Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतश्चालोकः ।
प्रहरादिपूर्वोत्पन्नविभागाबनुत्पन्नविभागौचघटावालोचयताञ्जायमानविभक्तप्रतीतिस्समानाकारत्वेनानुभूयमानैकत्रविभागविषयिणीपरत्र
१३८
संयोगाभावविषयिणीतिस्या त्सतिविभागेकुत्रापिनतद्विषयिणीतिवक्तुमशक्यत्वा नचेष्टापत्ति रनुभूयमानसमानाकारत्वभङ्गापत्तेः नच. संयोगाभावेनैवविभक्तप्रतत्तिर्गतार्थता भावत्वेनानुभूयमानत्वा द्विनिगमनाविरहेणसंयोगप्रतीतेरेव विभागाभावविषयत्वप्रसंगाच्च किलोत्तरसंयोगस्यानाशकत्वे गिभक्तयोर्ययोर्न संयोगोनित्ययोस्तयोर्विभागस्याविनाशित्वप्रसङ्गः नचभावकार्य्यस्याविनाशित्वमिष्यतइत्यलमप्रस्तुत विचारवाहुल्येनेति ॥ ० ॥
स्वमतेद्यणुकस्याभावादिति, तस्य मेरुसर्षपयोः साम्यप्रसंगवारणा यावयवधारायाविश्रामस्य वाच्यत्वेलाघवात्त्रुटावेवविश्रामोवाच्यस्तदपकृष्टमहत्त्वस्यच नित्यत्वाङ्गीकारा दपकृष्टमहत्वं प्रत्यनेकद्रव्यत्वस्यप्रयोजकतया सप्रयोजकत्वेनाभिमत न्त्रसरेणु स्सावयव श्राक्षुषद्रव्यत्वादित्यादिद्व्यणुकादिसाधकमनुमान मप्रयोजकमेवा शुत्वव्यवहार• श्वापकृष्टपरिमाणैरेवोपपादनीयइति नद्व्यणुकादिस्वीकारेप्रयोजनमि
त्याशयः ॥ ० ॥
बलवत्तरमाणाभावादिति, ब्राह्मचं वर्षशतमित्यस्येदानीमागमत्वानुपलब्धे रागमत्वेनप्रसिद्धेरैतिह्यतया तत्रप्रामाण्यासम्प्रतिपत्तेः अविधित्वेनान्यार्थतात्पर्यकत्वसंदेहाच्च सर्गान्तरीयद्व्यणुकोत्पत्यर्थम्
प्रामा
णिकत्वपवतस्यचसविवादत्वादितिभावः ॥
क्रियाभ्युपगमोऽपिप्रलयाव्यवहितोत्तरक्षणएवहिद्वयणुकोत्पत्तेः
तांच्चन्त्यमिति, परंप्रत्युद्भावितस्यदोषस्य परमतेनासम्भावित्वएवादोषत्वमत्युचितं स्वमतेनतस्यादोषत्वन्तु नदोषतयाऽनुद्भावन• प्रयोजकमिति महाप्रलयस्य पराभ्युपगततया महाप्रलयान्तर्भावेणातिव्याप्तिवारणमेव स्थलान्तरानुसरणवजिमतिसुन्दरं नतुस्वमतेद्वयणु. कासम्भवेनस्थलासम्भवः प्राचीनैस्तु चसरेणुनित्यताया स्सन्दिग्धतचाक्षुषद्रव्यत्वेऽनित्यत्व.
याव्यभिचारसंशयस्यचाप्रतिबन्धकतया सावयवत्वादिव्याप्यत्वेनिश्चिते त्रसरेणुपरिमाणस्य नित्यत्वासम्भवात् द्वद्यणुकादिसाधकमनुमान नाप्रयोजकं नचमहदारम्भकारम्भकत्वात्परमाणुत्वेनाभिमतस्याप्यस्तुसावयवत्व मनवस्थाभयेन कुत्रापिविश्रामस्यवाच्यत्वे परमाणाविषतत्रैवास्तुविश्राम इतिवाच्यं महदारम्भ
"Aho Shrutgyanam"

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202