Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 145
________________ सिद्धान्तलक्षणतत्वालोकः ।, १३१ संयोगो घणुकनाशश्च ततः क्रियानाश सासरेणुनाशश्च ततउत्सर संयोगनाश स्सएवक्षणोनिखिलजन्यानाधारस्वान्महाप्रलयइत्युच्यते तरक्षणमादायपूर्वेतृतीयक्षण इत्यर्थः । - कार्यद्रव्येणसहैवेति, एवकारेण गगनादिभिस्संयोगोव्यवच्छिद्य. ते ननुमूर्तसंयोगानुगुणक्रियातएवविभुसंयोगाभ्युपेयोविभुमात्रसं. योगानुगुणक्रियायाःप्रयोजनविरहेणानभ्युपेयत्वा त्तथाचात्राप्युत्तरदेशसंयोगानुगुणक्रियया विभुसंयोगस्पादेवे त्येवकारार्थासंगतिरित्यतआह ननित्यत्वमिति, तथाच भावकार्यत्वस्यानित्यत्वव्या. सतयातदानींगगनादिसंयोगस्वीकारेनाशकाभावेननित्यत्वापत्याव्या. पकविरहेणभावकार्यत्वप्रतिक्षेपेतत्स्वरूपप्रतिक्षेपः प्रयोगश्च महाप्र. लयपूर्वतृतीयक्षणोत्पन्नसंयोगो ननित्यैकवृत्तिः नाशातिरिक्तनाशकपूर्ववानधिकरणत्वेसतिभावकार्यत्वा धन्वन्तन्नैवं यथासृष्टिका. लीनगगनपरमाणुसंयोगः शब्दध्वंसेव्यभिचारवारणायविशेष्यदलं तस्यकालेपिद्रव्यातिरिक्तेविशेषणत्वस्वीकारेतर्कस्फुरणायैवतदितिबोध्यम् विपक्षवाधकश्चात्र भावकार्यस्यानित्यत्वव्याघातानचकारण. सत्वेनियमक्षतिर्नकार्य्यवारणायालमिति गगनसंयोगःस्यादेव एव. मुक्तनियमोप्यप्रयोजकएव भावकार्यस्याविनाशित्वेक्षत्यभावात् तस्मानाशकपूर्ववर्तितैवाविनाशित्वेप्रयोजिका नतुभावकार्यत्व मन्यथा कार्य्यत्वमात्रस्यविनाशित्वप्रयोजकत्वमभ्युपेत्यनाशस्यापिविनाशित्वं स्या देवश्चाविनाशिनोपिगगनसंयोगस्य स्वीकारेनकापिहानिरिति. वाच्यम् प्रलयप्रयोजकादृष्टस्यैवगगनसंयोगप्रतिबन्धकत्वाभ्युपगमेनतदभावात्मककारणविरहा द्भावकाय्योनधिकरणस्यैवप्रलयत्वेनोक्त. संयोगोत्पत्तोप्रलयत्वव्याहतेः नचोपभोगयोग्यभावकार्यानधिकरणस्वमेवप्रलयत्वम्प्रलयेभावकार्यसत्वनिर्णयएवो पभोगयोग्यभावकार्यत्वत्वेनपक्षतायांगौरवस्यप्रलयसाधकानुमानसह्यत्वा दन्यथा द्वयणुकस्यापिकस्यचित्सत्वेक्षत्यभावेनतत्सत्वस्याप्यापत्तेः एवम्भावकार्येषु. सर्वेषपलब्धबिनाशित्वम्भावकार्यत्वव्यापकतयैवगृहीत नचतन्नित्यभावकार्यसम्भावनामात्रेणहातुमुचितमतदतुरोधेन तदभावस्यैवव्यव. स्थापनीयत्वात् नचभावत्वमकिञ्चित्करं ध्वंसध्वंसेप्रलयेसर्वभावोन्मजनप्रसङ्गा दनन्तध्वंसस्वीकारप्रसङ्गेनगौरवप्रसङ्गाच्च नचप्रलयविभा. गावस्थानसम्भवः तस्योत्तरदेशसंयोगेनैवप्रायोविनाश्यत्वा दन्यथा "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202