Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 187
________________ सूत्रार्थमुक्तावल्याम् [ चतुर्थी जीव क्रियेति, क्रिया द्विविधा, जीवक्रियाऽजीव क्रिया चेति, जीवव्यापारो जीवक्रिया, पुद्गल - समुदायस्य जीवस्य कर्मरूपतया परिणमनमजीवक्रिया, जीवक्रिया सम्यक्त्वमिध्यात्वक्रियाभेदेन द्विधा, सम्यग्दर्शनमिध्यात्वयोः सतोस्तयोर्भावात् । एवमैर्यापथिकी साम्परायिकी चेत्यजीवक्रिया द्विविधा, केवलयोगप्रत्ययमुपशान्तमोहादित्रयस्य सातवेदनीयकर्मतया यदजीवस्य पुद्गलराशेर्भवनं 5 सैर्यापथिकी क्रिया, सतोऽपि जीवव्यापारस्याविवक्षणात् । अजीवस्य पुद्गलराशेः कर्मतापरितिरूपा साम्परायिकी, इयञ्च सूक्ष्मसंपरायान्तानां भवति । प्रकारान्तरेण क्रिया द्वैविध्यमादर्शयति कायिकीति, कायव्यापारः कायिकी, खड्गादिभवा क्रियाऽऽधिकरणिकी चेति द्विविधा क्रिया । कायिकी 'च द्विविधाऽनुपरतकायक्रिया दुष्प्रयुक्तकाय क्रियाभेदात् । सावद्यादविरतस्य मिध्यादृष्टेः सम्यग्दृष्टेर्वा कर्मबन्धनिबन्धनकायक्रिया प्रथमा, दुष्टप्रयोगवतो दुष्प्रणिहितस्येन्द्रियाण्याश्रित्ये ष्टानिष्टविषयप्राप्तौ 10 मनाक् संवेगनिर्वेद्गमनेन तथाऽनिन्द्रियमाश्रित्याशुभमनःसंकल्पद्वारेणापवर्गमार्गं प्रति दुर्व्यवस्थितस्य प्रमत्तसंयतस्य च या कायक्रिया सा द्वितीया । आधिकरणिकी द्विधा संयोजनाधिकरणिकी निर्वर्त्त - नाधिकरणिकीच पूर्वं निर्वर्त्तितयोः खड्गतन्मुष्ट्यादिकयोः संयोजनक्रिया प्रथमा, मूलतस्तयोर्निर्वर्त्तनक्रिया द्वितीया । पुनर्द्विविधा क्रिया प्राद्वेषिकी पारितापनिकी चेति, प्रद्वेषो मत्सरस्तेन निर्वृत्ता प्राद्वेषिकी । परितापनं ताडनादिदुःखविशेषस्तेन भवा द्वितीया । आद्यापि जीवाजीवावाश्रित्य द्वितीया च 16 स्वपरहस्ताश्रयेण द्विविधा भवति । तथा प्राणातिपातिक्यप्रत्याख्यान की भेदेन द्विधा क्रिया, निर्वेदादिना स्वप्राणान् क्रोधादिना परप्राणान् वा स्वहस्तेन परहस्तेन वाऽतिपातयतः प्रथमा, अप्रत्याख्यानमविरतिस्तन्निमित्तो जीवाजीवविषयः कर्मबन्धोऽप्रत्याख्यानक्रिया । आरम्भिकी पारिग्रहिकी चेति द्विधा वा क्रिया, जीवान् पिष्टमयजीवाद्याकृतीन् वाऽऽरभमाणस्य कर्मबन्धो जीवाजीवविषयाSSरम्भिकी। जीवाजीवपरिग्रहप्रभवकर्मबन्धः पारिग्रहिकी । अथवा मायाप्रत्ययिकी मिथ्यादर्शनप्रत्य20 यिकी चेति क्रिया पुनर्द्विविधा, मायानिमित्तकः कर्मबन्धः प्रथमा, इयमात्मविषया परविषया च, द्वितीयाऽप्यूनातिरिक्तमिथ्यादर्शनप्रत्यया, तद्व्यतिरिक्तमिथ्यादर्शनप्रत्ययेति । आत्मपरिमाणविषये शरीरव्यापकमध्यात्मानं कोsपि मिथ्यादृष्टिरङ्गुष्ठपर्वमात्रं श्यामाकतन्दुलमात्रं वा हीनतयाऽन्यस्तु पश्चधनुःशतिकं सर्वव्यापकं वा मन्यते, एतन्निमित्तः कर्मबन्धः प्रथमः, अपरस्तु नास्त्येवात्मेति यो वदति तस्य च यस्तन्निमित्तः कर्मबन्धः स द्वितीयः । पुनः क्रिया दृष्टिकी स्पृष्टिकी भेदेन द्विधा, जीवस्या - 25 जीवस्य वा दर्शनार्थं या गतिक्रिया तन्निमित्ताऽऽद्या, अपरा च जीवमजीवं वा रागद्वेषाभ्यां पश्यतः स्पृशतो वा भवति । प्रातीत्यिकी सामन्तोपनिपातिकी चेति पुनरपि क्रिया द्विविधा, जीवमजीवं वा बाह्यं वस्तु प्रतीत्य रागद्वेषोद्भूतिनिमित्ता क्रिया प्रथमा, द्वितीया जीवाजीवविषया, यथा कस्यापि षण्डो रूपवानस्ति तं च जनो यथा यथा प्रलोकयति प्रशंसयति च तथा तथा तत्स्वामी हृष्यतीति जीवविषया, अजीवविषया तु रथादौ तथैव हृष्यतः । स्वाहस्तिकी नैसर्गिकीरूपेण पुनरपि सा द्विधा । 30 उभयविधाऽपि क्रिया जीवाजीवविषया, स्वहस्तेन जीवमजीवं वा हिंसयतः प्रथमा । राजादिसमादे - - शादुदकादेर्यत्रादिभिर्निसर्जनम्, काण्डादीनां धनुरादिभिर्निसर्जनमिति वा द्वितीया । आज्ञापनिकी वैदारणिकीभेदेन पुनरपि सा द्विधा, द्वे अपि जीवाजीवविषये, अनाभोगप्रत्ययिक्यनवकांक्षप्रत्ययिकी

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340