Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 91
________________ सिद्धान्तलक्षणतत्वालोकः । .८३ लोघवादिति चेन्न सम्बन्धसामान्येन प्रकारत्वाद्यतिरिक्तेन स्वातन्त्र्येणोलिखिततया भासमानस्य स्वरूपतोभानानङ्गीकारे विपरीतगौरवात् धूमत्वावच्छिन्नत्वस्य रासभादिवृत्तित्वसाधारण्यवारणाय समवायसम्बन्धावच्छिन्नधूमत्व निष्ठावच्छेदकताकत्वरूपस्य वाच्यतया गौरवादिति केचित् तन्न आधेयत्वस्यापि स्वरूसम्बन्धावच्छिनस्यैव संसर्गताथा वाच्यतया तत्प्रयुक्त गौरवस्याभावादिति ॥ धूमनिष्टतादृशसामानाधिकरण्यस्य व्याप्तिरूपत्वे मूललभ्यतान्दर्शयति तस्येतीत्यादि, तथाच तेनसमं तस्यव्याप्ति स्तेनसमंतस्य सामानाधिकरण्यमिति मूलयोजनयैव धूमनिष्ठसामानाधिकरण्यस्य व्याप्तित्वं लभ्यत इति भावः अत्र तेन समं तस्य व्याप्तिरितीतरभेदानुमित्युद्दश्यरूपलक्ष्यपदार्थप्रतिपादक मूलभागव्याख्या नरूपतद् पविशिष्टस्येत्यादि दीधितिव्याख्यानावसरएव द्रव्यत्वादिरूपेणेत्यादिग्रन्थेन लक्ष्ये तत्पदार्थप्रवेशफलमभिहितं लक्षणे तत्प्रवेशफलं रासभादिसाधारण्यवारणन्दीधितावेघोक्तं तेन च रासभसामानाधिकरण्यस्यानुमितिजनकतावच्छेदकत्वेन तत्रोक्तसामानाधिकरण्यरूप हेतोस्सत्वेन व्यभिचारप्रदर्शनं कृत मित्य वधेयम् । श्रन्थानुपपत्तीति यद्यपि द्वितीयव्याप्तिज्ञानस्यसामान्यलक्षणासत्वासत्वयोरेवसंभवात्सामान्यप्रत्यासत्य • भावेप्रथमव्याप्तिज्ञानसंभवानुपपत्तिरेव दोषत्वेनोद्भावयितुमुचिता तथापि सामान्यप्रत्यासत्यभावेपि विशिष्टवैशिष्ट्या वगाहि बुद्धौविशेषण'तावच्छेदकप्रकारकज्ञानस्यैवः कारणत्वमंगीकार्यन्न तुविशिष्टबुद्धविशे-पणज्ञानस्येतिव्यवस्थाप्योक्तव्याप्तिज्ञानस्योपपाद्यत्वाद्विशेषणज्ञानकार णत्वावलम्व्युक्तग्रन्थानुपपत्तिरेवोद्भावितेतिवोध्यम् । पक्षे साध्यसन्देहे साध्य सामानाधिकरण्यविशिष्टस्यतत्त्रपरामर्षासंभवात्सामानाधिकरयांशस्योपलक्षणतयैव विषयत्वांगीकारेण विशिष्टसत्ववृत्तितादृशसामोनाधिकरण्यावच्छिन्न प्रकारकगुणविशेष्यकप्रमयानुमित्यापत्तिरित्याह किंचेति, किस्वेत्यर्थः वाकारोनास्थायां तथा च धूमत्वादिमति . सामानाधिकण्यमित्यस्योभयव्याप्त्यर्थकतांस्वीकृत्य तादृशसामाना धिकरण्यहेतुतावच्छेदको भयधर्मावच्छिन्नप्रकारताशालिज्ञानत्वेनकारणत्वोक्तावुक्तदोषासंभवेपि न क्षतिरिति केचित् । परंतु धूमत्वादिमतीत्यस्ययथाश्रुतार्थलभ्याधूमादि विशिष्टसामानाधिकरण्यरूपव्यातिरेवदूषिताकिंचेत्यादिना तात्पर्योपवर्णितोभयात्मकव्याप्तौ विशिष्टाया " Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202