाव्यानां सम्यग्दृष्टीनां मिथ्यादृष्टीनां सम्यमिध्यादृष्टीनां कृष्णपाक्षिकाणां शुकुपाक्षिकाणाञ्च वर्गणा एवंरूपा विज्ञेयाः । तथाऽनन्तरसिद्धानां परम्परासिद्धानां वर्गणाः परमाणूनां द्व्यादिप्रदेशानां यावदनन्तप्रदेशिकानां पुद्गलानामेकादिप्रदेशावगाढानां यावदसंख्येयप्रदेशावगाढानामेकादिसमय स्थितिकानां 10 यावदसंख्येयसमयस्थितिकानामेकादिगुणकालकानां यावदनन्तगुणकालकाना पुद्गलानां वर्गणा भाव्या इति संक्षेपः । तदेवं सामान्यनयाभिप्रायेणात्मादीनामेकत्वमुक्तम्, विशेषनयाभिप्रायेण तु तेषामनेकत्वमपि, तथा च जीवादीनां स्यादेकत्वं स्यादनेकत्वचेति स्थितम् ॥ ९॥
अथ विशेषमाश्रित्यानेकत्वे प्रतिपादनीये संख्याक्रमेण प्रथमोपस्थितां द्वित्वसंख्यामाश्रित्याहसस्थावरसयोनिकायोनिकादयो जीवाः, आकाशनोआकाशधर्मा - 15 धर्मादयोऽजीवाश्च ॥ १० ॥
त्रसेति, पूर्वव्यावर्णितमात्मादिवस्तु सर्वं विवक्षितवस्तुतद्विपर्ययलक्षणयोर्द्वयोः स्थानयोरवता - रास्थानकं भवति, यथा जीवोऽजीवश्चेत्यादि, वस्तुमात्रं हि जीवरूपमजीवरूपञ्च न तु राश्यन्तरम्, न चास्ति राश्यन्तरं नोजीवलक्षणमिति शङ्कनीयम्, नोशब्दस्य सर्वनिषेधकत्वेऽजीवस्यैव प्रतीतेः, देशनिषेधकत्वे तेन शब्देन जीवदेशप्रतीतावपि जीवस्यैव बोधात्, देशदेशिनोरव्यतिरिक्त- 20 त्वात् । जीवस्य द्विभेदमाह - त्रसेति त्रसनामकर्मोदयात् त्रस्यन्तीति त्रसा द्वीन्द्रियादयः, स्थावरनामकर्मोदयात् तिष्ठन्तीत्येवंशीलाः स्थावराः पृथिव्यादयः, योन्या उत्पत्तिस्थानेन सहेति सयोनिकाः संसारिणः, अयोनिकाः सिद्धाः, एवं सेन्द्रियाः संसारिणः, अनिन्द्रियाः सिद्धाः, सवेदकाः स्त्रीवेदाद्युदयवन्तः, अवेदकाः सिद्धा विज्ञेयाः । अजीवभेदमाह आकाशेति, आकाशं व्योम, नोआकाशं तदन्यद्धर्मास्तिकायादि, धर्मः, धर्मास्तिकायो गत्युपष्टम्भगुणः तदन्योऽधर्मः, अधर्मास्तिकायः स्थित्युपष्टम्भ- 25 गुणः, एवं बन्धो मोक्षश्च, पुण्यं पापञ्च, आस्रवः संवरश्च, वेदना निर्जरा च भाव्याः ॥ १० ॥ क्रियासद्भाव आत्मनो बन्धात् क्रियां निरूपयति —
जीवाजीवक्रियाकायिकीप्राद्वेषिकीप्राणातिपातिक्यारम्भिकीमायाप्र
त्ययिकदृष्टिकीप्रातीत्यिकी खाहस्तिक्याज्ञापनिक्यनाभोगप्रत्ययिकीप्रेमप्रत्यविकीरूपेण सद्वितीयाः क्रिया द्विविधाः ॥ ११ ॥
30