SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ मुक्ता] १९५ स्थानमुक्तासरिका। प्रणतत्वे द्रव्यभावाभ्यां वेदितव्ये, आकारो रूपमुन्नतत्वं तस्य संस्थानावयवादिसौन्दर्यात् । उन्नतमना जात्यादिगुणैरुच्चत्वात् प्रकृत्यौदार्यादियुक्तमनस्त्वाद्वा, संकल्पो मनोविशेष एव विमर्श इत्यर्थः, तस्योप्रतत्वमौदार्यादियुक्ततया सदर्थविषयतया वा, प्रज्ञा सूक्ष्मार्थविवेचकत्वम् , तस्याश्चोन्नतत्वमविसंवादित्वात् , दर्शनं चक्षुर्ज्ञानं नयमतं वा तदुन्नतत्वमप्यविसंवादित्वादेव, शीलं समाधिस्तत्प्रधान आचारः शीलाचारस्तस्योन्नतत्वमदूषणत्वात् , व्यवहारोऽन्योन्यदानग्रहणादिर्विवादो वा, उन्नतत्वमस्य श्लाध्यत्वात् । सर्वत्रोन्नतविपर्ययः प्रणतत्वमिति ॥ ८५ ॥ पुनरप्याह एवमृजुवकाभ्यां शुद्धाशुद्धाभ्यां शुच्यशुचिभ्यां चतुर्भङ्गाकः ॥८६॥ एवमिति, द्रव्यभावाभ्यां यथासम्भवमित्यर्थः, ऋजुरवक्रो बहिस्ताच्छरीरगतिवाक्चेष्टाभिः, तथा ऋजुरन्तर्निर्मायत्वेन सुसाधुवदित्येकः, तथैव ऋजुरन्तीयित्वेन वक्रः, कारणवशप्रयुक्तार्जवभा- 10 बदुःसाधुवदिति द्वितीयः, तृतीयस्तु कारणवशादर्शितबहिरनार्जवोऽन्तर्निर्माय इति, शासनरक्षाप्रवृत्तसाधुवत् । चतुर्थ उभयतो वक्रः, तथाविधशठवदिति । कालभेदेन वा पूर्व ऋजुः सम्प्रत्यपि ऋजुरिति पूर्व ऋजुः पश्चाद्वक्र इति, पूर्व वक्रः पश्चादृजुरिति पूर्व पश्चाच्च वक्र इति चतुर्भङ्ग । एवं परिणाममाश्रित्यापि वाच्यम् । शुद्धाशुद्धाभ्यमिति, शुद्धो जात्यादिना पुनः शुद्धो निर्मलज्ञानादिगुणतया एतद्विपक्षोऽशुद्धः, आभ्यामपि चतुर्भङ्गः । शुच्यशुचिभ्यामिति, अत्र शुचिः पुरुषोऽपूतिशरीरतया, 15 पुनः शुचिश्व स्वभावेन चतुर्भङ्गः । एवं परिणाममाश्रित्यापि ॥ ८६ ॥ पुनरप्याह अतिजातानुजातापजातकुलागाराः पुत्राः॥ ८७ ॥ अतिजातेति, पितुः सम्पदमतिलंध्य जातः संवृतोऽतिजातः, अतिक्रम्य वा तां यातः प्राप्तोऽतियात इति वा वाच्यम् । ऋषभवत् । अनुरूपः सम्पदा पितुस्तुल्यो जातोऽनुजातः, अनुयातो 20 वा वाच्या, अनुगतः पितृविभूत्याऽनुयातः पितृसम इत्यर्थः, महायशोवत् , आदित्ययशसा पित्रा तुल्यत्वात्तस्य । अपेत्यपसदो हीनः पितुः सम्पदो जातोऽपजातः पितुः सकाशादीषद्धीनगुण इत्यर्थः, आदित्ययशोवत्, भरतापेक्षया तस्य हीनत्वात् । कुलस्य खगोत्रस्याङ्गार इवाङ्गारो दूषकत्वात्तदुपतापकत्वाद्वेति कुलाङ्गारः कण्डरीकवत्, शिष्येष्वपि पुत्रशब्दप्रयोगदर्शनात्सोऽपि चतुर्विधः, तत्रातिजातः सिंहगिर्यपेक्षया वैरखामिवत् , अनुजातः शय्यम्भवापेक्षया यशोभद्रवत् , अपजातो भद्रबाहुस्खाम्यपेक्षया 25 स्थूलभद्रवत् , कुलाङ्गारः कुलवालकवत् , उदायिनृपमारकवद्वेति ॥ ८७ ॥ पुनरप्याह त्वक्खादछल्लीखादकाष्ठखादसारखादघुणसमानां भिक्षूणां सारखादकाष्ठख़ादछल्लिखादत्वक्खादसमानानि तपांसि ॥ ८८॥ त्वक्खादेति, त्वचं बाह्यवल्कं खादतीति त्वक्खादः, छल्लीरभ्यन्तरं वल्कं, काष्ठं प्रसिद्धम् , 30 सारः काष्ठमध्यम् , व्युत्पत्तिः पूर्ववत् , त्वक्खादेन घुणेन समा अत्यन्तं सन्तोषित्वात् , आचाम्लादि
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy