Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 74
________________ ७० श्रीश्रेणिकचरित्रम् । तृतीयोऽर्हन् सुपार्थाख्यो, जीव: पोट्टिलकस्य तु । तुर्यः स्वयम्प्रभाभिख्यो, जीवो दृढायुषः पुनः ।।७०८ ।। पञ्चमः कार्तिकजीवः, सर्वानुभूतिनामकः । जिनो देवश्रुतो नाम, जीवः शङ्खस्य षष्ठकः ।।७०९ ।। उदयाख्यो जिनो भावी, नन्दजीवस्तु सप्तमः । जीवः सुनन्दसंज्ञस्याष्टम: पेढालनामकः ।।७१०।। जिनेन्द्रः कैकशीजीवो, नवमः पोट्टिलः पुनः । जीवो रेवतिनाम्नस्तु, शतकीर्त्तिर्दशमोऽर्हन् ।।७११।। जीव: सत्यकिसंज्ञस्यैकादश: सुव्रतो जिनः । कृष्णस्य शीरिणो जीवोऽममाख्यो द्वादशो जिनः ।।७१२ ।। बलदेवस्य जीवोऽर्हनिष्कषायस्रयोदशः । रोहिणीश्राविकाजीवो, निष्पुलाकश्चतुर्दश ।।७१३।। निर्ममः सुलसायास्तु, जीवः पञ्चदशो जिनः । रेवतीश्राविकाजीवश्चित्रगुप्तस्तु षोडशः ।।७१४ ।। जीवो गवालिनाम्नस्तु, समाधिः सप्तदशोऽर्हन् । जीवो गागलिसंज्ञस्याष्टादश: संवराभिधः ।।७१५।। जीवो द्वीपायनस्यैकोनविंशोऽर्हन् यशोधरः । जीवः कर्णस्य विंशस्तु, विजयाख्यो जिनेश्वरः ।।७१६ ।। जीवस्तु नारदस्यैकविंशो मल्लाभिधो जिनः । अंबडस्य तु जीवोऽर्हन्, द्वाविंशो देवनामकः ।।७१७।। त्रयोविंशो जिनोऽनन्तवीर्यो द्वारमदस्य तु । जीवः स्वातेः पुनर्जीवश्चतुर्विंशोऽत्र भद्रकृत् ।।७१८ ।।

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78