Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
६८
श्रीश्रेणिकचरित्रम् । सप्ताब्दपञ्चमास्यां चतुरशीतौ च गौतम ! । वत्सराणां सहस्रेषु, गतेषु मम निर्वृतेः ।।६८६।। उत्सर्पिण्यास्तृतीयारे, भविष्यन्त्या गतेष्विह । सार्धेष्वष्टसु मासेषु, त्रिषु संवत्सरेषु च ।।६८७ ।। अत्रैव पुण्ड्रदेशेषु, शतद्वाराभिधे पुरे । संमुचेर्नृपतेः पत्नी भद्रानाम्नी भविष्यति ।।६८८ ।। तदा श्रेणिकराड्जीवो, भयात् कूणिकभूपतेः । भुक्त्वा तालपुटं रत्नप्रभायामुदपादि यः ।।६८९ ।। तत्राद्यप्रस्तटे सीमन्तके च नरकेन्द्रके । आयुश्चतुरशीत्यब्दसहस्राण्यतिवाह्य सः ।।६९०।। तत्तत्प्रभावनाप्राप्तप्राज्यपुण्यप्रभावतः । विश्वं विश्वं समुद्धर्तुमिव दुर्गमदुर्गतः ।।६९१ ।। समुद्धृत्य ततो मासे, शुचौ पक्षे सिते तथा । निशीथसमये षष्ठ्यां , चन्द्रे हस्तोत्तरागते ।।६९२ ।। ज्ञानत्रयपवित्रात्मा, त्राता त्रिजगतामपि । देव्यास्तस्याः सुतत्वेन, कुक्षाववतरिष्यति ।।६९३ ।। भद्रा प्रशस्तसम्पूर्णदोहदा समये सुतम् । चैत्रशुद्धत्रयोदश्यां, निशीथे जनयिष्यति ।।६९४ ।। विधिवदिक्कुमारीभिः, सूतिकर्मणि निर्मिते । जिनेन्द्रं स्नपयिष्यन्ति, सुमेरौ सर्ववासवाः ।।६९५ ।। पद्मगर्भसमाङ्गस्य, तस्य जन्मोत्सवं पिता । विधायाधास्यते पद्मनाभ इत्यभिधां शुभाम् ।।६९६ ।।

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78