Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 226
________________ मुक्ता] स्थानमुक्तासरिका। भवान्तरापेक्षया । एवमनन्तं भवमनुबध्नन्ति-अविच्छिन्नं कुर्वन्तीत्येवंशीला अनन्तानुबन्धिनः, सम्यग्दर्शनसहभाविक्षमादिस्वरूपोपशमादिचरणलवविबन्धिनः; तेषां चारित्रमोहनीयत्वात् । न चोपशमादिभिरेव चारित्री, अल्पत्वात् , यथाऽमनस्को न संज्ञी किन्तु महता मूलगुणादिरूपेण चारित्रेण चारित्री, मनःसंज्ञया संशिवत्, अत एव त्रिविधं दर्शनमोहनीयं पञ्चविंशतिविधं चारित्रमोहनीयमिति, न विद्यते प्रत्याख्यानमणुव्रतादिरूपं यस्मिन् सोऽप्रत्याख्यानो देशविरत्यावारकः, प्रत्याख्यानं सर्वविरतिरूपमेव . आवृणोतीति प्रत्याख्यानावरणम् । संज्वलयति दीपयति सर्वसावद्यविरतिमपि, इन्द्रियार्थसम्पाते वा संज्वलयति दीप्यत इति संज्वलनो यथाख्यातचारित्रावारकः । आभोगो ज्ञानं तेन निर्वतितो यज्जानन् कोपविपाकादि रुष्यति स आभोगनिर्वर्तितः क्रोधादिः, इतरस्तु यदजानन् रुष्यति सोऽनाभोगनिर्वर्तितः, उपशान्तोऽनुदयावस्थः, तत्प्रतिपक्षोऽनुपशान्तः, एकेन्द्रियादीनामाभोगनिर्वर्तितः संज्ञिपूर्वभवापेक्षया, अनाभोगनिर्वर्तितस्तु तद्भवापेक्षयापि, उपशान्तो नारकादीनां विशिष्टोदयाभावात् , अनु-10 पशान्तो निर्विचार एव । एभिः क्रोधादिभिश्चतुर्भिर्जीवः कर्मप्रकृतीनां कालत्रयेऽपि चयनं, उपचयनं बन्धनमुदीरणं वेदनं देशनिर्जरणश्च करोति, तत्र कषायपरिणतस्य कर्मपुद्गलोपादानमात्रं चयनम् , चितस्थाबाधाकालं मुक्त्वा ज्ञानावरणादितया निषेक उपचयनम् , तस्यैव निषिक्तस्य पुनरपि कषायपरिणतिविशेषानिकाचनं बन्धनम् , अनुदयप्राप्तस्य करणेनाकृष्योदये प्रक्षेपणमुदीरणम् , स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेनवोदयभावमुपनीतस्यानुभवनं वेदनम् । कर्मणोऽकर्मत्वभवनं निर्जरणं 15 तच देशतः सर्वनिर्जरायाश्चतुर्विंशतिदण्डकेऽसम्भवात् ॥ ९४ ॥ पुरुषविशेषानधिकृत्यैव पुनराह आपातासंवासभद्रकाः संवासानापातभद्रका आपातसंवासभद्रका अनापातासंवासभद्रकाः पुरुषाः॥ ९५॥ आपातेति, आपतनमापातः प्रथममीलकस्तत्र भद्रको भद्रकारी, संवासः चिरं सहवासस्तत्र 20 न भद्रको हिंसकत्वात् संसारकारणनियोजकत्वाद्वेति, सह संवसतामत्यन्तोपकारितया संवासभद्रकस्तथाऽनालापकठोरालापादिनाऽऽपातभद्रकश्चेति, एवमेवान्यौ द्वावपि भाव्यौ ॥ ९५ ॥ पुनरप्याह आत्मपराश्रयेण वय॑स्य दर्शनोदीरणोपशमनाः ॥ ९६ ॥ आत्मेति, वयं हिंसानृतादि पापं कर्म तदात्मनः सम्बन्धि कलहादौ पश्यति पश्चात्तापा- 25 न्वितत्वान्न परस्य तं प्रत्युदासीनत्वादित्येकं स्थानम् , अन्यस्तु परस्य नात्मनः साभिमानत्वादिति द्विती- : यम्, इतर उभयोः, निरनुशयत्वेन यथावद्वस्तुबोधात्, अपरस्तु नोभयोर्विमूढत्वात् । एवं दृष्ट्वा चैक आत्मनः सम्बन्ध्यवद्यमुदीरयति भणति यदुत मया कृतमेतदिति, उपशान्तं वा पुनः प्रवर्त्तयति, एवमुपशमयति निवर्तयति पापं कर्म वेति ॥ ९६ ॥

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340