Book Title: Shrenik Charitram Author(s): Rajdarshanvijay Publisher: Ratnoday Charitable Trust View full book textPage 8
________________ तत्त्वप्रधाना धीसाध्या चर्याऽपि सरलभाषया बालानपि प्रतिबोधयति दृश्यतां १६२ - १६८ तमानि पद्यानि । इत्याद्यर्थवैशिष्ट्यविभूषितवर्णन मण्डितोऽयं ग्रन्थः राराजते । पूज्याचार्य श्रीरामसूरीश्वराणाम् जीवनस्य शततमवर्षानुसन्धाने तेषाम् प्रियतमस्वाध्याययोगान्तर्गतस्य अस्य ग्रन्थस्य पुनः प्रकाशनम् पूज्याचार्यश्रीरत्नचन्द्रसूरीश्वराणाम् शिष्यपुङ्गवाभ्याम् गणि-उदयरत्नविजय-मुनिराजदर्शनविजयाभ्याम् क्रियते । जैनशासनस्य महापुरुषाणाम् जीवनपर्याय - संयमपर्यायादि किमपि निमित्तमासाद्य ईदृशा उत्तमग्रन्थाः प्रगटीक्रियन्ते इत्येतदमन्दाऽऽनन्दविषयोऽस्ति । | द्वाभ्यां मुनिपुङ्गवाभ्याम् पुरापि प्रभूता उपयोगिग्रन्थाः प्राकाश्यमानीताः अग्रेऽपि प्रभुः मुनिपुङ्गवाभ्याम् ग्रन्थप्रकाशनम् कारयतु इति परमप्रभुप्रार्थनापुरःसरम् धन्यवादः । अपरश्च धन्यवादो यदस्य ग्रन्थस्य प्रास्ताविकं लेखितुं श्रुतभक्तिं च कर्तुं मह्यमवसरप्रदतः तदर्थे मुनियुगलाय । विक्रमाब्द २०७१ अधिकाषाढ कृष्णा नवमी पादलिप्तपुरे कस्तूरधामे - हेमप्रभसूरिःPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78