________________
मुक्ता]
स्थानमुक्तासरिका। भवान्तरापेक्षया । एवमनन्तं भवमनुबध्नन्ति-अविच्छिन्नं कुर्वन्तीत्येवंशीला अनन्तानुबन्धिनः, सम्यग्दर्शनसहभाविक्षमादिस्वरूपोपशमादिचरणलवविबन्धिनः; तेषां चारित्रमोहनीयत्वात् । न चोपशमादिभिरेव चारित्री, अल्पत्वात् , यथाऽमनस्को न संज्ञी किन्तु महता मूलगुणादिरूपेण चारित्रेण चारित्री, मनःसंज्ञया संशिवत्, अत एव त्रिविधं दर्शनमोहनीयं पञ्चविंशतिविधं चारित्रमोहनीयमिति, न विद्यते प्रत्याख्यानमणुव्रतादिरूपं यस्मिन् सोऽप्रत्याख्यानो देशविरत्यावारकः, प्रत्याख्यानं सर्वविरतिरूपमेव . आवृणोतीति प्रत्याख्यानावरणम् । संज्वलयति दीपयति सर्वसावद्यविरतिमपि, इन्द्रियार्थसम्पाते वा संज्वलयति दीप्यत इति संज्वलनो यथाख्यातचारित्रावारकः । आभोगो ज्ञानं तेन निर्वतितो यज्जानन् कोपविपाकादि रुष्यति स आभोगनिर्वर्तितः क्रोधादिः, इतरस्तु यदजानन् रुष्यति सोऽनाभोगनिर्वर्तितः, उपशान्तोऽनुदयावस्थः, तत्प्रतिपक्षोऽनुपशान्तः, एकेन्द्रियादीनामाभोगनिर्वर्तितः संज्ञिपूर्वभवापेक्षया, अनाभोगनिर्वर्तितस्तु तद्भवापेक्षयापि, उपशान्तो नारकादीनां विशिष्टोदयाभावात् , अनु-10 पशान्तो निर्विचार एव । एभिः क्रोधादिभिश्चतुर्भिर्जीवः कर्मप्रकृतीनां कालत्रयेऽपि चयनं, उपचयनं बन्धनमुदीरणं वेदनं देशनिर्जरणश्च करोति, तत्र कषायपरिणतस्य कर्मपुद्गलोपादानमात्रं चयनम् , चितस्थाबाधाकालं मुक्त्वा ज्ञानावरणादितया निषेक उपचयनम् , तस्यैव निषिक्तस्य पुनरपि कषायपरिणतिविशेषानिकाचनं बन्धनम् , अनुदयप्राप्तस्य करणेनाकृष्योदये प्रक्षेपणमुदीरणम् , स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेनवोदयभावमुपनीतस्यानुभवनं वेदनम् । कर्मणोऽकर्मत्वभवनं निर्जरणं 15 तच देशतः सर्वनिर्जरायाश्चतुर्विंशतिदण्डकेऽसम्भवात् ॥ ९४ ॥
पुरुषविशेषानधिकृत्यैव पुनराह
आपातासंवासभद्रकाः संवासानापातभद्रका आपातसंवासभद्रका अनापातासंवासभद्रकाः पुरुषाः॥ ९५॥
आपातेति, आपतनमापातः प्रथममीलकस्तत्र भद्रको भद्रकारी, संवासः चिरं सहवासस्तत्र 20 न भद्रको हिंसकत्वात् संसारकारणनियोजकत्वाद्वेति, सह संवसतामत्यन्तोपकारितया संवासभद्रकस्तथाऽनालापकठोरालापादिनाऽऽपातभद्रकश्चेति, एवमेवान्यौ द्वावपि भाव्यौ ॥ ९५ ॥
पुनरप्याह
आत्मपराश्रयेण वय॑स्य दर्शनोदीरणोपशमनाः ॥ ९६ ॥
आत्मेति, वयं हिंसानृतादि पापं कर्म तदात्मनः सम्बन्धि कलहादौ पश्यति पश्चात्तापा- 25 न्वितत्वान्न परस्य तं प्रत्युदासीनत्वादित्येकं स्थानम् , अन्यस्तु परस्य नात्मनः साभिमानत्वादिति द्विती- : यम्, इतर उभयोः, निरनुशयत्वेन यथावद्वस्तुबोधात्, अपरस्तु नोभयोर्विमूढत्वात् । एवं दृष्ट्वा चैक आत्मनः सम्बन्ध्यवद्यमुदीरयति भणति यदुत मया कृतमेतदिति, उपशान्तं वा पुनः प्रवर्त्तयति, एवमुपशमयति निवर्तयति पापं कर्म वेति ॥ ९६ ॥