SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १९६ सूत्रार्थमुक्तावल्याम् [चतुर्थी प्रान्ताहार भक्षकत्वात्वक्खादघुणसमा भिक्षवः, एवं छल्लीखादघुणसमाः, अलेपाहारकत्वात्, काष्ठखादघुणसमा निर्विकृतिकाहारतया, सारखादघुणसमानाश्च सर्वकामगुणाहारत्वात्, एतेषां चतुर्णामपि भिक्षुकाणां क्रमतस्तपोविशेषानाह सारखादेति, त्वक्कल्पासाराहाराभ्यवहर्तुर्निरभिष्वङ्गत्वात् कर्मभेदमङ्गीकृत्य वज्रसारं सारखादसमानं तपो भवति, सारखादघुणस्य सारखादत्वादेव समर्थत्वा5 द्वज्रतुण्डत्वाच्च । छल्लीखादघुणसमस्य कर्मभेदं प्रति काष्ठखादसमानं तपः, अस्य हि त्वक्खादघुणसमानापेक्षया किञ्चिद्विशिष्टभोजित्वेन किश्चित्साभिषङ्गत्वात् सारखाद काष्ठखादघुणसमानापेक्षया त्वसारभोजित्वेन निरभिष्वङ्गित्वाश्च सारखादगुणवन्नातितीव्रं त्वक्छल्लीखादघुणवन्नातिमन्दादि तपो भवति, काष्ठखादघुणसमानस्य च साधोः सारखादघुणसमानापेक्षयाऽसारभोजित्वेन निरभिष्वङ्गत्वात् त्वक्छल्लीखादघुणसमानापेक्षया सारतरभोजित्वेन साभिष्वङ्गत्वाच्च छल्लीखादघुणसमानं तपः प्रज्ञप्तम्, 10 कर्मभेदं प्रति न सारखादकाष्ठखादघुणवदतिसमर्थादि नापि त्वक्खादघुणवदतिमन्दम् | सारखादसमानस्य तु साभिष्वङ्गतया त्वक्खादसमानं कर्मसारभेदं प्रत्यसमर्थं तपः स्यात् त्वक्खादघुणस्य हि तत्त्वादेव सारभेदनं प्रत्यसमर्थत्वादिति ॥ ८८ ॥ जीवसाम्यान्नारकाश्रयेणाह - नैरयिको नरलोकमायातुमिच्छति न च शक्नोति, तीव्रवेदनाभि10 भूतत्वात्, निरयपालैः समाक्रम्यमाणत्वात्, अनिजीर्णनिरयवेदनीयत्वादवेदितनिरयायुकत्वाच्च ॥ ८९ ॥ नैरयिक इति, अधुनोपपन्नो निर्गतमयं शुभमस्मादिति निरयस्तत्र भवो नैरयिको नारक इत्यर्थः, स तस्मान्मानुषं क्षेत्रं शीघ्रमागन्तुमिच्छत्यतिप्रबलतयोत्पन्नंदुःखस्यानुभवात्, अत एव च न समर्थो भवत्यागन्तुं तीव्रवेदनाभिभूतो हि नागन्तुं शक्तः । अम्बादिभिर्नरकपालैः पुनः पुनः समा2(' क्रम्यमाणत्वादागन्तुमिच्छति तैरत्यन्ताक्रान्तस्यागन्तुमशक्यत्वान्न शक्नोति चायातुम् । तथा निरययोग्यं यद्वेदनीयमत्यन्ताशुभनामकर्माद्य सात वेदनीयं वा तस्मिन्नक्षीणेऽवेदितेऽनिजीर्णे च मनुष्यक्षेत्रागमनेच्छा जायते, अवश्यवेद्य कर्मनिगडनियंत्रितत्वाच्च न चायातुं समर्थः । एवं निरयायुष्के कर्मण्यक्षीणेऽवेदितेऽनिजीर्णे चेति ॥ ८९ ॥ नारकत्वं ध्यान विशेषादिति ध्यानाश्रयेणाह— क्रन्दनशोचनतेपन परिदेवनता लक्ष्यमार्त्तम् ॥ ९० ॥ क्रन्दनेति, अन्तर्मुहूर्त्तमात्रमेकत्र वस्तुनि मनोऽवस्थानं छद्मस्थानां ध्यानम्, तच्चतुर्विधमार्त्तरौद्रधर्मशुक्लभेदात्, तत्र ऋतं दुःखं तन्निमित्तजं ध्यानमार्त्तम् । तच्चतुर्विधमनिष्टविषयसंयोगयुतस्य तद्वियोगाय चिन्तनमेकम्, धनधान्यादिमनोज्ञविषयसम्बद्धस्य तदविप्रयोगाय चिन्तनं द्वितीयम्, रोगयुतस्य तद्विप्रयोगाय चिन्तनं तृतीयम्, परिजुषितकामभोगसम्प्रयोगसम्प्रयुक्तस्य तदविप्रयोगाय चिन्तनं चतुर्थम् 1 30 द्वितीयं प्रियधनादिविषयं चतुर्थं तत्सम्पाद्यशब्दादिभोगविषयमिति तयोर्भेदः । शाखान्तरे तु द्वितीय 25
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy