________________
सिद्धान्तलक्षणतश्वालोकः ।
कथञ्चिदिति, उक्तारोपम्बिना जायमानप्रत्यक्षस्थलेपेितादृशारोपंप्रकल्प्येत्यर्थः ॥
स्वीकारेपीति, अपिनात्यन्ताभावप्रत्यक्षेप्रतियोग्युपस्थितिसद्दकृतयोग्यानुपलम्भस्य प्रागभावप्रत्यक्षेप्रतियोगिजनकसामग्युपलम्भसह
१४३
कृतस्यध्वंसप्रत्यक्षेनाशकोपलम्भसहकृतस्य कारणत्वादेव सर्वत्र निर्धा हान्नप्रतियोग्यारोपस्य कारणत्वमितिसूचितम् नचनाशकोपलम्भसइकारोव्यर्थः असमवायिकारणमात्रनाशाधीन कार्यनाशस्थलेऽनुप
लब्धासमवायिकारणनाशस्यध्वंसप्रत्यक्षापत्तेः नच
कपालखण्डा
छुपलब्धिस्थलध्वंस बुद्ध्यनुपपत्तिरानुमनिकत्वात्कपालध्वंसमनुमायघटध्वंसस्यप्रत्यक्षसम्भवादिति ।
निरुक्तसंसर्गाभावत्वविरहेति, संसर्गारोपजन्यप्रतीतिविषयवृत्यभावविभाजकोपाधिमत्वस्य संसर्गाभावत्वरूपत्वेनातिव्याप्तिरिति चिन्तनीयम्० ॥
सदातनत्वविशिष्टमिति, नचघटाभावाभावस्य घटरूपतयाऽनित्य नरवेसदातनत्वविरहादत्यन्ताभावत्वानुपपत्तिरितिवाच्य मतिरिक्तत्वाभ्युपगमाद्घट कालविशिष्टस्यैव संसर्गत्वाभ्युपगमेन घटाभावदशायान्तत्सत्वासम्भवात् I यद्वाभावत्वस्य भावभेदरूपतयाघटस्वरूपेतश्रतद्विरहेणात्यन्तभावत्वविरहेपिनदोषइति ॥
अनुयोगिताविशेषोवेति, इदन्तुबोध्यं भेदत्वस्यानुयोगिता विशेषस्वेऽत्यन्ताभावत्वस्यापितद्रूपत्वमेवेति ॥
सास्ना दावव्याप्तीति, साध्यतावच्छेदकस्बन्धावच्छिन्नत्वस्य पारिभाषिकत्वेनदोष सम्भवदति तु विभावनीयम् ● ॥
इदमप्यभावेत्यादि, ननु धर्मिभेदधर्म्मात्यन्ताभावयोरैक्ये Sव्यातिविरहेऽप्यभावाधिकरणकाभावस्याधिकरणस्वरूपत्वे गोभेदस्यापि
हेतुसमानाधिकरणात्यन्ताभावरूपतयातत्राव्याप्तिरस्त्येव
नचाभा
वाधिकरणकोप्यभावोभावप्रतियोगिकपवाधिकरणस्वरूपइतिवाच्यम् तादात्म्येनाभावसाध्य के तथाप्यव्याप्तेरितिचेन्न हेत्वधिकरणनिरूपितवृत्तितावच्छेदकानुयोगितानिरूपित संसर्गाभावीय प्रतियोगित्वविवक्षायान्दोषाभावात् नचात्यन्ताभावीयत्व प्रवेशेप्रयोजनाविरहोत्राप्यस्त्येवेतिवाच्य मिष्टत्वात् ● ॥ यथायादृशप्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वं हेतुमतस्त
" Aho Shrutgyanam"