________________
मुका]
स्थानमुक्तासारिका। विशोध्यादिका इतरा' ॥ तस्यां प्रायश्चित्तमालोचनादि । संयोजनमेकजातीयातिचारमीलनम् , यथा शय्यात्तरपिण्डो गृहीतः सोऽप्युदकाहस्तादिना सोऽप्यभ्याहृतः सोऽप्याधाकर्मिकस्तत्र यत् प्रायश्चित्तं तत्संयोजनाप्रायश्चित्तम् , तथाऽऽरोपणमेकापराधप्रायश्चित्ते पुनः पुनरासेवनेन विजातीयप्रायश्चित्ताध्यारोपणम् , यथा पश्चरात्रिंदिवप्रायश्चित्तमापन्नः पुनस्तत्सेवने दशरात्रिंदिवं पुनः पञ्चदशरात्रिदिवमेवं यावत् षण्मासात् ततस्तस्याधिकं तपो देयं न भवति, अपि तु शेषतपांसि तत्रैवान्तर्भावनीयानि, । इह तीर्थे षण्मासान्तत्वात्तपस इति । आरोपणया प्रायश्चित्तमारोपणाप्रायश्चित्तम् । परिकुश्चनमपराधस्य द्रव्यक्षेत्रकालभावानां गोपायनमन्यथा सतामन्यथाभणनं परिकुश्चना परिवञ्चना वा तस्याः प्रायश्चित्तमिति ॥ ९८॥
प्रायश्चित्तस्य कालापेक्षत्वात्कालं निरूपयति
प्रमाणयथायुर्निवृत्तिमरणाद्धाकालभेदः कालः ॥ ९९॥ 10
प्रमाणेति, प्रमीयते परिच्छिद्यते येन वर्षशतपल्योपमादि तत्प्रमाणं तदेव कालः प्रमाणकालः, स चाद्धाविशेष एव दिवसादिलक्षणो मनुष्यक्षेत्रान्तर्वर्तीति, यथा-यत्प्रकारेण नरकादिभेदेन आयु:कर्मविशेषो यथायुः, तस्य रौद्रादिध्यानादिना निर्वृत्तिर्बन्धनं तस्याः सकाशाद्यः कालो नारकादित्वेन स्थितिर्जीवानां स यथायुर्निवृत्तिकालः, अयमप्यद्धाकाल एवायुष्ककर्मानुभवविशिष्टः सर्वसंसारिजीवानां वर्तनादिरूपः। मृत्योः कालो मरणकालः, अयमद्धासमयविशेष एव मरणविशिष्टो मरणमेव वा काल: 15 मरणपर्यायत्वादिति, अद्धैव कालोऽद्धाकालः, कालशब्दो हि वर्णप्रमाणकालादिष्वपि वर्त्तते ततोऽद्धा-. शब्देन विशिष्यते, अयश्च सूर्यक्रियाविशिष्टो मनुष्यक्षेत्रवर्ती समयादिरूपोऽवसेय इति ॥ ९९॥ .
अथ जीवाश्रयेणाह__ भरतैरवतेषु मध्यमा द्वाविंशतिरहन्तश्चतुर्यामं धर्म सर्वतः प्राणातिपातविरमणं मृषावादविरमणमदत्तादानविरमणं बहिर्द्धापरिग्रहविरमण 20 प्रज्ञापयन्ति सर्वेषु महाविदेहेष्वर्हन्तोऽपि ॥ १० ॥
भरतेति, मध्यमाः पूर्वपश्चिमवर्जाः, चत्वारो यमा एव यामा निवृत्तयो यस्मिस्तं, बहिर्द्धा मैथुनं परिप्रहविशेषः परिग्रहस्तयोर्द्वन्द्वैकत्वम् , अथवा बहिस्तात्परिग्रहविरमणं धर्मोपकरणाद्वहिः परिप्राचं वस्तु ततो निवृत्तिरित्यर्थः, अत्र पक्षे मैथुनं परिग्रहेऽन्तर्भवति, न ह्यपरिगृहीता योषिदुज्यत इति प्रत्याख्येयस्य चतुर्विधत्वाचतुर्यामता धर्मस्य । इयं चेह भावना, मध्यमतीर्थकराणां विदेहकानाच चतु-25 र्यामधर्मस्य पूर्वपश्चिमतीर्थकरयोश्च पञ्चयामधर्मस्य प्ररूपणा शिष्यापेक्षया परमार्थवस्तु पश्चयामस्यैवोभयेषामप्यसौ, यतः प्रथमपश्चिमतीर्थकरतीर्थसाधव ऋजुजडा वक्रजडाश्चेति, तत्त्वादेव परिग्रहो वर्जनीय इत्युपदिष्टे मैथुनवर्जनमवबोर्बु पालयितुश्च न क्षमाः, मध्यमविदेहजतीर्थकरतीर्थसाधवस्तु ऋजुप्रहत्वात्तद्बोद्धं वर्जयितुन क्षमा इति ॥ १०॥
सू. सु. २६