Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 151
________________ सिद्धान्तलक्षणतश्वालोकः । कथञ्चिदिति, उक्तारोपम्बिना जायमानप्रत्यक्षस्थलेपेितादृशारोपंप्रकल्प्येत्यर्थः ॥ स्वीकारेपीति, अपिनात्यन्ताभावप्रत्यक्षेप्रतियोग्युपस्थितिसद्दकृतयोग्यानुपलम्भस्य प्रागभावप्रत्यक्षेप्रतियोगिजनकसामग्युपलम्भसह १४३ कृतस्यध्वंसप्रत्यक्षेनाशकोपलम्भसहकृतस्य कारणत्वादेव सर्वत्र निर्धा हान्नप्रतियोग्यारोपस्य कारणत्वमितिसूचितम् नचनाशकोपलम्भसइकारोव्यर्थः असमवायिकारणमात्रनाशाधीन कार्यनाशस्थलेऽनुप लब्धासमवायिकारणनाशस्यध्वंसप्रत्यक्षापत्तेः नच कपालखण्डा छुपलब्धिस्थलध्वंस बुद्ध्यनुपपत्तिरानुमनिकत्वात्कपालध्वंसमनुमायघटध्वंसस्यप्रत्यक्षसम्भवादिति । निरुक्तसंसर्गाभावत्वविरहेति, संसर्गारोपजन्यप्रतीतिविषयवृत्यभावविभाजकोपाधिमत्वस्य संसर्गाभावत्वरूपत्वेनातिव्याप्तिरिति चिन्तनीयम्० ॥ सदातनत्वविशिष्टमिति, नचघटाभावाभावस्य घटरूपतयाऽनित्य नरवेसदातनत्वविरहादत्यन्ताभावत्वानुपपत्तिरितिवाच्य मतिरिक्तत्वाभ्युपगमाद्घट कालविशिष्टस्यैव संसर्गत्वाभ्युपगमेन घटाभावदशायान्तत्सत्वासम्भवात् I यद्वाभावत्वस्य भावभेदरूपतयाघटस्वरूपेतश्रतद्विरहेणात्यन्तभावत्वविरहेपिनदोषइति ॥ अनुयोगिताविशेषोवेति, इदन्तुबोध्यं भेदत्वस्यानुयोगिता विशेषस्वेऽत्यन्ताभावत्वस्यापितद्रूपत्वमेवेति ॥ सास्ना दावव्याप्तीति, साध्यतावच्छेदकस्बन्धावच्छिन्नत्वस्य पारिभाषिकत्वेनदोष सम्भवदति तु विभावनीयम् ● ॥ इदमप्यभावेत्यादि, ननु धर्मिभेदधर्म्मात्यन्ताभावयोरैक्ये Sव्यातिविरहेऽप्यभावाधिकरणकाभावस्याधिकरणस्वरूपत्वे गोभेदस्यापि हेतुसमानाधिकरणात्यन्ताभावरूपतयातत्राव्याप्तिरस्त्येव नचाभा वाधिकरणकोप्यभावोभावप्रतियोगिकपवाधिकरणस्वरूपइतिवाच्यम् तादात्म्येनाभावसाध्य के तथाप्यव्याप्तेरितिचेन्न हेत्वधिकरणनिरूपितवृत्तितावच्छेदकानुयोगितानिरूपित संसर्गाभावीय प्रतियोगित्वविवक्षायान्दोषाभावात् नचात्यन्ताभावीयत्व प्रवेशेप्रयोजनाविरहोत्राप्यस्त्येवेतिवाच्य मिष्टत्वात् ● ॥ यथायादृशप्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वं हेतुमतस्त " Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202