SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ मुक्ता] स्थानमुक्तासरिका। चतुर्थयोरेकत्वेन चतुर्थं निदानमित्युक्तम् । एवम्भूतमार्तध्यानं, क्रन्दनता महता शब्देन विवरण, शोचनता दीनता, तेपनता अश्रुविमोचनम् , परिदेवनता पुनः पुनः क्विष्टं भाषणमित्येतैश्चतुर्भिर्लक्ष्यत इति ॥९॥ रौद्रध्यानमाश्रित्याह ओसन्नबह्वज्ञानामरणान्तदोषव्यङ्ग्यं रौद्रम् ॥ ९१ ॥ ओसन्नेति, दोषशब्दस्य प्रत्येकमभिसम्बन्धः, सत्त्वानां वधबन्धनादिपीडाकरणशीलं पिशु- 6 नासभ्यासद्भूतादिवचनानुबन्धि तीव्रक्रोधलोभाकुलतया परद्रव्यहरणानुबन्धि विषयसाधनधनस्य सर्वोपायैः परिरक्षणानुबन्धि च प्रणिधानस्वरूपं रौद्रध्यानं हिंसानृतस्तेयसंरक्षणेषु बाहुल्येनानुपरतिलक्षणादोसन्नदोषात् सर्वेष्वपि हिंसादिप्रवृत्तिरूपाद्वहुदोषात् कुशास्त्रसंस्कारेणाधर्मस्वरूपेषु हिंसादिषु नरकादिकारणेषु धर्मबुद्ध्याऽभ्युदयार्थ वा प्रवृत्तिलक्षणादज्ञानदोषादामरणान्तमसञ्जातानुपतापस्य कालसौकरिकादेरिव हिंसादौ प्रवृत्तिलक्षणामरणान्तदोषाच्चाभिव्यज्यत इति ॥ ९१ ॥ 10 ___ अथ धर्मध्यानं स्वरूपलक्षणालम्बनानुप्रेक्षाश्रयेणाह आज्ञापायविपाकसंस्थानविचयखरूपमाज्ञानिसर्गसूत्रावगाढरुचिलक्ष्यं वाचनाप्रतिप्रच्छनापरिवर्तनानुप्रेक्षालम्बनमेकानित्याशरणसंसारानुप्रेक्ष ध्यानं धर्म्यम् ॥ ९२॥ आज्ञेति, आ-अभिविधिना ज्ञायन्तेऽऽर्था यया साऽऽज्ञा प्रवचनं सा विचीयते निर्णीयते पर्या-15 लोच्यते वा यस्मिंस्तदाज्ञाविचयं धर्मध्यानम् , अपाया रागादिजनिताः प्राणिनामैहिकामुष्मिका अनर्थाः सा विचीयते यस्मिंस्तदपायविचयम्, विपाको ज्ञानाद्यावारकत्वादि कर्मफलं स विचीयते यस्मिंस्तद्विपाकविचयम् , संस्थानानि लोकद्वीपसमुद्रजीवादीनां तानि विचीयन्ते यस्मिंस्तत् संस्थानविचयमिति चत्वारि धर्मध्यानस्य स्वरूपाणि । सूत्रव्याख्याने नियुक्त्यादौ श्रद्धानमाज्ञारुचिः, अनुपदेशेन श्रद्धानं निसर्गरुचिः, आगमे आगमाद्वा श्रद्धानं सूत्ररुचिः, द्वादशाङ्गस्य विस्तराधिगमेन श्रद्धानमव- 20 गाढरुचिरित्येतानि तल्लक्षणानि, शिष्याय निर्जरायै सूत्रदानादि वाचना शतिते सूत्रादौ तदपनोदनाय गुरोः प्रच्छनं प्रतिप्रच्छनम् , पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिर्जरार्थमभ्यासः परिवर्तना, सूत्रार्थानुस्मरणमनुप्रेक्षेसालम्बनं तस्य । 'एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं नासौ भावीति यो ममे'त्येवमात्मनोऽसहायस्य भावना एकानुप्रेक्षा, 'कायःसंनिहितापायः सम्पदः पदमापदाम् । समागमास्सापगमाः सर्वमुत्पादिभङ्गुर'मित्येवं पदार्थानां नित्यत्वस्थ भावनाऽनित्यानुप्रेक्षा, 25 'जन्मजरामरणभयैरभिद्रुते व्याधिवेदनामस्ते । जिनवरवचनादन्यत्र नास्ति शरणं कचिल्लोके' इत्यत्राणस्यात्मनो भावनाऽशरणानुप्रेक्षा, 'माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । ब्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुताश्चैव' इति चतसृषु गतिषु सर्वावस्थासु संसरणलक्षणसंसारस्य भावना संसारानुप्रेक्षेति ध्यानानन्तरं पर्यालोचनानि ॥ ९२ ॥
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy