Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 10
________________ पिङ्गकेशशिराः शृंगज्वलद्वह्निरिवाचलः । मार्जार इव पिंगाक्षः, कपिवच्चीननासिकः ।।१०।। मयवल्लंबकंठोष्ठश्चाखुवल्लघुकर्णकः । स्थूलोदरो विना व्याधिं दकपूर्णो दृतिर्यथा । 199 ।। , हस्वोरुर्वामन इव, दुष्कर्म्मविनियोगतः । मंडलस्थानसंलीढयोधवद् वक्रजंघकः ।। १२ । शूर्पवत् स्थूलगुल्फश्च, मंत्रिसूः श्येनकाभिधः । सुमंगलकुमारस्य, क्रीडामित्रमभूत् सदा ।।१३।। चतुर्भिः कलापकं ।। कुमारस्य सभामेति, वराक: स यदा तदा । वक्रोक्त्या राजपुत्रस्तमुपहासास्पदं व्यधात् ।।१४।। सुमंगलकुमारेण, हस्यमानो दिने दिने । वैराग्यं श्येनको भेजे, दु:खगर्भं विमूढधीः ।।१५।। गत्वा देशान्तरे कस्मिन् परिव्राजकसन्निधौ । जग्राह दुःखभीर्दीक्षामुष्ट्रिकाभिग्रहान्विताम् ।।१६।। सुमंगलकुमारोऽथ, पित्रा राज्ये निवेशितः । प्रौढपुण्यप्रभावेण, प्राज्यं साम्राज्यमन्वशात् ।।१७।। श्येनकोऽपि परिभ्राम्यन्, देशाद्देशं पुरात्पुरम् । वसंतपुरमभ्यागात्, तपस्यन् दुस्तपं तपः ।। १८ ।। तपस्वी मंत्रिपुत्रश्च पूर्वसंस्तुत इत्यपि । पौरास्तं पूजयामासुरर्घदानादिभिर्भृशम् ।।१९।। श्रीश्रेणिकचरित्रम् । अपृच्छंश्च सनिर्बन्धं मूलवैराग्यकारणम् । सोऽपि माध्यस्थ्यमास्थाय कथयामासिवानिदम् ।। २० ।। ,

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78