Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 129
________________ सिद्धान्तलक्षणतश्यालोकः । कालस्यतदवच्छेदकत्वेति, नचैवमिदानीमन्त्र घटोनास्तीत्यत्रोभयाधिकरणत्वावगाहित्वं भट्टाचार्य्योक्तङ्कथं संगच्छतइतिवाच्य मत्रेत्यस्यैतत्क पालइत्यर्थकस्या त्तत्रोभयाधिकणत्वस्यैवाव्याप्यवृत्तित्वादिति ॥ ● ॥ प्रतियोगिकुक्षावग्रहेपीति, तथा नच नम्वेतत्कालवृत्तित्वस्यतन्तुविशेषणत्वेनायन्दोष इति चेत् मूलेवृक्षेनकपिसंयोग इत्यत्रापि वृक्षइतिसत - म्याअवच्छेदकत्वार्थकत्वमभ्युपेत्य वृक्षावच्छेदक मूलवृत्तिकपिसं - योगाभावविषयकत्वसम्भवादव्याप्यनृत्यभावोच्छेदप्रसङ्गः नवे दानीमेतत्कपालेन घटइत्यत्र कालवृत्तिकपाले कपालवृत्तिकालेवा घदात्यन्ताभावात्रेषयकत्वेऽव्याप्यवृत्यभावाङ्गीकार इतिवाच्यं प्येतत्कालावच्छिन्नैतत्कपालवृत्तित्वाभावस्यैव घटेविषयत्वात् । वृक्षावच्छेदकत्वस्यवृक्षसमवायित्वरूपस्यैव वाच्यतया शास्त्रयांरूपेनरूपत्वमित्यस्यापिप्रामाण्यापत्तिः नहितत्प्रतीतेष्कथंचिदपिप्रामाण्यं • रूपत्वस्यव्याप्यवृत्तित्वाङ्गीकारा दितिवाच्यं मूलावच्छिन्नवृक्षवृत्ति त्वाभावस्यैवतत्रापिविषयत्वाङ्गीकारात् अतएवै करूपताप्युक्तप्रती: तीनामुपपद्यते यदिचोपरिमूलेवृक्षेन तत्संयोग इति प्रतीतौ मूलावच्छिन्नोपरिदिगवच्छिन्नवृक्षनिरूपितवृत्तित्वाप्रसिद्धया तदभावस्य न विषत्वसम्भवो यस्यहिवृत्तिर्नयत्र सार्वदेशिकी नसार्वकालिकी त निरूपिततद्वृत्ति तायापवसावच्छिन्नत्वस्याभ्युपेयत्वादिति मूलावच्छेदेनोपरिदिगवच्छेदेनवृक्ष तत्संयोगाभावएव विषय भावसिद्धान्तस्य नहानिरित्युच्यते तदेदानीमस्ताचले प्राच्यां नज्यो तिरित्यत्र प्राचीदिगवच्छिन्नैतत्कालावच्छिन्नस्यास्ताचलवृत्तित्वस्या स्ताचलावच्छिन्नप्राची वृत्तित्वस्यचाप्रसिद्धिः इत्यव्याप्यवृत्य १२१ प्राचीदिगवच्छिन्नास्ताचलावच्छिन्नैतत्कालवृत्तित्वस्यापिहि नसंभव स्तादृशवृत्तिमतो ऽसम्भवादिति कालपवाभावो भ्युपगन्तव्यः । तत्कालसम्बद्धावस्ताचलप्राचीदिग्विशेषौच तत्काल निष्ठाधिकरणतावच्छेदकौसम्भवत इति कालवृत्तितावच्छेदकत्वन्देशस्यनाप्रामाणिकं यैस्त्वव्याप्यवृत्तिपदा थनाङ्गीक्रियते तैस्तु विशेषरूपेण संसर्गत्वमभ्युपेत्य वृत्तित्वविशेषीयस्वरूपसम्बन्धावच्छिन्नवृत्तित्वाभावविषयकत्वेन सर्वप्रतीतिरुपपा द्यत इति ॥ ० ॥ येनरूपेणेत्यादि, यत्संवन्धावच्छिन्नयद्धर्मावच्छिन्नाधिकरणता वभिष्ठतत्संवन्धावच्छिन्नाभावप्रतियोगितानवच्छेदकतद्धर्म्मवत्वं तेन. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202