SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुक्तावल्याम् [चतुर्थी __अथ शुक्लध्यानं खरूपलक्षणालम्बनानुप्रेक्षणान्याश्रित्याह ___ सविचारपृथक्त्वाविचारैकत्ववितर्कानिवर्तिसूक्ष्मक्रियाप्रतिपातिसमु. च्छिन्नक्रियखरूपमव्यथाऽसंमोहविवेकव्युत्सर्गलक्ष्यं क्षान्तिमार्दवार्जवमु त्यालम्बनमनन्तवृत्तिविपरिणामाशुभापायानुप्रेक्षं शुक्लं ध्यानम् ॥ ९३ ॥ 5. सविचारेति, विचार:-अर्थाद्व्यञ्जने व्यञ्जनादर्थे तथा मनःप्रभृतीनां योगानामन्यतरस्मादन्यतरस्मिन् विचरणम् , तेन युतं तथैकद्रव्याश्रितानामुत्पादादिपर्यायाणां पृथक्त्वेन भेदेन पूर्वगत. श्रुतालम्बनो नाना नयानुसरणलक्षणो वितर्को यस्मिंस्तथाविधमेकं स्वरूपम् । अर्थव्यञ्जनयोरितरस्मादितरत्र मनःप्रभृतीनाश्चान्यतरस्मादन्यत्र सञ्चरणलक्षणविचारविधुरं तथोत्पादादिपर्यायाणामेकत्वेना भेदेनान्यतमपर्यायालम्बनतया पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा वितर्को यत्र तथाविधं द्विती10 यम् । प्रवर्धमानतरपरिणामादनिवर्ति केवलिनो निर्वाणगमनकाले निरुद्धमनोवाग्योगस्या निरुद्धकाययोगस्य कायिकी उच्छासादिका सूक्ष्मा क्रिया यस्मिंस्तादृशं तृतीयम् । अनुपरतिस्वभावं तथा शैलेशीकरणे निरुद्धयोगत्वाद्यस्मिन् कायिक्यादिका क्रिया क्षीणा तथा स्वरूपं चतुर्थम् । तस्य लक्षणानि देवादिकृतोपसर्गादिजनितचलनाभावः, अव्यथा, देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च मोहाभावोऽसंमोहः, देहादात्मन आत्मनो वा सर्वसंयोगानां बुद्ध्या पृथक्करणं विवेकः, निस्सङ्गतया देहो15 पाधित्यागो व्युत्सर्गः, याभिः शुक्लध्यानं समारोहति ताः क्षान्त्यादय आलम्बनानि, भवसन्तानस्यान न्ततयाऽनुप्रेक्षणमनन्तवृत्तितानुप्रेक्षा, वस्तूनां नानाप्रकारेण परिणमनभावना विपरिणामानुप्रेक्षा, संसा: रस्याशुभत्वभावनाऽशुभानुप्रेक्षा, आश्रवाणामपायभावनाऽपायानुप्रेक्षेति तस्यानुप्रेक्षाः ॥ ९३ ।। अथ मोहविशेषकषायाश्रयेणाह ___ कषाया आत्मपरोभयतदभावप्रतिष्ठिताः क्षेत्रवास्तुशरीरोपध्याश्रिता 20 अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनशीला आभोगानाभोगोपशान्तानुपशान्ताश्च कर्मचयनफलाः ॥ ९४ ॥ ___ कषाया इति, क्रोधमानमायालोभरूपा इत्यर्थः, कषति हिनस्ति देहिन इति कषं कर्म तस्यायो लाभहेतुत्वात् कषायः, क्रोधमोहनीयोदयसम्पाद्यो जीवस्य परिणामविशेषः क्रोधः, क्रोधमोहनीयकमैव ___वा, एवं मानादयोऽपि, तत्र सामान्यतः कषायाश्चत्वारश्चतुर्विशतितमे पदे यावद्वैमानिकानां भवन्ति । 26 ते चतुःप्रतिष्ठिताः, यथाऽऽत्मापराधेनैहिकामुष्मिकापायदर्शनादात्मविषया आत्मप्रतिष्ठिताः, परेणा: क्रोशादिनोदीरिताः परविषया वा परप्रतिष्ठिताः, आत्मपरविषया उभयप्रतिष्ठिताः, आक्रोशादिकारणनिरपेक्षाः केवलं क्रोधादिवेदनीयोदयाचे भवंति तेऽप्रतिष्ठिताः, अयं च चतुर्थभेदो जीवप्रतिष्ठितोऽप्यास्मादिविषयेऽनुत्पन्नत्वादप्रतिष्ठित उक्तो नतु सर्वथाऽप्रतिष्ठितः । एकेन्द्रियविकलेन्द्रियाणां कोपस्यादिप्रतिष्ठितत्वं पूर्वभवे तत्परिणामपरिणतमरणेनोत्पन्नानामिति । ते च नारकादीनां खं स्वमुत्पत्तिस्थान30 लक्षणं क्षेत्रं वास्तु-गृहं दुःसंस्थितं विरूपं वा शरीरं यद्यस्योपकरणं तदाश्रित्य भवन्ति, एकेन्द्रियाणान्तु
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy