SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ [चतुर्म सूत्रापेमुकापल्यान ... संसारापेक्षया चतु:स्थानमाह- द्रव्यक्षेत्रकालभावलक्षणः संसारः, परिकर्मसूत्रपूर्वगतानुयोगरूपो दृष्टिवादः॥ ९७॥ द्रव्येति, इतश्चेतश्च परिभ्रमणं संसारः, तत्र संसारशब्दार्थज्ञस्तत्रानुपयुक्तः, जीवपुद्गलानां 5 द्रव्याणां वा यथायोगं भ्रमणं द्रव्यसंसारः। तेषामेव क्षेत्रे चतुर्दशरज्वात्मके यत्संसरणं स क्षेत्रसंसारः, यत्र वा क्षेत्रे संसारो व्याख्यायते तदेव क्षेत्रमभेदोपचारात् संसारो यथा रसवती गुणनिकेत्यादि । कालस्य दिवसपक्षमासर्वयनसंवत्सरादिलक्षणस्य संसरणं चक्रन्यायेन भ्रमणम् , पल्योपमादिकालविशेषविशेषितं वा यत्कस्यापि जीवस्य नरकादिषु स कालसंसारः, यस्मिन् वा काले पौरुष्यादिके संसारो व्याख्यायते स कालोऽपि संसार उच्यते अभेदात् । संसारशब्दाभिज्ञस्तत्रोपयुक्तो जीवपुद्गलयोर्वा संस10 रणमात्रमुपसर्जनीकृतसम्बन्धिद्रव्यं भावानां वौदयिकादीनां वर्णादीनां वा संसरणपरिणामो भावसं सारः।अयञ्च द्रव्यादिसंसारोऽनेकनपैदृष्टिवादे विचार्यत इति दृष्टिवादचतुःस्थानमाह परिकर्मेति, दृष्टयो दर्शनानि नया उद्यन्तेऽभिधीयन्तेऽवतरन्ति यस्मिन्नसौ दृष्टिवादो द्वादशमङ्गम् , तत्र सूत्रादिग्रहणयोग्यतासम्पादनसमर्थ परिकर्म, तच्च सिद्धसेनिकादि, सूत्राणि ऋजुसूत्रादीनि द्वाविंशतिर्भवन्ति, इह सर्वद्रव्यपर्यायनयाद्यर्थसूचनात्सूत्राणि । समस्तश्रुतात् पूर्व करणात् पूर्वाणि, तानि चोत्पादमग्रायणीयं 15 वीर्यमस्तिनास्तिप्रवाद ज्ञानप्रवाई सत्यप्रवादमात्मप्रवादं कर्मप्रवादं पूर्व प्रत्याख्यानं विद्यानुवादमवन्ध्यं प्राणायुःक्रियाविशालं पूर्व बिन्दुसारश्चेति चतुर्दश, तेषु प्रविष्टं श्रुतं पूर्वगतं पूर्वाण्येव, योजनं योगः, अनुरूपोऽनुकूलो वा सूत्रस्य निजाभिधेयेन योग इत्यनुयोगः, स चैकस्तीर्थकराणां प्रथमसम्यक्त्वावाप्तिपूर्वभवादिगोचरो यः स मूलप्रथमानुयोगोऽभिधीयते । यस्तु कुलकरादिवक्तव्यतागोचरः स गण्डिका नुयोग इति ॥ ९७ ॥ 20 पूर्वगते प्रायश्चित्ताभिधानात्तस्य चतुःस्थानमाह ज्ञानदर्शनचारित्रव्यक्तकृत्यभेदात् प्रतिषेवणसंयोजनारोपणपरिकुञ्चनभेदाद्वा प्रायश्चित्तम् ॥ ९८॥ ज्ञानेति, ज्ञानमेव पापं छिनत्ति प्रायःचितं वा शोधयतीति निरुक्त्या ज्ञानप्रायश्चित्तम् , एवमन्यत्रापि, जीवोऽत्र चित्तशब्देनोच्यते चित्तचित्तवतोरभेदात् , व्यक्तस्य भावतो गीतार्थस्य कृत्यं करणीयं 25 व्यक्तकृत्यं प्रायश्चित्तं गीतार्थो हि गुरुलाघवपर्यालोचनेन यत्किञ्चित् करोति, तत्सर्वं पापविशोधकमेव भवति, अथवा ज्ञानाद्यतिचारविशुद्ध्यर्थं यान्यालोचनादीनि प्रायश्चितानि विशेषतोऽभिहितानि तानि तथा व्यपदिश्यन्ते, अथवा विदत्तकृत्यं; विशेषेणावस्थाद्यौचित्येन विशेषानभिहितमपि वितीर्णमभ्यनुज्ञातं यत्किञ्चिन्मध्यस्थगीतार्थेन कृत्यमनुष्ठानं तद्विदत्तकृत्यं प्रायश्चित्तमेव, प्रकारान्तरेणाह प्रतिषेव णेति, प्रतिषिद्धस्यासेवनमकल्प्यसमाचरणं प्रतिषेवणम् , तञ्च द्विधा परिणामभेदात् प्रतिषेवणीयभेदाद्वा, 30 भाव प्रतिषेवणा स पुनः कुशलोऽकुशलो वा भवेत् , कुशलेन भवति कल्पः, अकुशलपरिणामाइपः । प्रतिषेवणीयभेदात्तु 'मूलगुणोत्तरगुणेषु द्विविधा प्रतिषेवणा समासेन । मूलगुणेषु पञ्चविधा पिण्ड
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy