Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 67
________________ श्रीश्रेणिकचरित्रम् । सत्यशौचार्जवक्षान्तिविनयादिगुणान्वितः । सुशीलः सुकुलीनश्च राजन्वांश्च जनस्तदा ।। ६३१ ।। कालो यथा यथा गामी, दुष्षमायामतः परम् । निर्धर्म्मस्त्यक्तमर्यादो, भावी लोकस्तदा तदा ।। ६३२ ।। मिथ्यात्वमोहितमतिर्दयादाक्षिण्यवर्जितः । अविनीतो जनः क्रूरः, कृतघ्नश्च भविष्यति ।। ६३३ ।। ग्रामाः पितृवनप्रायाः, पुराणि प्रेतलोकवत् । कुटुम्बिनोऽतिभृत्याश्च कृतान्तप्रतिमा नृपाः । । ६३४ ।। लुब्धा लास्यन्ति निष्पीड्य, द्रव्यमेते नियोगिनः । तेऽपि लोकांस्ततो भावी, तिमितिमिंगिलक्रमः ।। ६३५ ।। चौराश्चर्येण लुट्यन्ति, भूम्या भूमिभुजः करैः । देशांश्चान्दोलयिष्यन्ति, वातोद्धूतबहित्रवत् ।। ६३६ ।। पितृन् देवान् गुरून्नापि, मानयिष्यन्ति मानवा: । न प्रत्यक्षीभविष्यन्ति, देवा देव्यो यथा तथा ।। ६३७ ।। मनोवाक्कायकौटिल्यात्, स्नुषाः स्युः सर्पिणीसमाः । कालरात्रिसमाः श्वश्रूस्ताः प्रति क्रूरकर्म्मभिः । । ६३८ ।। विलासैर्हसनैर्वेषैः कटाक्षैर्वक्रभाषणैः । गणिका इव निर्लज्जा, भविष्यन्ति कुलस्त्रियः ।। ६३९।। विरोधो भविता भूयान् जने स्वार्थैकतत्परे । धर्म्मकर्म्मप्रमादश्च, बहुजीवाकुला च भूः । । ६४० ।। कूटक्रयतुलामानैर्जनो विश्वस्तघातकः । धर्मोऽपि भविता शौचमविश्वासः सुहृत्स्वपि । । ६४१ ।। ६३

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78