Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 58
________________ ५४ श्रीश्रेणिकचरित्रम् । निवेश्य सोऽन्यदा चम्पां, त्रिखण्डेशोऽन्यदा विभुम् । पप्रच्छाविरतश्चक्री, मृत्वा क्वैति ? प्रभुर्जगौ ।।५३४ ।। सप्तमे नरके सोऽथ, प्रोचे क्वाहं गमी विभुः ? । षष्ठे इत्यवदद्यत्त्वं, न चतुर्दशरत्नभृत् ।।५३५।। सोऽथ कूटानि रत्नानि, कृत्वा वैताढ्यमासदत् । तमिस्त्रे स हतः षष्ठं, नरकं कूणिकोऽगमत् ।।५३६।। उदायीनृपतिर्जज्ञ, ततः, कूणिकराट्सुतः ।। चम्पापुर्यां प्रचण्डाज्ञस्त्रिखण्डभरताधिपः ।।५३७ ।। सोऽन्यदा पाटलीपुत्रं, कृत्वा तत्र कृतस्थितिः । जिनधर्मोद्यतः प्राज्यं, साम्राज्यं सुचिरं व्यधात् ।।५३८ ।। श्रीवीरं पुर्यपापायां, निर्वाणसमयेऽन्यदा । मण्डलेश: पुण्यपालो, नत्वाऽप्राक्षीदिदं यथा ।।५३९ ।। प्रश्नश्चायं यथाऽभाणि, प्रभुश्रीहेमसूरिभिः । तथैव लिख्यतेऽस्माभिस्तद्वचः कस्य न मतम् ? ।।५४०।। स्वामिन् ! स्वप्ना मयाऽद्याष्टी, दृष्टास्तत्र गज: कपिः । क्षीरद्रुः काक 'सिंहा ब्ज बीज कुंभा इमे क्रमात् ।।५४१ ।। तथाऽऽख्याहि फलं तेषां, भीतोऽस्मि भगवन्नहम् । इति पृष्टो जगन्नाथो, व्याचकारेति तत्फलम् ।।५४२ ।। विवेकवन्तो भूत्वाऽपि, हस्तितुल्या अतः परम् । वत्स्यन्ति श्रावका लुब्धाः, क्षणकर्धिसुखे गृहे ।।५४३ ।। न दौस्थ्येऽन्यस्वचक्रे वा, प्रव्रजिष्यन्त्युपस्थिते । आत्तामपि परिव्रज्यां, त्यक्ष्यन्ति च कुसङ्गतः ।।५४४ ।।

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78