Page #1
--------------------------------------------------------------------------
________________
श्री श्रेणिक चरित्रम्
• प्रेरकाः प. पू. तत्त्वप्रवचनप्रज्ञ आचार्यदेवेश श्रीमद्विजय
रत्नचन्द्रसूरीश्वराः
Page #2
--------------------------------------------------------------------------
________________
પ.પૂ. તપાગચ્છાધિપતિ, શ્રમણગણભાલતિલક આચાર્યદેવ શ્રીમદ્વિજય
રામસૂરીશ્વરજી મહારાજ સાહેબજી (ડહેલાવાળા)
પ.પૂ. ગચ્છાધિપતિ ગુરુદેવ આચાર્ય મહારાજ શ્રીમદ્વિજય
અભયદેવસૂરીશ્વરજી મહારાજ સાહેબ
Page #3
--------------------------------------------------------------------------
________________
।। श्रमण भगवओ महावीरस्स ।। ।। नमो नमः श्री गुरु रामसूरये ।।
सूरिराम स्मरणमाला : ६१
कर्मग्रंथादि शास्त्र रचयिता श्रीमद् देवेन्द्रसूरिपुरंदर रचितं श्राद्धदिनकृत्यान्तर्गतं
श्री श्रेणिक चरित्रम्
प्रेरका / पथदर्शका:
प. पू. तत्त्वप्रवचनप्रज्ञ आचार्यदेवेश श्रीमद्विजय
रत्नचन्द्रसूरीश्वराः
RATHODAY
संपादक :
मुनिश्री राजदर्शनविजय:
ARITABLE TRUST
प्रकाशकः
श्री रत्नोदय चेरिटेबल ट्रस्ट
अमदावाद
Page #4
--------------------------------------------------------------------------
________________
Kaskoolko RITESAECTOROSSESS
श्रेणिक चरित्रम् - संस्कृत मूलकर्ता : पूर्वाचार्य श्री देवेन्द्रसूरीधराः
संपादन-संकलनकर्ता : प.पू. तपागच्छ शिरोमुकुट श्रमणगणभालतिलक
आचार्यदेवेश श्रीमद्विजय रामसूरीश्वराणां * पट्टशिष्याचार्य गच्छाधिपति आचार्यदेवेश श्रीमद्विजय
अभयदेवसूरीश्वराणां पट्टदीपक तत्त्वप्रवचनप्रज्ञ & आचार्यदेवेश श्रीमद्विजय रत्नचन्द्रसूरीश्वराणां शिष्याणु
मुनि राजदर्शनविजयः
asaliseDDDDDDOGRSaeedeeIcookeSTOCHOONORS
प्रकाशक : प्राप्तिस्थान श्री रत्नोदय चेरिटेबल ट्रस्ट
Clo. झवेरी जैन उपाश्रय 5, मित्र मंडळ सोसायटी, आलोक होस्पिटल पाछळ,
उस्मानपुरा, अमदावाद. संपर्क : ८३०६४२३५३१
ARPE090HOOHOOLOGKESARGICICICIndress
मुल्य : १००
मुद्रक : भरत ग्राफिक्स न्यु मार्केट पांजरापोळ, रिलीफ रोड, अमदावाद-३८०००१ | Ph. : 079-22134176, Mo. 99250 20106
___Mail : bharatgraphics1@gmail.com
Page #5
--------------------------------------------------------------------------
________________
opx
समर्पणम्
तुभ्यं नमो मनसि - पार्श्वजिनेश्वराय तुभ्यं नमो वचसि - शान्त सुधारसाय तुभ्यं नमो वयसि - वृद्धमुनीश्वराय श्री रामसूरि गुरवे हृदि शासनाय ।।
साध्याय साधु कृपा प्राप्य है.
ગુરુરામ
भन्मशतान्ही
॥ वि.सं. १८७३ थी २०७३ ॥
Page #6
--------------------------------------------------------------------------
________________
ઉ
น
કા
શ્રાદ્ધદિનકૃત્યમાં રહેલી આ કથા રસાળ અને પ્રસિદ્ધ હોવા છતાં તેનું સ્વતંત્ર પ્રકાશન પ્રાયઃ આજ સુધી થયું ન હતું. પૂ. સરલાત્મા પંન્યાસજી શ્રી વજ્રસેનવિજયજી મ. તથા સૌહાર્દસાગર પૂ. આચાર્ય શ્રી હેમપ્રભસૂરીશ્વરજી મ.ના વિનેય પૂ. વિદ્વદ્ધ મુનિવર શ્રી જિનભદ્રવિજયજી મ. સંપાદકશ્રી પૂજ્ય મુનિવર શ્રી રાજદર્શન વિજયજી મ.ના પરમ કલ્યાણમિત્ર છે અને એ કલ્યાણ મૈત્રીના માંડવે એક જ્ઞાન ગોષ્ઠી દરમ્યાન તેઓશ્રીએ સૂચન કર્યું કે શ્રેણિક ચરિત્રનું સંપાદન કરવા જેવું છે.
- અને ત્યારબાદ આ ચરિત્રનું સંપાદન પ્રારંભાયું. પ્રસ્તાવના પણ પૂ. આચાર્ય ભગવંતશ્રીએ ઉદારતાપૂર્વક લખી આપી ઉપકૃત કર્યા છે. ખૂબ ઉપયોગપૂર્વકનું સંપાદન હોવા છતાં ક્યાંક ત્રુટી- ક્ષતિ રહી જવાનો સંભવ છે. વિદ્વન્દ્વનો ધ્યાન દોરવા કૃપા કરે !
સ્મ
અમારા પથદર્શક પૂજ્ય ગુરુ મહારાજ તત્ત્વપ્રવચનપ્રજ્ઞ આચાર્ય ભગવંત શ્રી વિજયરત્નચન્દ્રસૂરિજી મહારાજની પ્રેરણાથી પરમ ગુરુદેવ સ્વાધ્યાય-સંયમતીર્થ તપાગચ્છાધિપતિ આચાર્ય ભગવંત શ્રી વિજયરામસૂરીશ્વરજી મહારાજા (ડહેલાવાળા)ની સ્મૃતિમાં પ્રારંભાયેલી ૧૦૮ પુસ્તકની ‘સૂરિરામ સ્મરણમાળા'ના ૬૨મા પુસ્તક સ્વરૂપે આ નાનકડો ગ્રંથ પ્રકાશિત થઈ રહ્યો છે.
२
૨
।। શ્રી આદિનાથાય નમઃ II
।। નમો નમઃ શ્રી ગુરુ સુરેન્દ્ર-રામ-અભયદેવસૂરયે
શ્રાદ્ધદિનકૃત્ય ગ્રંથાન્તર્ગત શ્રી શ્રેણિક ચરિત્રમ્ નું નવ્ય સંપાદન શ્રી સંઘના કરકમલમાં મૂકતાં અતીવ આનંદની અનુભૂતિ થઈ રહી છે.
યોગાનુયોગ પૂ. પરમ ગુરુદેવશ્રીની જન્મ શતાબ્દીના પ્રારંભે જ આ ગ્રંથ પ્રકાશન થતો હોવાથી આનંદ અનહદ બન્યો છે.
પૂ. સાધ્વીજી શ્રી કંચન-સરસ્વતી મૃગલોચના-ગુણદક્ષાશ્રીજીના શિષ્યા સાધ્વીજી શ્રી માવગુણાશ્રીજી આદિની પ્રેરણાથી સં. ૨૦૦૦ના ભવ્ય ચાતુર્માસની સ્મૃતિમાં શ્રી સરેલાવાડી જૈન સંઘ-સૂરત ની બહેનોએ જ્ઞાનદ્રવ્યમાંથી આ ગ્રંથ પ્રકાશનનો લાભ લીધેલ છે. સહુ નો આભાર - ઉપકાર !
SHREE RATHAUST
શ્રી રત્નોદય ચેરિટેબલ ટ્રસ્ટ-અમદાવાદ વસંતપંચમી ગુરુરામ જન્મ શતાબ્દી વર્ષ- સં. ૨૦૦૨
Page #7
--------------------------------------------------------------------------
________________
॥ शिवमस्तु सर्वजगतः ॥
श्रीवीरः परमपरमेष्ठी श्रेणिकनृपस्तस्य परमभक्तः । यस्य सम्यक्त्व दार्द्धं देवा अपि परीक्षन्ते । तस्येयं कथा ।
कथेयं संक्षिप्ता किन्तु कामधूरेव मधुरा, सरला भाषा तथापि नूतना शब्दाः, भावस्तु सर्वरसप्रधानः । श्रेणिकनृपतेः जीवनसंबद्धा सर्वा प्रायः घटना संक्षेपतोऽत्र वर्णिता । तथा प्रभुवीरपरमात्मनो निर्वाणस्य पश्चात्-अत्रस्थजीवानां भावि जीवनम् । केषांचित् पदार्थानाम् अन्तः, कल्कीनृपतेः प्रबन्धः, षष्ठाऽऽरकस्य वर्णनम्, अवसर्पिण्या अन्तः, उत्सर्पिण्याश्च प्रारम्भः सप्त कुलकराः, श्रेणिकभूपतेः जीवस्य श्रीपद्मनाभाभिधानेन प्रथमतीर्थकृत्तयोत्पत्तिः, अन्येषां च त्रयोविंशतितीर्थकृतां नामानि तथा पूर्वभवाः इत्यनेका प्रसङ्गा विशदतया वर्णिता:, ते बालजीवानां विदुषां च समानतया चित्तमाकर्षन्ति ।
,
भाषायास्तिलकभूतानि सूक्तानि तु मनोहराणि एव, यथा "गूर्जरगिरायां " "आजमां अंडरानी प्रेम जूंये छे” इति कथितकं (- कहेवत) वर्तते - अत्र तदेव तु
'बाधतेऽर्हनिशं यद् वा चक्षुषोः कर्करो' यथा (५०) इत्यादि तथा श्रेणिक शब्दस्य निरुक्तमपि निरुपमं विद्यते यथा
विशिष्ट धृत्यादि गुणश्रेणिकृदित्ययम् ।
ततः श्रेणिक इत्याख्यां पिता तस्य स्वयं व्यधात् ॥ ४५ ॥
काव्ये क्वेः कल्पनावैभवो हि काव्यं नयन- मनोरसायणं भवतिअतः पठ्यताम् - चिच्छिदेऽरितमः स्वस्य प्रतापतपनांशुभिः (३)
Page #8
--------------------------------------------------------------------------
________________
तत्त्वप्रधाना धीसाध्या चर्याऽपि सरलभाषया बालानपि प्रतिबोधयति दृश्यतां १६२ - १६८ तमानि पद्यानि । इत्याद्यर्थवैशिष्ट्यविभूषितवर्णन मण्डितोऽयं ग्रन्थः राराजते ।
पूज्याचार्य श्रीरामसूरीश्वराणाम् जीवनस्य शततमवर्षानुसन्धाने तेषाम् प्रियतमस्वाध्याययोगान्तर्गतस्य अस्य ग्रन्थस्य पुनः प्रकाशनम् पूज्याचार्यश्रीरत्नचन्द्रसूरीश्वराणाम् शिष्यपुङ्गवाभ्याम् गणि-उदयरत्नविजय-मुनिराजदर्शनविजयाभ्याम् क्रियते । जैनशासनस्य महापुरुषाणाम् जीवनपर्याय - संयमपर्यायादि किमपि निमित्तमासाद्य ईदृशा उत्तमग्रन्थाः प्रगटीक्रियन्ते इत्येतदमन्दाऽऽनन्दविषयोऽस्ति ।
|
द्वाभ्यां मुनिपुङ्गवाभ्याम् पुरापि प्रभूता उपयोगिग्रन्थाः प्राकाश्यमानीताः अग्रेऽपि प्रभुः मुनिपुङ्गवाभ्याम् ग्रन्थप्रकाशनम् कारयतु
इति परमप्रभुप्रार्थनापुरःसरम् धन्यवादः ।
अपरश्च धन्यवादो यदस्य ग्रन्थस्य प्रास्ताविकं लेखितुं श्रुतभक्तिं च कर्तुं मह्यमवसरप्रदतः तदर्थे मुनियुगलाय ।
विक्रमाब्द २०७१ अधिकाषाढ कृष्णा नवमी
पादलिप्तपुरे कस्तूरधामे
- हेमप्रभसूरिः
Page #9
--------------------------------------------------------------------------
________________
श्रीतपोगच्छगगनभानुश्रीदेवेन्द्रसूरिसूत्रितं श्री श्रेणिकचरित्रम् ।
ज्ञातमात्रं जगज्ज्ञातमाहत्याख्ये महाफले । श्रेणिकोऽपि नृपो येन, तत्कथाऽत: प्रपञ्च्यते ।।१।। अस्त्यत्र भरतक्षेत्रे, कुशाग्रपुरपत्तनम् । कुशाग्रीयमतिस्तत्र, प्रसेनजिदिलापतिः ।।२।। हस्त्यश्वरथपत्त्यादि, शोभायै तस्य केवलम् । चिच्छिदेऽरितमः स्वस्य, प्रतापतपनांशुभिः ।।३।। चित्ते शीलं करे दानं, तपोऽङ्गे हृदि भावनाम् । बिभ्रत् स राजा शुशुभे, जैनधर्म इवाङ्गवान् ।।४।। श्रीपार्धनाथसत्तीर्थे, तस्य भूपस्य निश्चला । बभूव भूयसी भक्तिः, कम्बले जतुरागवत् ।।५।। अद्वैतेश्वर्यसौंदर्यवर्यस्यास्य महीपतेः । गरीयानवरोधोऽभूद्दिवीव दिविषत्पतेः ।।६।। पृथग्राज्ञीभवास्तस्य, सूनवः शतशोऽभवन् । रूपादिगुणसंयुक्तास्तन्मूर्तय इवापराः ।।७।। इतश्चात्रैव भरते, वसंतपुरपत्तने । जितशत्रुरभूद् राजा, प्रतापी न्यायविश्रुतः ।।८।। तस्यामरवधूरम्भाऽभूद् भार्याऽमरसुन्दरी । मूर्त्याऽमरकुमाराभः, कुमारश्च सुमंगलः ।।९।।
Page #10
--------------------------------------------------------------------------
________________
पिङ्गकेशशिराः शृंगज्वलद्वह्निरिवाचलः । मार्जार इव पिंगाक्षः, कपिवच्चीननासिकः ।।१०।।
मयवल्लंबकंठोष्ठश्चाखुवल्लघुकर्णकः ।
स्थूलोदरो विना व्याधिं दकपूर्णो दृतिर्यथा । 199 ।।
,
हस्वोरुर्वामन इव, दुष्कर्म्मविनियोगतः । मंडलस्थानसंलीढयोधवद् वक्रजंघकः ।। १२ ।
शूर्पवत् स्थूलगुल्फश्च, मंत्रिसूः श्येनकाभिधः । सुमंगलकुमारस्य, क्रीडामित्रमभूत् सदा ।।१३।। चतुर्भिः कलापकं ।।
कुमारस्य सभामेति, वराक: स यदा तदा । वक्रोक्त्या राजपुत्रस्तमुपहासास्पदं व्यधात् ।।१४।। सुमंगलकुमारेण, हस्यमानो दिने दिने । वैराग्यं श्येनको भेजे, दु:खगर्भं विमूढधीः ।।१५।। गत्वा देशान्तरे कस्मिन् परिव्राजकसन्निधौ । जग्राह दुःखभीर्दीक्षामुष्ट्रिकाभिग्रहान्विताम् ।।१६।। सुमंगलकुमारोऽथ, पित्रा राज्ये निवेशितः । प्रौढपुण्यप्रभावेण, प्राज्यं साम्राज्यमन्वशात् ।।१७।।
श्येनकोऽपि परिभ्राम्यन्, देशाद्देशं पुरात्पुरम् । वसंतपुरमभ्यागात्, तपस्यन् दुस्तपं तपः ।। १८ ।।
तपस्वी मंत्रिपुत्रश्च पूर्वसंस्तुत इत्यपि । पौरास्तं पूजयामासुरर्घदानादिभिर्भृशम् ।।१९।।
श्रीश्रेणिकचरित्रम् ।
अपृच्छंश्च सनिर्बन्धं मूलवैराग्यकारणम् । सोऽपि माध्यस्थ्यमास्थाय कथयामासिवानिदम् ।। २० ।।
,
Page #11
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् । तिक्तौषधरसास्वादो, यद्वदारोग्यकारणम् । सुमंगलाट्टहासो मे, तद्वद् वैराग्यकारणम् ।।२१।। ज्ञात्वा श्येनकमायातं, सुमंगलनृपोऽपि हि । तं प्रणन्तुं ययौ हृष्टस्तपसा को न हृष्यति ? ।।२२।। क्षमयित्वा च नत्वा च, भूपतिः प्रीतमानसः । न्यमन्त्रयत् तं तन्मासः, पारणाय कृतादरः ।।२३।। श्येनकस्तद्वचो मेने, ययौ राजा स्वमंदिरे । मासान्ते पारणायागात्, श्येनकोऽपि नृपौकसि ।।२४।। तदा च महदस्वास्थ्यमभूभूमिपतेस्तनौ । राजलोकस्ततो व्यग्रस्तमृषि कोऽपि नैक्षत ।।२५।। क्षणं स्थित्वा निवृत्त्याथ, श्येनकोऽकृतपारण: । द्वितीयं मासक्षपणं, कर्तुं प्राविशदुष्ट्रिकाम् ।।२६।। राजाऽथ स्वस्थतां प्राप्तः, स्मृत्वा च स्वनिमन्त्रणम् । तत्काशसुमवन्मोघं, मत्वाऽनिन्दद् भृशं स्वकम् ।।२७।। विषण्णात्मा ततो गत्वा, श्येनकस्यान्तिकं द्रुतम् । तं नत्वा गद्गदध्वानो, व्यजिज्ञपदिदं नृपः ।।२८।। यथा दातुः प्रियालापः, स्यादन्यत्रापि विघ्नकृत् । तथा मे मंदभाग्यस्य, बभूवेदं निमन्त्रणम् ।।२९।। तथापि मम दीनस्य, क्षमस्वैतत् क्षमानिधे ! । प्रसद्य चानुमन्यस्व, मद्गेहेऽदोऽपि पारणम् ।।३०।। अनुनीतो नृपेणैवं, प्रपेदे श्येनकोऽपि तत् । ततो नत्वा गृहेऽगच्छन्मुदितो मेदिनीपतिः ।।३१।।
Page #12
--------------------------------------------------------------------------
________________
८
ययौ यावत् तपस्व्येष, संप्राप्ते पारणाहनि । नृपीकस्तावदास्थानमभूत्तस्य महत्तरम् ।। ३२ ।। तथैव विनिवृत्त्यासौ, पुनः प्राविशदुष्ट्रिकाम् । तं चानुनेतुं तत्रागात्, स्वस्थीभूतः सुमंगलः ।।३३।। मुञ्चन्न श्रान्तमश्रूणि, नत्वोचे तमृषिं नृपः ।
भगवन् ! भवतामेवं धिग्मां दुष्कर्म्मकारिणम् ।।३४।।
,
श्रीश्रेणिकचरित्रम् ।
सर्वंसहावदाराध्याः, सदा सर्वंसहा मयि । तत्प्रसद्यानुगृह्णन्तु, पारणेनाधुनाऽपि माम् ।।३५।। प्रपेदे नृपदाक्षिण्यात्, तृतीयमपि पारणम् । श्येनकर्षिस्ततो राजा, धन्यंमन्यो गृहं ययौ ।। ३६ ।। पूर्णेऽथ मासक्षपणे, यावत्तत्र ययावृषिः । बृहत्तरतमं तावद्, राज्ञोऽस्वास्थ्यमजायत ।। ३७।। राजलोकस्त्विदं दध्यावयमेति यदा यदा । तदा तदा महीभर्तुः, सहसा जायते रुजा ।।३८।। इति तैः श्येनकः क्रुद्धैर्यष्टिलोष्टादिभिर्भृशम् । यथेष्टं कुटितो गेहे, प्रविष्ट इव तस्करः ।। ३९ ।।
संचूर्णितसमस्ताङ्गश्चिन्तयामास चेतसि । नूनं सुमंगलो राजा, मत्सरी मयि सर्वदा ।। ४० ।। भवान्तरेऽस्य भूयासं, वधाय तपसाऽमुना । निदायेति विपद्याभूदल्पर्धिर्व्यन्तरोऽथ सः ।।४१।।
गृहीत्वा तापसीं दीक्षां, सुमंगलनृपोऽपि हि । कालेन मृत्वा भूत्वा च व्यन्तरः स ततश्च्युतः ।। ४२ ।।
Page #13
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् ।
तस्मिन् कुशाग्रनगरे, प्रसेनजिदिलापतिः । धारिण्याख्यामहादेव्या, उदरे समवातरत् ।।४३।।
सा देवी समयेऽसूत, सुनुमन्यूनलक्षणम् । सर्वर्ध्या विदधे पित्रा, तस्य जन्मोत्सवो महान् ।। ४४ ।।
विशिष्टमतिधृत्यादिगुणश्रेणिभृदित्ययम् ।
ततः श्रेणिक इत्याख्यां पिता तस्य स्वयं व्यधात् ।। ४५ ।।
श्रेणिको ववृधे रूपसौभाग्यादिभिरन्वहम् । कलाभिर्नव्यनव्याभिः शुक्लपक्ष इवोडुपः । । ४६ ।।
"
शुशुभे श्रेणिकाङ्गश्रीः, यौवनेन विशेषिता । यथा मधुश्रीर्मलयमारुतेन विशेषिता ।। ४७ ।।
इतोऽत्राभूत् पुरे नागरथिको नागवल्लभः । पत्नी च सुलसा तस्य, धर्म्मकर्म्मसु लालसा ।।४८ ।। तयो: सदैकमनसोर्दम्पत्योः प्रीतिपात्रयोः । भूयान् कालः सुखेनागाद्यथा भारुण्डपक्षिणोः ।। ४९ ।। परं गाढमपुत्रत्वं, हृदि नागस्य शल्यवत् । बाधतेऽहर्निशं यद्वा, चक्षुषोः कर्करो यथा ।। ५० ।।
चिन्ताप्रपन्नमन्येद्युः सुलसोचे निजं पतिम् । युष्माकं बाधतेऽङ्गे किं, कश्चिच्छूलादिरामयः ? ।। ५१ ।। अप्रसन्नो नृपः किं वा, नादृतं स्वजनेन वा T मित्रेण किमवज्ञातं किञ्चित्परिजनेन वा ? ।। ५२ ।।
1
सदाऽऽदेशविधायिन्या, मयाऽऽज्ञा काऽपि खण्डिता ? यदेवं ताम्यसि स्वान्ते, स्वामिंस्तन्मां निवेदय ।।५३।।
९
Page #14
--------------------------------------------------------------------------
________________
१०
रथिकस्त्वाह नैतेभ्यो, मामेकमपि बाधते । प्रियेऽनपत्यता यत्तन्मामतीव विबाधते ।। ५४ ।। सुलसोचे सुतार्थे त्वमन्यां कन्यां विवाहय । स्वाम्यूचे कृतमन्याभिः कन्याभिरिह जन्मनि । ५५ ।।
,
ततोऽधिकं तपोदानशीलार्चाभावनादिके ।
सुधर्मे सुलसा तस्थौ स हि सर्वत्र कामधुक् ||५६।।
इतश्च दिवि देवेन्द्रः, सदस्येवमवर्णयत् । श्राविका सुलसा धर्मे, निश्चला शैलराजवत् ।। ५७ ।।
तद्वचोऽश्रद्दधानोऽत्रागत्यौकस्त्रिदशोऽविशत् । कृत्वा नैषेधिकीं साधुवेषेण सुलसागृहे ।। ५८ ।।
श्रीश्रेणिकचरित्रम् ।
तदा जिनाच कुर्वती, सुलसा द्रागुपस्थिता । भक्त्या नत्वा च तं साधुं पप्रच्छागमकारणम् ।। ५९ ।।
स प्राहात्र पुरे भद्रे !, मुनिग्र्लानोऽस्ति तत्कृते । तैलाय लक्षपाकाय, श्राविकेऽहमिहागमम् ||६०।।
7
तुष्टाऽथ सुलसा तैलकुम्भमादाय पाणिना । प्रतिलम्भयितुं साधुं यावदागाच्छनैः शनैः । । ६१ ।। तावत् सुपर्वणाऽचिन्त्यशक्तिना स्फोटितः कुटः । तत्तैलमपि कुत्रापि, सर्वमप्यगमद् द्रुतम् ।। ६२ ।।
इत्यस्फोटि द्वितीयोऽपि, तृतीयोऽपि घटः क्षणात् । द्रव्यहान्या सुबह्व्याऽपि व्यषीदत् सुलसा न तु ।। ६३ ।।
दध्यौ चेदं मुनी ग्लाने, ययौ यन्नोपयोगिताम् । निर्दोषौषधमप्यत्र, ममेयं ही प्रमादिता ।। ६४ ।।
Page #15
--------------------------------------------------------------------------
________________
११
श्रीश्रेणिकचरित्रम् । अथ संहत्य तां मायां, प्रत्यक्षीभूय सोऽमरः । निवेद्येन्द्रकृतां श्लाघामूचे भद्रे ! वरं वृणु ।।६५ ।। जगाद सुलसाऽप्येवं, पतितोषकृते मम । देहि पुत्रमपुत्रायास्ततोऽवादीदिदं सुरः ।।६६ ।। गृहाण गुटिका एता, द्वात्रिंशतमपि क्रमात् । भक्षयेस्ते भविष्यन्ति, पुत्रा द्वात्रिंशदुत्तमाः ।।६७।। ता: समर्प्य पुनः कार्ये, स्मर्त्तव्योऽहं त्वयाऽनघे ! इत्युक्त्वा स ययौ स्वर्गमुत्पत्य गगनाध्वना ।।६८।। सुलसाऽचिन्तयच्चैवं, प्रत्यब्दं प्रसवव्यथाम् । समांसमीनाऽनड्वाहीवत् को ननु सहिष्यति ? ।।६९ ।। देवदत्तास्ततश्चैता, गुटिका एकवेलया । भक्षयामि ततोऽमूभिः, पुत्रो मे भवितोत्तमः ।।७०।। तथैव सुलसा चक्रे, पुत्रा द्वात्रिंशदप्यथ । उत्पेदिरे तदुदरे, नान्यथा दिविषद्वरः ।।७१।। वर्धमानांश्च तान् गर्भान्, सा धर्तुमसहाऽभवत् । प्रभूतफलसंभारमिव वल्ली दिने दिने ।।७२ ।। ततः सस्मार तं देवं, सोऽप्यागत्याब्रवीदिदम् । किं स्मृतोऽहं त्वया भद्रे !, साऽथाचख्यौ निजां व्यथाम् ।।७३ ।। बभाषेऽनिमिषोऽप्येवं, त्वया साधु कृतं नहि । .. द्वात्रिंशदपि ते पुत्रा, भविष्यन्ति समायुषः ।।७४ ।। दैवानुभावतः पीडां, सोऽपहत्य तिरोदधे । कालेन सुलसाऽसूत, सुतान् द्वात्रिंशतं वरान् ।।७५।।
Page #16
--------------------------------------------------------------------------
________________
१२
श्रीश्रेणिकचरित्रम् । धन्यंमन्योऽथ नागोऽपि, पुत्रजन्मोत्सवं व्यधात् । पुत्रान् प्रीत्या पृथग् धात्रीपञ्चकैः पर्यपालयत् ।।७६।। अङ्केऽथ हृदि पृष्ठे च, स्कन्धयोस्तैः समाश्रितः । नागोऽभादर्भकारूढः, फलेग्रहितरुर्यथा ।।७७ ।। सुखेनोपकलाचार्यमधीत्य सकलाः कलाः । उद्यौवना बभूवुस्ते, श्रेणिकस्यानुयायिनः ।।७८ ।। प्रसेनजिन्महीनाथो, राज्यार्हत्वं परीक्षितुम् । भुजानानां स्वपुत्राणां, सूदेनामोचयच्छुनः ।।७९ ।। नेशुः सर्वेऽपि राजन्याः, श्रेणिकस्त्वात्मनोऽभितः । तत्पात्राण्यन्तरा चक्रे, बुभुजे च यथासुखम् ।।८।। राजा पुन: परीक्षार्थं, मोदकानां करण्डकान् । ददौ निजकुमाराणां, पयः कुम्भांश्च मुद्रितान् ।।८१ ।। इमां मुद्रामभिन्दाना, यूयमश्नीत मोदकान् । तथैव पिबताम्भश्च, पुत्रानित्यादिदेश च ।।२।। कुमारा बलवन्तोऽपि, भोक्तुं पातुं च नाशकन् । बुद्धिसाध्येषु कार्येषु, कुर्युरुर्जस्विनोऽपि किम् ? ।।८३।। श्रेणिकस्तु गृहे नीत्वा, तं मोदककरण्डकम् । चालं चालं क्षरच्चूर्णं, स्वर्णस्थालस्थमाशिवान् ।।८४ ।। धृत्वा रूप्यमयीं शुक्तिं, तत्पयाकुम्भबुध्नके । गलद्वार्बिन्दुपूर्णां तामुत्पाट्य च पयः पपौ ।।८५।। सर्वमेतत्परिज्ञाय, हृदये धृतवान्नृपः । तदा च नगरे तत्रासकृद् जज्ञे प्रदीपनम् ।।८६।।
Page #17
--------------------------------------------------------------------------
________________
१३
श्रीश्रेणिकचरित्रम् । ततश्चाघोषयामास, पुरे राजेति यद्गृहात् । उत्थास्यत्यनलः सोऽस्मात्, पुरान्निष्कासयिष्यते ।।८७।। अन्येधुर्मेदिनीभर्तृहे सूदप्रमादतः । जज्ञे प्रदीपनं ह्यग्निर्यमश्च स्वो न कस्यचित् ।।८८।। राज्ञा पुत्राः समाविष्टा, यो यद् गृह्णाति तस्य तत् । ततस्ते निर्ययुः शीघ्रं, गृहीत्वाऽश्वगजादिकम् ।।८९ ।। श्रेणिकस्तु समादाय, जयभम्भां विनिर्ययौ । युक्तिमत्राह पृष्टोऽसौ, राज्ञा शान्ते प्रदीपने ।।१०।। एषैव देव ! भूपानां, जयश्रीचिह्नमादिमम् । यत्नेन तेन रक्ष्येयं, नित्यं जीवितवन्नृपैः ।।९१ ।। इत्याकर्ण्य वचस्तस्य, श्रेणिकस्य ददौ मुदा । भम्भासार इति क्षोणिपतिर्नामापरं तदा ।।९२ ।। सस्मार च वचः स्वीयं, सत्यसंधः प्रसेनजित् । ततः पुराद् द्विगव्यूत्या, स्वस्मै गृहमकारयत् ।।१३।। सान्त:पुरपरीवारस्तत्रोवास स्वयं नृपः । व्यवहर्तुं जनोऽप्यत्र, यानायान् प्रश्नितोऽवदत् ।।९४ ।। यामि राजगृहं राजगृहादायामि चेति तत् । जज्ञे चैत्यादिना रम्यं, नाम्ना राजगृहं पुरम् ।।९५।। पुत्रपौत्रयुतो राज्यं, कुर्वंस्तत्र महीपतिः । ज्ञातपूर्वी स्वतुग्वृत्तं, चिन्तयामास चेतसि ।।१६।। स्वराज्यं भोक्ष्यते तावद्, विक्रमेण धिया त्वयम् । अन्येषामपि राज्यानि, राज्यार्हः श्रेणिकस्ततः ।।१७।।
Page #18
--------------------------------------------------------------------------
________________
१४
किं त्विदानीमसत्कार्यो, मार्यो माऽन्यैरसौ सुतैः । इत्यन्येषां कुमाराणां ददौ ग्रामादिकं नृपः ।। ९८ ।। श्रेणिकस्त्वपमानेन तेन देशान्तरं प्रति । प्राचालीदचलो भीत्या, केसरीव वनान्तरम् ।। ९९ ।। जगामाश्रान्तमभ्रान्तः, खड्गव्यग्रकरोऽध्वनि । क्रीडां कर्तुमिवोद्यानमार्गेऽनघप्रमोदभाक् ।। १०० ।। गच्छन् क्रमेण स प्राप पुरं बेन्नातटाभिधम् । यच्छ्रीकल्लोलमालाभिर्वेलातटमिवाबभौ ।।१०१ ।।
भद्रस्य वणिजस्तत्र, विपणौ स पणायतः । कर्म्म लाभोदयं नाम, तस्य मूर्त्तमिवाययौ ।। १०२।। दिने तस्मिंश्च तत्राभूद्विशिष्टः कश्चिदुत्सव: । ततस्तच्छ्रेष्ठिनो हट्टे क्रेतुमागाज्जनो बहुः ||१०३ ।। श्रेणिको लघुहस्तत्वाद्, बद्ध्वा बद्ध्वाऽऽर्पयद् द्रुतम् । क्रायकाणां वरद्रव्यपुटिकात्रुटिकादिकम् ।।१०४ ।।
श्रीश्रेणिकचरित्रम् ।
लाभश्च तत्प्रभावेण भूयिष्ठः श्रेष्ठिनोऽभवत् । कस्याद्यातिथयो यूयं ततः श्रेष्ठी तमभ्यघात् ।। १०५।।
श्रेणिकोऽपि बभाषे वः, ततोऽसौ पर्यचिन्तयत् । नन्दायोग्यो वरः स्वप्ने, यो मयाऽद्यैक्षि सैष किम् ? ।। १०६ ।।
ततः श्रेष्ठी निजौकस्तं नीत्वा संस्नाप्य चादरात् । परिधाप्य सुवासांसि भोजयित्वैवमब्रवीत् ।। १०७ ।। नन्दानाम्नीं सुतां मे त्वमिमामुद्वह मानद ! । स प्राह कथमज्ञातकुलादेर्मम दास्यसि ? ।। १०८ ।।
"
Page #19
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् ।
श्रेष्ठ्यूचे सर्वमज्ञायि, गुणैस्तव कुलादिकम् । परिणिन्ये ततो नन्दां, सानन्दो नृपनन्दनः । । १०९ ।।
भुञ्जानो नन्दया सार्धं तत्र वैषयिकं सुखम् । श्रेणिकोऽस्थात्कियत्कालं, गर्भं दध्रेऽथ भद्रजा ।। ११० ।।
राजा श्रेणिकवृत्तान्तमज्ञासीद् गुप्तपुरुषैः । सहस्राक्षा हि राजानो, भवन्ति चरलोचनैः ।।१११ ।।
अन्यदा रोगमत्युग्रमाससाद प्रसेनजित् ।
ततः श्रेणिकमावातुं प्राहिणोदष्ट्रिकानसौ ।। ११२ ।।
श्रेणिकस्य नृपाह्वानमेकान्ते तैर्निवेदितम् ।
नन्दां सम्भाष्य तस्यै सोऽक्षराण्येतानि चापयत् ।। ११३ ।।
वयं राजगृहे पाण्डुकुड्या गोपास्ततः स्वयम् । कभी तां समारुह्य, ययौ जनकसन्निधौ । ।११४ ।। तं चाभ्यषिञ्चत् साम्राज्ये, सुप्रसन्नः प्रसेनजित् । पूर्णकुम्भाम्बुधाराभिर्नेत्रहर्षाश्रुभिः समम् ।।११५ ।। ततः पञ्चनमस्कारं, स्मरन् पार्श्वजिनं नृपः । विधायाराधनं धीरो, विपद्य त्रिदिवं ययौ ।।११६।।
"
सर्वं सर्वसहाभारं बभारैकोऽपि शेषवत् । श्रेणिकस्तु तथैकोनां, मन्त्रिपञ्चशतीं व्यघात् ।।११७।।
,
सम्पूर्णामथ तां कर्तुं जिज्ञासुर्धीधनं नरम् । पुरुषः क्षेपयामास शुष्ककूपे निजोर्मिकाम् ।।११८।।
अघोषयच्च यो मुद्रां, तटस्थो लाति पाणिना । स्वां पुत्रीं मन्त्रिधुर्यत्वं, राज्यार्द्धं राति तस्य राट् । ।११९ ।।
१५
Page #20
--------------------------------------------------------------------------
________________
१६
भूयानपि जनोऽभ्यागादादातुं स्वकरेण ताम् ।
किन्तु कुब्ज इवाशक्तः फलमत्युच्चशाखिनः ।। १२० ।।
इतश्च तस्या नन्दायाः, अन्यदा दोहदोऽभवत् । रान्ती दानं गजारूढा भ्रमाम्यभयदा पुरे ।। १२१।।
"
"
पित्रा नृपमनुज्ञाप्य तस्याः सोऽपूरि दोहद: । कालेनासूत सा सूनुं, रत्नं वैडूर्यभूरिव ।।१२२ ।।
कृत्वा मातामहस्तस्य, महान्तं जननोत्सवम् । सूनोरभय इत्याख्यां दोहदानुसृतेर्ददौ ।।१२३॥
"
,
श्रीश्रेणिकचरित्रम् |
ववृधे लाल्यमानोऽसौ धात्रीभिः पञ्चभिः क्रमात् । रूपलावण्यसौभाग्यैः, कलाभिर्नव्यचन्द्रवत् । । १२४ ।। कलाचार्यस्य भद्रेणार्पितो भद्रदिने सूनुः ।
द्राक् तेनाबोधि दीपेन, दीपवत् सकलाः कलाः । । १२५ ।।
विनीतमुद्यतं शान्तं धीमन्तममितौजसम् । गुरुस्तमिति विज्ञाय, प्रशशंस पदे पदे ।। १२६ ।।
एकान्ते तु सहाध्यायी, तमूचे कोऽपि मत्सरी । किं ते गुणान्तरैर्यस्य, पिता विज्ञायते नहि ? ।।१२७।।
अभयोऽप्याह भद्रो मे पिताऽस्ति विपणौ स्थितः । स प्राह ननु ते मातुः, पिता भद्रो न ते पुनः ।। १२८ ।। गत्वोपनन्दमानन्दमुक्तो नान्देय ऊचिवान् ।
ब्रूहि मातः ! पिता को मे ?, साऽपि भद्रमचीकथत् ।। १२९ ।।
अभयोऽप्यभ्यधाद् भूयो, ननु भद्रः पिता तव । यथाज्ञातमनाबाधं, तातः को मे ? निवेद्यताम् ।। १३० ।।
Page #21
--------------------------------------------------------------------------
________________
१७
श्रीश्रेणिकचरित्रम् । रुदन्ती स्माह सा कोऽपि, पुमान् वैदेशिकस्तु माम् । उद्वाह्य त्वयि गर्भस्थेऽगात् कुत्राप्यौष्ट्रिकैः समम् ।।१३१ ।। ऊचेऽभयकुमारोऽपि, किमुक्तं तेन गच्छता । तानि न्यासीकृतानीवाक्षराण्यस्मै ददर्श सा ।।१३२ ।। गोपाः पाण्डुरकुड्यास्तन्नूनं राजा पिता मम । करोति राज्यं तत्रावां, व्रजावो मातरञ्जसा ।।१३३ ।। भद्रो ज्ञात्वाऽतिनिर्बन्धं, सामग्री परिकल्प्य च । समं दुहित्रा दौहित्रं, विससर्ज शुभे क्षणे ।।१३४ ।। क्रमेणाध्वानमुल्लङ्घ्य, प्राप राजगृहं पुरम् । नन्दां तस्मात् बहिर्मुक्त्वा, पुरान्तस्त्वात्मनाऽविशत् ।।१३५।। अगात् कूपतटे तत्र, दृष्ट्वा च मिलितं जनम् । किमेतदिति तेनोक्ते, जनः सर्वोऽप्यवोचत ।।१३६।। आदत्स्व मुद्रिकामेनां, पाणिना तत्पणीकृतम् । राज्याधू मन्त्रिधुर्यत्वं, राट्पुत्रीं च वराकृते ! ।।१३७ ।। अभयोऽप्यभ्यधादेवं, भवन्तः किं न गृहणते ? । तेऽप्युचुर्गगनाल्लातुं, शक्या तारा करेण किम् ? ।।१३८ ।। ततो जघान तमागोमयेण नृपात्मजः । तत्सद्योऽशोषयत् क्षिप्त्चा, ज्वलन्तं तृणपूलकम् ।।१३७।। मुक्त्वा वा:सारणी वाप्यास्तं कूपं द्रागपूरयत् । तरन्तीं गोमयस्थां तामाददे पाणिनाऽभयः ।।१४० ।। यामिकैः कथितेऽमुष्मिन्, वृत्तान्ते भूपतेः स तु । आनाययत नान्देयं, सोऽपि गत्वाऽनमत् नृपम् ।।१४१।।
Page #22
--------------------------------------------------------------------------
________________
१८
श्रीश्रेणिकचरित्रम् । उपवेश्यासने राजा, निजासन्ने तमभ्यधात् । कुतस्त्वमागमः ? सोऽपि, प्रोचे बेन्नातटात्प्रभो ! ।।१४२।। स्मृत्वा नन्दां नृपोऽपृच्छत्तं धृत्वा पाणिपल्लवे । भद्रं भद्रमुखाख्याहि, भद्राख्यं तत्र वाणिजम् ।।१४३ ।। नन्दानाम्नी च तत्पुत्री, वत्स ! जानासि वा न वा ? । स प्राहाजन्मतोऽप्येतद्वयमप्युपलक्षये ।।१४४ ।। वत्स ! नन्दोदरिण्यासीत्तस्याः किमुदपद्यत ? । ऊचेऽभयकुमाराख्यं, सा नन्दनमजीजनत् ।।१४५।। राजाऽवदत् स कीदृक्षो, रूपेण वचसाऽपि च । अभयोऽप्यब्रवीत् स्वामिन् !, यादृशोऽहं स तादृशः ।।१४६।। शङ्कमानोऽवदद्राजा, ननु त्वमसि सोऽभयः ? । स स्माह स्वामिपादा हि, मतिमन्तो विदन्ति तत् ।।१४७।। राजा तमात्मजं ज्ञात्वा, स्वाङ्कमारोप्य सस्वजे । अपृच्छच्च क्व ते माता ?, सोऽशंसन्नगराद् बहिः ।।१४८ ।। अभियानाय नन्दायै, सामन्तादीनथादिशत् । गन्धहस्तिनमारुह्य, स्वयं चापि नृपोऽभ्यगात् ।।१४९ ।।
अभयेनाग्रतो गत्वा, नन्दाऽऽत्मानमलञ्चिकीः । ; वारिताऽस्थात् स्वभावस्था, पतिव्रतोचितं ह्यदः ।।१५०।। कृत्वाऽथ स्फारश्रृङ्गारं, राज्ञा दत्तं सुतान्विता । गन्धसिन्धुरमारूढा, सह पत्याऽविशत्पुरम् ।।१५१।। प्रासादादि प्रदायास्या, नृपतिः प्रीतमानसः । पदं • विश्राणयामास, सीताया इव राघवः ।।१५२ ।।
Page #23
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् । तथाऽभयकुमाराय, राज्या) मन्त्रिधुर्यताम् । सेनानाम्नी स्वसुः पुत्री, सत्यवाक् श्रेणिको ददौ ।।१५३ ।। ततोऽभयकुमारोऽपि, चतुर्बुद्धिमहानिधिः । दुःसाधान साधयामास, धियैव वसुधाधवान् ।।१५४ ।। सम्यग्नीतिलताकन्दः, पितुर्भक्तोऽभयस्ततः । सप्ताङ्गं सुस्थितं राज्यं, धीमानन्वशिषत् पुनः ।।१५५ ।। वैशाली श्रीविशालापूरितश्चास्ति महीतले ।। तस्यां च चेटकश्चेटीकृतारिरवनीपतिः ।।१५६ ।। पृथग्राज्ञीभवास्तस्य, सप्तासन् वरपुत्रिकाः । सप्ताङ्गस्यापि राज्यस्याधिष्ठात्र्य इव देवताः ।।१५७।। राजाऽन्योपयमत्यागान्न तु ताः पर्यणाययत् । मातृदत्तास्तु पञ्चैताः, परिणिन्युपा अमी ।।१५८ ।। तत्र प्रभावतीं वीतभयेशोदायनो नृपः ।। पद्मावतीं तु चम्पेशो, दधिवाहननामकः ।।१५९ ।। कौशाम्बीशः शतानीको, मृगनेत्रां मृगावतीम् । शिवां चोज्जयिनीनाथश्चण्डप्रद्योतभूपतिः ।।१६० ।। ईश: क्षत्रियकुण्डस्य, ज्येष्ठाख्यां नन्दिवर्धनः । सुज्येष्ठाचेल्लनानाम्न्यौ, कुमार्यावेव तस्थतुः ।।१६१ ।। अन्यदा तापसी वृद्धा, कन्यान्तःपुरमेयुषी । शौचमूलं समाचख्यौ, धर्म सा मूलमंहसः ।।१६२।। सुज्येष्ठा प्राह हे मुग्धे !, मुग्धलोकप्रतारिके । धर्मः खलु दयामूलः, स च शौचात् कथं भवेत् ? ।।१६३ ।।
Page #24
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् ।
२०
भूर्जलं जलजा जीवास्त्रसा भूम्याश्रिता अपि । संख्यातीता विराध्यन्ते, स्नानाय भवतामपि । । १६४ ।। मृत्तिकोदकसंस्पर्शाच्छुध्यन्ति यदि जन्तवः । कुलालः सकुटुम्बोऽपि, तर्हि स्वर्गं व्रजिष्यति । । १६५ ।। चेत् शुध्यन्ति बहिःस्नानादन्तः पापमलीमसाः । तत् शुध्यन्ति ध्रुवं मत्स्यमकराद्या हृदादिषु ।।१६६।। मुग्धे ! पञ्चाश्रवत्यागात्, पञ्चेन्द्रियदमादपि । कषायविजयाद् धर्म्मस्तथा दण्डत्रयोज्झनात् । । १६७।।
इत्यादियुक्तियुक्ताभिर्भारतीभिर्निरुत्तराम् । सुज्येष्ठा तापसीं चक्रे, मौनव्रतपरामिव ।। १६८ ।। दास्यादयो हसन्त्यस्तां, मुखमर्कटिकादिभिः । गेहान्निःसारयन्ति स्म, भिक्षुकीं ग्रथिलामिव ।।१६९।। सुज्येष्ठोपरि सा क्रुद्धा दध्यौ दुधरिमां ध्रुवम् । क्षेप्स्यामि पण्डितंमन्यां, सपत्नीदुःखसागरे ।1 १७० ।। आलिख्य चित्रपट्टे च तद्रूपं श्रेणिकाय सा । उपनिन्ये स तां वीक्ष्यापृच्छत् केयं वराकृति: ? ।।१७१ ।।
साSSख्यच्चेटकराजस्य, सुज्येष्ठानामिका सुता । इमा लक्ष्मीपतिर्लक्ष्मीमिवोद्वोढुं त्वमर्हसि ।।१७२ ।।
ततस्तां याचितुं प्रैषीद्वैशाल्यां श्रेणिको नरान् । सुज्येष्ठां याचितः पुम्भिश्चेटकोऽप्येवमब्रवीत् ।।१७३ ।।
कथं वाहीकवंश्योऽयं, कन्यां हैहयवंशजाम् । स्वीकर्तुं श्रेणिको वाञ्छेद् बको हंसीमिवामतिः ? । । १७४ । ।
Page #25
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् । न दास्यामि सुतां तस्मै, ततो व्याघुट्य तेऽभ्यधुः । श्रेणिकाय यथावृत्तं, श्रुत्वैतद् विषसाद सः ।।१७५ ।। एतद् ज्ञात्वाऽभयोऽप्यूचे, विषादं देव ! मा कृथाः । अचिरेणैव कालेन, करिष्ये वः समीहितम् ।।१७६।। इत्युक्त्वा रूपमालिख्य, राज्ञोऽसौ चित्रपट्टके । विधाय वणिजो वेषं, वैशाल्यामगमत्ततः ।।१७।। तत्रापणे पणायंश्च, कन्यान्तःपुरसन्निधौ । तद्दासीनामदात् पण्यं, समर्धं सुन्दरं घनम् ।।१७८ ।। तदा चानचं चित्रस्थां, श्रेणिकाचाँ स्रजादिभिः । तासां चाख्याद्यथाऽर्चामि, सदाऽमुं श्रेणिकं प्रभुम् ।।१७९ ।। सुज्येष्ठायै तदाचख्युर्दास्यः साऽप्यन्यदावदत् । अत्रानयत हे सख्यः !, मत्कृते चित्रपट्टकम् ।।१८० ।। चेट्यः कथञ्चिदानीय, कुमार्यास्तमदर्शयन् । साऽथ चित्रं समालोक्य, श्रेणिकायौत्सुकायत ।।१८१ ।। दासीमुखाच्च तत् ज्ञात्वा, वणिगप्येवमभ्यधात् । श्रेणिकंदिवसेऽमुष्मिनानेष्यामि सुरङ्गया ।।१८२।। संकेतमिति संज्ञाप्य, सुरङ्गां च विधाय सः । एत्य राजगृहं शीघ्रं, श्रेणिकाय शशंस तत् ।।१८३।। सोऽथ नागसुतैः सर्वै रथस्था सरथैः समम् । तमिस्रायां गजांसस्थश्चक्रीवागात् सुरङ्गया ।।१८४ ।। तं च भूनिर्गतं वीक्ष्य, सुरूपमसुरेंद्रवत् । सुज्येष्ठा चित्रसादृशादुपलक्ष्याभ्यमोदत ।।१८५।।
Page #26
--------------------------------------------------------------------------
________________
२२
श्रीश्रेणिकचरित्रम् । श्रेणिक: स्माह सुज्येष्ठे !, क्षिप्रमारोह यद्रथम् । आरूढा हृदि पूर्व तु, चित्रदृष्टाऽपि मानिनि ! ।।१८६।। सुज्येष्ठां चेलणा प्रोचे, स्वसुः स्नेहात् त्वया समम् । समेष्यामि ततः सोचे, त्वमप्यारोह राड्रथम् ।।१८७।। तथैव कृतवत्येषा, सुज्येष्ठाऽन्तर्गृहस्य तु । विस्मृतां च समानेतुमगादत्नकरण्डिकाम् ।।१८८।। अथैवमभ्यधुर्नत्वा, नृपतिं नागनन्दनाः । न स्थातुमुचितं नाथः, सुचिरं वैरिवेश्मनि ।।१८९।। ततोऽसौ प्रेरयामास, रथ्यानाशु सुरङ्गया । तत्रायाताऽथ सुज्येष्ठा, विवेद नृपतिं गतम् ।।१९० ।। वीक्षापन्नाऽथ पूच्चक्रे, सा यथा ह्रियते छलात् । चेल्लणा श्रेणिकेनैषा, व्याघेणैव वरार्थिनी ।।१९१ ।। संनयन्तं निवार्याथ, चेटकं तस्य सैन्यराट् । वीराङ्गकोऽन्वधाविष्ठ, श्रेणिकं रथमास्थितः ।।१९२ ।। क्षणाच्च मिलितो वीरोऽधिज्यीकृतशरासनः । द्वात्रिंशत्सुलसापुत्रानेकेनापीषुणाऽवधीत् ।।१९३ ।। यावद् वीराङ्गको रथ्यान्, रथांश्चापाकरोत्पथः । तावद्राजा ययौ दूरं, रथेनासह्यरंहसा ।।१९४ ।। ततोसावर्धसिद्धार्थः, सेनानीविनिवृत्तवान् । भगिनीविप्रलब्धा तु, सुज्येष्ठैवं व्यचिन्तयत् ।।१९५।। धिग्धिग्विषयवाञ्छेयं, विषयाह्यति(यास्त्रि)विषा यतः । आदिमध्यावसानेषु, न कुत्रापि सुखावहाः ।।१९६।।
Page #27
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् । उपभुक्तं सकृद्धन्याविषं हि विषयाः पुनः । चिन्तिता अपि जीवानां, हन्युर्जन्मशतान्यपि ॥१९७।। औत्सुक्यं प्रथमं कुर्युर्मध्ये दीप्तादिकान् रसान् । अन्ते बीभत्सलज्जादीन, स्वास्थ्यं त्वेते कदापि न ।।१९८॥ शब्दादिविषयासक्तो, जनः स्वार्थकतत्परः । विश्वस्तं वत्सलं चापि, हन्यान् मां चेल्लणा यथा ।।१९९।। तदलं दुःखदैरेभिः, परायत्तैर्विनश्वरैः । स्वाधीनं सुस्थिरं धर्म, ग्रहीष्यामि सुखास्पदम् ।।२००।। सुज्येष्ठा भावयित्वैवं चन्दनार्यापदान्तिके । प्रव्रज्यां शिवसाम्राज्यदयिकामाददे सुधीः ।।२०१।। श्रेणिकोऽपि व्रजन्मार्गे, सादृश्याच्चेलणां प्रति । सुज्येष्ठे ! वद धीश्रेष्ठे ! भाषते स मुहुर्मुहुः ।।२०२।। साऽप्यवोचदहं स्वामिन् !, सुज्येष्ठाया: कनीयसी । चेल्लणेत्यथ सोऽप्यूचे, खण्डस्थाने सिताभवत् ।।२०३ ।। श्रेणिकः स्वपुरं गत्वा, तामुद्वाह्य प्रमोदतः । पट्टराज्ञीपदेऽकार्षीद, दमयन्ती नलो यथा ।।२०४।। अथाभयकुमारेण सहितः श्रेणिको नृपः । सुलसानागयोगेंहे, ययौ तद्बोधनेच्छया ।।२०५।। तौ तु स्वसुतवृत्तान्तं, ज्ञात्वाऽऽक्रन्दनतत्परौ । अभयेन बभाषाते, भारत्याऽतिगभीरया ।।२०६।। भो भो विश्वस्थितिषेषा, यद् जातस्य ध्रुवं मृतिः । तद् विश्वविदितेऽत्रार्थे, किं शोकेन विवेकिनाम् ? ॥२०७॥
Page #28
--------------------------------------------------------------------------
________________
२४
श्रीश्रेणिकचरित्रम् ।
आकीटादासुरेन्द्राच्च, कृतान्तस्य न कोऽप्यलम् । ततः किं क्रियते शोकः, स यत् स्वार्थविनाशकः ।। २०८ ।।
जलाग्निव्यालचौरारिरुजाद्यार्त्तेऽपि भूतले । यद् जीव्यते तदाश्चर्यं निमेषमपि मानवैः ।।२०९।। किञ्च यैः कर्म्मभिर्मृत्योरवस्कन्दः पतेत् क्षणात् । यतितव्यं तदुच्छित्त्यै, न तु शोच्यं विवेकिभिः ।। २१० ।।
नागस्य सुलसायाश्च कृत्वा संभाषणमिति । अभय: श्रेणिकश्चापि, निजं धाम समेयतुः । । २११ ।।
यथेष्टं श्रेणिकेनाथ, धारिणीप्रमुखास्ततः । बह्व्योऽपि हि सुरूपिण्यः, परिणिन्ये नृपात्मजाः । । २१२ ।। अदाच्च चेल्लणादेव्याः, एकस्तम्भविभूषितम् । दिव्योद्यानपरिक्षिप्तं, प्रासादं देवनिर्मितम् ।।२१३।।
ततोऽसौ बुभुजे भोगांस्तत्रस्थः सममेतया । वर्यान् वरविमानस्थः, 'पुलोम्येव पुरन्दरः । । २१४।। सोऽथ श्येनकजीवस्तु, व्यन्तरत्वात् परिच्युतः । उदरे चेल्लणादेव्याः, पुत्रत्वेनोदपद्यत ।। २१५।। निदानवशतस्तस्मिन्, गर्भे वृद्धिमुपेयुषि । पतिमांसादने देव्या, दोहदः समजायत ।।२१६।। न शशाक समाख्यातुं, देवी कस्यापि तं पुनः । अपूर्णदौहदत्वेन, क्षीयते च क्षणे क्षणे । । २१७।। दृष्ट्वा कृशाङ्गीं तां देवीं पप्रच्छ श्रेणिकोऽन्यदा । क्षीयसे देवि ! देहेनान्वहं क्षयरुजेव किम् ? ।।२१८ ।। १. पौ.
Page #29
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् । मुमोचाश्रूणि साऽजस्रं, प्रत्यूचे न तु किञ्चन । ततो राज्ञा सनिर्बन्धं, पृष्टा सा दोहदं जगौ ।।२१९ ।। राजाऽऽख्यादभयायैतत्, सोऽपि तं तमसि न्यघात् । . तदुपर्यन्यमांसं च, राज्ञी तत्रानयत्ततः ।।२२०।। नृपस्याक्रोशतस्तस्याः, पश्यन्त्या अभयस्ततः । अदात् तत्पिशितं छित्त्वा, छित्त्वा दोहदपूर्तये ।।२२१ ।। मन्यमाना महामांसमश्नन्ती चेल्लणाऽप्यथ । ध्यायन्ती मुमुदे गर्भ, विषसाद नृपं पुनः ।।२२२ ।। सम्पूर्णदोहदा सा तु, पतिभक्ताऽप्यचिन्तयत् । दोहदाल्लक्ष्यते गर्भो, नूनमेष पितुर्दुईद् ।।२२३ ।। तदलं जीवितेनास्य, ततस्तीबागदान पपौ । नापप्तत्तैरसौ किन्तु, पापात्मा ववृधेऽधिकम् ।।२२४ ।। कालेन सुषुवे सूनुं, तं चेट्याऽत्याजयच्च सा । अशोकवनिकां गत्वा, तं साऽशोकतलेऽत्यजत् ।।२२५।। प्रत्यायान्तीं नृपो वीक्ष्य, कुत्रागा इत्युवाच ताम् । साऽवोचच्चेल्लणादेव्याः, सुतं त्यक्तुमगामहम् ।।२२६ ।। राजाऽथ तत्र गत्वा तं, दृष्ट्वा चन्द्रमिवोचलम् । पाणिभ्यां पुत्रमादाय, गत्वा देव्यन्तिकेऽवदत् ।।२२७ ।। किमकार्षीः प्रिये ! पापं, निष्ठुरं ? सुकुलोद्भवे ! । न कुण्डं गोकुलं चापि, व्युत्सृजन्त्यात्मजं स्त्रियः ।।२२८ ।। त्यक्ष्यस्याद्यमपत्यं चेत्, स्थेयांस्यन्यानि तन्न ते । तर्जयित्वेति तां राजा, स्वयं पुत्रमवर्धयत् ।।२२९ ।।
Page #30
--------------------------------------------------------------------------
________________
२६
श्रीश्रेणिकचरित्रम् । तस्य चैकाङ्गुली छिन्ना, तदाऽशोकतरोस्तले ।। कुक्कुटेन तदाऽसावरोदीत् सकलां निशाम् ।।२३०।। पूयक्लिन्नां ततो राजा, मुखेऽक्षप्सीत् तदङ्गुलीम् । मनाक् सुखासिकां लेभे, दारकोऽपि मुखोद्भवाम् ।।२३१ ।। अशोकचन्द्र इत्याख्यामदात्तस्मै नृपो मुदा ।। व्यघुः कूणाङ्गुलित्चेन, कूणिकाख्यां तु बालकाः ।।२३२ ।। ततोऽष्टवार्षिकं स्नेहात्, कुमारं कूणिकं नृपः । अध्यापयत् कलाचार्याल्लिप्याद्याः सकला: कलाः ।।२३३।। अथान्यौ चेल्लणादेव्याः, पुण्यवन्तौ दिवश्च्युतौ । सुतौ हल्लविहल्लाख्यौ, जज्ञाते गुणशालिनौ ।।२३४।। 'कल्यवर्त्तकृते गौडमोदकान् कूणिकाय सा । पुनर्हल्लविहल्लाभ्यां, प्राहिणोत् खण्डमोदकान् ।।२३५ ।। प्राग्जन्ममत्सरावेशविवश: कूणिको ह्यदः । तात: कारयते सर्वमिति दध्यौ विमूढधीः ।।२३६ ।। सम्प्राप्तयौवनं तं च, महा पर्यणाययत् । पद्मावत्यभिधां कन्यां, पद्माक्षी नृपनन्दनाम् ।।२३७।। अन्यासामपि राज्ञीनां, श्रेणिकस्य महीपतेः । राज्यश्रीवासवेश्मनि, सूनवो बहवोऽभवन् ।।२३८।। इतश्च श्रीमहावीरः, सर्वज्ञश्चरमो जिनः । सुरासुरनरैः सेव्यः, सर्वातिशयसंयुतः ।।२३९ ।।
१. सर्वत्र कल्प इति दृश्यते किंतु 'कल्य' उचितं प्रतिभासते ।
कल्यवर्त्तकृते-प्रातः कालीन भोजनाय इत्यर्थः ।
Page #31
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् ।
२७ सहितः साधुसिंहानां, चतुर्दशसहस्रकैः । षट्त्रिंशद्भिश्च साध्वीनां, सहस्रैः परिवारितः ।।२४०।। मज्जन्मुग्धं भवाम्भोधावुद्दिधीषुरिदं जगत् । ग्रामाकरपुराकीर्णा, विहरन्नन्यदा महीम् ।।२४१ ।। बहिस्तन्नगरात्तुङ्गे, गिरौ वैभारनामनि । चैत्ये गुणशीलाभिख्ये, भगवान् समवासरत् ।।२४२ ।। चतुर्भिः कलापकम् ।। ज्ञात्वा श्रीवीरमायातं, तं नन्तुं त्रिजगत्पतिम् । श्रेणिकः सपरीवारो, जगाम जगतीपतिः ।।२४३ ।। विधिवत्तत्र वन्दित्वा, यथास्थानमुपाविशत् । ततो भव्यावबोधाय, जगादेवं जगद्गुरुः ।।२४४ ।। भो भो दुःखी भवारण्ये, पुण्यपाथेयवर्जितः । पान्थवत् सत्पथः भ्रष्टो, बम्भ्रमीत्यसमाश्चिरम् ।।२४५।। श्वभ्रेषु सहतेऽदभ्राः, कुम्भीपाकादिका व्यथाः । तिर्यक्षु च्छेदवेधाङ्कदाहदोहादिकाः पुनः ।।२४६।। मनुष्येषु तु दौर्गत्यरोगशोकभयादिकाः । देवेष्वपि विषादेावियोगच्यवनादिकाः ।।२४७ ।। सहतेऽत्र भवाटव्यां, जीवो दुःखपरम्पराम् । अनन्तान् पुद्गलाव निर्धर्मोऽटाट्यते पुनः ।।२४८ ।। जैनो धर्मस्तदुच्छेत्ता, दाता स्वःशिवसम्पदाम् । आत्मनीना जना ह्येनं, श्रयध्वं शक्तितस्ततः ।।२४९ ।। श्रुत्वैनां देशनां भर्तुर्भूपः सम्यक्त्वमाश्रयत् । अभयाद्याः पुनर्देशविरतिं प्रतिपेदिरे ।।२५०।।
Page #32
--------------------------------------------------------------------------
________________
२८
श्रीश्रेणिकचरित्रम् । नत्वा वीरं जगज्ज्येष्ठं, गुणश्रेष्ठान्मुनीनपि । आजगाम निजं धाम, श्रेणिकः सपरिच्छदः ।।२५१ ।। ज्ञानादित्यस्तत: स्थानाद्व्यहार्षीद भगवानपि । भव्यपद्मप्रबोधाय, ग्रामाकरपुरादिषु ।।२५२ ।। सम्यग्दर्शनपूतात्मा, नृपतिः ' श्रेणिकोऽन्वहम् । त्रिसन्ध्यं पूजयामास, प्रतिमामार्हती मुदा ।।२५३ ।। कारयित्वाऽथ सौवर्णान्, यवानष्टोत्तरं शतम् । स्वस्तिकं रचयामास, प्रत्यहं तत्पुरः स्वयम् ।।२५४ ।। इतश्च पोतनपुरोद्याने नाम्नि मनोरमे । भगवान् समवासार्षीद, वीरो विधैकवत्सलः ।।२५५ ।। सोमचन्द्रात्मजं तत्राग्रजं वल्कलचीरिणः । प्रसन्नचन्द्रं प्रव्राज्य, जिनो राजगृहं ययौ ।।२५६।। ततो नियुक्तकैः पुम्भिः, द्रुतमेत्य नृपान्तिकम् । अन्तकान्तकमुक्तस्य, वीरस्यागमनं जगे ।।२५७ ।। जिनागमनमाकर्ण्य, केकीवाम्भोधरध्वनिम् । मुमुदे मेदिनीनाथः, श्रेणिक: शासनार्चकः ।।२५८ ।। ससम्भ्रममनोत्थाय, रत्नसिंहासनानृपः । विमुच्य पादुके पद्भ्यामुत्तरासङ्गमादधे ।।२५९ ।। गत्वा पदानि सप्ताष्टौ, जिनसम्मुखमञ्जसा । । पुरःस्थमिव तत्रस्थे, स्वमूर्ना प्रणिपत्य तम् ।।२६०।। शरीरान्तरसम्मान्तमिव हर्ष बहिस्तनौ । विभ्रमः पुलकव्याजात्तुष्टावेति महीपतिः ।।२६१ ।। युग्मम् ।।
Page #33
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् । स्वयम्भुवे महेशायाच्युताय परमात्मने । प्रद्योतनाय बुद्धाय, श्रीवीरायार्हते नमः ।।२६२ ।। वन्दित्वेति जिनाधीशं, मगधेशो महामनाः । सिंहासनमथास्थायादिक्षत् कौटुम्बिकानिति ।।२६३ ।। सबाह्याभ्यन्तरं सर्वं, भो भो राजगृहं पुरम् । श्रीखण्डघुसृणाम्भोभिः, प्रशान्तीकृतभूतलम् ।।२६४ ।। दशार्धवर्णपुष्पैश्च, सर्वत्र प्रकरीकृतम् । वैजयन्तीयुतकेतुध्वजराजिविराजितम् ।।२६५।। ऊर्वीकृतोच्चमाणिक्यतोरणश्रेणिसुन्दरम् । प्रासादद्वास्थमाङ्गल्यकलशालिसमाकुलम् ।।२६६ ।। विचित्रोल्लोचसच्छोभं, सच्छोभमौक्तिकाङ्कितम् । चित्रकं त्वग्दुकूलाद्यैः, शोभितं हट्टशोभया ।।२६७।। सुगन्धधूपधूम्याभिर्घनोन्नतिविडम्बकम् । स्थाने स्थाने समारब्धदिव्यसङ्गीतकान्वितम् ।।२६८।। कुरुध्वं कारयध्वं च, सर्वमेतद् विशेषतः । येन स्वस्य परस्यापि, भवभेत्री प्रभावना ।।२६९ ।। षड्भिः कुलकम् । इत्याज्ञां नृपतेस्तेऽपि, प्रतिपद्य मुदा क्षणात् । तत्सर्वं साधयामासुः, सुरेन्द्रस्येवाभियोगिकाः ।।२७०।। राजा स्नातानुलिप्तोऽथ, कृतकौतुकमङ्गलः । संवीतदिव्यवासस्को, दिव्याभरणभूषितः ।।२७१।। बन्दिवृन्दजयारावेष्वतुच्छेषूच्छलत्सु च । आरुरोह ततो गन्धसिन्धुरस्कन्धमुर्द्धरम् ।।२७२ ।। युग्मम् ।।
Page #34
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् । मूर्ध्नि श्वेतातपत्रेण, ध्रियमाणेन भूपतिः । राजन् चूलास्थचैत्येन, सुमेरुरिव जङ्गमः ।।२७३ ।। निशाकरकराकारैर्वीज्यमानश्च चामरैः । स्वपतत् सिन्धुगङ्गायुग्हिमाद्रेरिव रूपभृत् ।।२७४ ।। दिव्ययानाधिरूढाभिर्दिव्यालङ्कारचारुभिः । देवीभिरिव रम्याभिर्देवीभिः परिवारितः ।।२७५ ।। 'महाराजघटाघण्टाटण्कारैर्ग गर्जितैः । नान्दीतूर्यनिनादैश्च, पूरिताम्बरकन्दरः ।।२७६ ।। वल्गत्तुरङ्गसङ्घातैर्हेषानिर्घोषसंकुलैः । अर्कावस्पर्धयेवोच्चैरुत्पतद्भिर्वृतो भृशम् ।।२७७ ।। किङ्किणीकङ्कणक्वाणे रथानां केतुहस्तकैः । अनेकमूर्त्या नृत्यन्त्या, कीर्तिनट्येव शोभितः ।।२७८ ।। पदातिभिर्महायोधैर्विविधायुधपाणिभिः । राजमानः पराजय्यैर्जयश्रीस्तम्भसन्निभैः ।।२७९ ।। एवं समग्रसामग्र्या, सर्वद्युत्याऽखिलश्रिया । भक्तिसारो जिनं नन्तुं, भम्भासारोऽचलन्नृपः ।।२८० ।। अष्टभिः कुलकम् ।। धन्योऽयमेनं यत् सर्वाः, शिश्रियुः सर्वतः श्रियः । श्रेयांस्यनेन लब्धानि, रोचतेऽस्मै यतो जिनः ।।२८१ ।। अस्मात्प्रभावको नान्यः, कीर्तिश्चास्य सुधोज्ज्वला । अस्मिन्नेवेदृशी भक्तिर्दृश्यते शासनं प्रति ।।२८२ ।। एवं प्रशंसतां बोधिहेतुतां प्राणिनां व्रजन् । निर्ययौ मध्यमध्येन, राजा राजगृहस्य तु ।।२८३ ।। १. महागज ।। २. श्रेणिक ।
Page #35
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् ।
अथ प्रसन्नचन्द्रर्षिश्चिकीर्षुः कर्म्मणः क्षयम् । पृथुपृथ्वीशिलापृष्टे, वैभारोपत्यकास्थिते ।। २८४ ।।
उत्क्षिप्तैकक्रमः सूर्याभिमुखश्च भुजद्वयः ।
समाहितमनास्तस्थौ, कायोत्सर्गेण निश्चलः । । २८५ ।। युग्मम् ।।
नृपस्तेनाध्वना गच्छन्नादित्यातपतापतः । सर्वाङ्गप्रक्षरत्स्वेदं, सनिर्झरमिवाचलम् ।।२८६ ॥
एकपादस्थितं स्थेष्टमेकपादमिवाङ्घ्रिपम् । स्वर्गापवर्गमाक्रष्टुमिवोत्क्षिप्तभुजद्वयम् ।। २८७ । ।
दृग्युद्धमिव तन्वानं पश्यन्तं सूर्यमण्डलम् । प्रसन्नचन्द्रराजर्षि, वीक्ष्योपालक्षयन्नृपः ।।२८८ ।। त्रिभिर्विशेषकम् ।
उत्तीर्य हस्तिनः स्कन्धात्तं नत्वा भक्तिनिर्भरः ।
शिरो धुन्वन् जगामाग्रे तद्गुणग्रामरञ्जितः ।। २८९ ।।
दृष्ट्वा चन्द्रमिवाम्भोधिश्छत्रादीन् श्रीमदर्हतः । उल्लास भृशं राजा, श्रेणिकः परमार्हतः । । २९० ।।
नृराजो राजचिह्नानि पञ्चाप्येतान्यथामुचत् ।
वाहनं मुकुटं छत्रं कृपाणं चामरे अपि ।।२९१।।
"
ततः समवसृत्यन्तः, प्रविश्य जिननायकम् । तिस्रः प्रदक्षिणाः कृत्वा, वन्दित्वा चास्तवीदिति ।। २९२ ।।
श्रद्धया वर्धमानोऽपि, वर्धमानजिनेश्वर ! । त्वदाज्ञामुपमातीतां, कथंकारमहे स्तुवे ? ।।२९३ ।।
कल्पद्रुमाद्यतिक्रान्ता, त्वदाज्ञा देव ! देहिनाम् । प्रसूते या फलैर्नित्यमिहामुत्राप्यचिन्तितैः ।। २९४ ।।
३१
Page #36
--------------------------------------------------------------------------
________________
३२
शरीरमानसासंख्यदुःखलक्षक्षयंकरी ।
कथं सुधासदृक्षा स्यात्त्वदाज्ञा शिवसौख्यदा ? ।। २९५ ।।
श्रीश्रेणिकचरित्रम् ।
सदोद्योता गतस्नेहा, निश्चला च निरंजना । त्वदाज्ञा जगतामीश !, नव्यदीपायते नृणाम् ।।२९६।। नयसप्तशतीचक्रा, निःशल्या चैककाष्ठिका । त्वदाज्ञा दुर्गमोक्षाध्वन्यपूर्वस्यन्दनायते । । २९७ ।। त्वदाज्ञैकावली चेयं ज्ञानादिवररत्निका । हृत्स्थयाऽपि यया जीवाः, निर्ग्रन्थाः स्युस्तदद्भुतम् । । २९८ ।। कर्म्मारिवीर ! श्रीवीर !, त्वदाज्ञां ये तु कुर्वते । त्रिलोक्यपि करोत्याज्ञां तेषां सौभाग्यशालिनाम् ।। २९९ ।।
देवाधिदेव ! देवेन्द्रवृन्दवन्द्यपदद्वय ! ।
त्वदाज्ञा हृदि मे नित्यमस्तु मेरुरिव स्थिरा ।। ३०० ।। स्तुत्वेति विरते राज्ञि विदधे विरताग्रणीः । देशनां भव्यजन्तूनां, निष्कर्म्मा कर्म्मनाशनीम् ।।३०१।।
अनन्तज्ञानदर्शनवीर्यानन्दमयोऽप्ययम् ।
अनादिकर्म्मसंयोगाद्, दुःखी भ्रान्तश्चिरं भवी ।। ३०२ ।।
ज्ञानादित्रयसंयोगाद्, वियोगो ह्यनयोर्भवेत् । स्वर्णाश्मनोर्यथाऽनादियुक्तयोर्वह्नियोगतः । । ३०३ ।।
तदिदानीमवेत्यैवं, श्रयध्वं तत्त्रयं जनाः ! । लभध्वं शाश्वतं तस्मात्, तदनन्तचतुष्टयम् ।। ३०४ ।।
चमत्कृतः स्वचित्तेन, प्रभोर्देशनयाऽनया । भगवन्तमथो नत्वा, पप्रच्छ श्रेणिको नृपः । । ३०५ ।।
Page #37
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् ।
यदा प्रसन्नचन्द्रर्षिः ववन्दे मयका तदा
'
कालं कुर्यात्ततः कां स, गतिमासादयेद् विभो ! ।।३०६ ।।
स्वाम्यूचे सप्तमीं पृथ्वीं यायाद् दध्यौ ततो नृपः । अत्युत्कृष्टतपस्कस्याप्यस्य केयं गतिर्मुनेः ? ।।३०७।।
क्षणं स्थित्वा पुनः पृष्टे, नृपेण प्रभुरभ्यधात् । याति सर्वार्थसिद्धिं स विपद्येताधुना यदि ।। ३०८ ।।
विस्मितो नृपतिर्नत्वा, पुनः पप्रच्छ सादरम् । स्वामिन् ! आख्याहि को हेतु:, यदियं व्याकृतिर्द्विधा ? ।। ३०९ ।।
स्वाम्याख्यत्तव सैन्यस्याग्रस्थौ सुमुखदुर्मुखी । मय तमृषिमैक्षेतां, तत्रेदं सुमुखोऽभ्यधात् ।। ३१० ।। क्रमेणैकेन कस्तिष्ठेत् ?, कश्चैक्षेतार्कमण्डलम् ? । क्षणार्हमपि तेनायमहो दुष्करकारकः । । ३११।। दुर्मुखोऽथ स्वभावेन, दुर्मुखः सुमुखं जगौ । राजा प्रसन्नचन्द्रोऽयमद्रष्टव्यमुखः खलु ।।३१२।। प्रविव्रजिषुणा येन, स्वराज्ये योजितः शिशुः । महानसि नृशंसेन, न्यासितस्तर्णको यथा ।।३१३।। स्वराज्याच्च्यावितोऽमात्यैः, वातैरिव नगाच्छदम् । विदध्वन्सेऽवरोधश्च शून्यं दुग्धमिवौतुभिः । । ३१४ ।। इत्याकर्ण्य स राजर्षिः स्वपुत्रस्य पराभवम् । देध्मीयमानः क्रोधेन, दध्यौ मोहबलार्दितः । । ३१५ ।।
"
३३
धीसखानधमान् धिग् धिक्, कृतघ्नान् सुदुराशयान् । पराबभूवे यैर्बालो, दुर्बलो बालिशैर्मम ।। ३१६ ।।
Page #38
--------------------------------------------------------------------------
________________
३४
ध्यायन्नेवं भृशं साक्षादिव वीक्षाम्बभूव तान् । मनसैव हि संनह्य, युयुधे संयतीव तैः ।।३१७।।
हन्यमाने त्वमानीघे कुन्ताकुन्ति शराशरि । त्वमागास्तत्र तं नन्तुं, स्तुत्वाऽगात् पुरतः परम् ।।३१८ ।।
न चाज्ञायि तदा तेन त्वमायातोऽपि भूपते ! । चेतनस्य हि चैतन्यमनुचित्तं महाचलम् ।। ३१९।। शरारुः कृष्णलेश्यावान्, रौद्रध्यानपरश्च सः । महातमःप्रभायोग्यस्तदाऽवर्त्तिष्ट दुष्टधीः ।। ३२० ।।
श्रीश्रेणिकचरित्रम् ।
त्वयि नत्वाऽऽगते त्वत्र, युध्यमानस्तथैव सः । मनसैव बहून् हत्वा निष्ठितास्त्रोऽभवत् क्षणात् ।। ३२१ ।।
शेषान्निहन्तुमावेशात्, शिरस्कायाक्षिपत्करम् । अशिरोजं स्पृशन् शीर्षमस्मार्षीत् स पुनर्व्रतम् ।।३२२ ।। निन्दित्वा बहुधाऽऽत्मानं स्थापयित्वा पुनर्व्रते । महामोहादिदम्भोलिं, धर्मध्यानं दधार सः ।। ३२३ ।।
तेन सर्व्वार्थसिद्धार्हः, सोऽभूत् तस्यामथो दिशि ।
दृष्ट्वा राट् सुरसंपातं पप्रच्छ किमिदं ? प्रभो ! ।। ३२४ ।।
?
प्रभुः प्राह समुत्पेदेऽमुष्य सम्प्रति केवलम् ।
ततोऽस्य केवलज्ञानमहिमानं व्यधुः सुराः ।।३२५।।
राजा राजर्षिवृत्तान्तैर्नितरां रञ्जितो जगी ।
भगवन् ! केवलज्ञानं, कस्मिन् व्युच्छेदमेष्यति ? ।।३२६।।
विद्युन्माली तदा देवश्चतुर्देवीसमावृत्तः ।
आयातोऽस्ति जिनं नन्तुं महर्द्धिर्ब्रह्मलोकतः ।। ३२७।।
"
Page #39
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् |
देवोऽयं चरमो भावी, केवलीति जिनोदिते । राज्ञोचे केवलज्ञानं, कथं देवेषु जायते ? ।। ३२८ ।।
भगवानभ्यधादेष, सप्तमेऽह्नि दिवश्च्युतः । त्वत्पुरे भविता पुत्रो, धारिण्यृषभदत्तयोः ।। ३२९।। जम्बूकुमार इत्याख्यो, भावी चरमकेवली । नृपोऽपृच्छत् पुनः कस्माद्, द्युतिमांश्च्यवनेऽप्ययम् ? ।। ३३० ।।
जगाद भगवानस्य, भवदेवादिकान् भवान् । शिवजन्मतपोलक्ष्म्या, कान्तिस्तेनेदृशी शुभा ।। ३३१।।
अत्रान्तरे गलत्कुष्ठी, कश्चिन्नत्वा जिनान्तिके । निपद्य स्वाङ्गपूयेन, लिलेप भगवत्क्रमौ ।।३३२ ।।
तं दृष्ट्वा श्रेणिको दध्यौ, हन्म्येनं पापकारिणम् । यद्वा न युक्तमन्त्रेदं हनिष्याम्यत उत्थितम् ।। ३३३ ।।
,
वीरेणाथ क्षुते तेन कुष्ठिनोचे म्रियस्व भोः ।
राज्ञा तु जीव जीव्यास्त्वं, मृषीष्ठा वाऽभयेन तु ।। ३३४ ।।
कालसौकरिकेणाथो, मा जीवीर्मा म्रियस्व वा । श्रुत्वा स्वामिन् म्रियस्वेति, चुकोप श्रेणिकोऽधिकम् ।। ३३५ ।। भटान् भूसंज्ञयाऽऽदिक्षल्लातैनं निर्गतं बहिः । जगद्बन्धोर्जिनस्यैवं यः पराशातनापरः । । ३३६ ।।
अथ कुष्ठी जिनं नत्वा, चचाल लुलितालकः । योधास्तमन्वधावन्त, सावधाना उदायुधाः ।।३३७।।
देवरूपमयं कृत्वोत्पपात गगनाध्वना ।
सत्रपा: पत्तयस्तेऽपि, व्यावृत्त्याख्यन्नृपाय तत् ।। ३३८ ।।
३५
Page #40
--------------------------------------------------------------------------
________________
३६
किमेतदिति सम्भ्रान्तः, प्रणिपत्य महीपतिः ।
प्रभुं पप्रच्छ विश्वेश !, कुष्ठी कोऽसौ ? निवेद्यताम् ।।३३९ ।।
श्रीश्रेणिकचरित्रम् ।
भगवानप्युवाचैवं वत्सदेशेऽस्ति पूर्वरा ।
"
कौशाम्बीति नृपस्तस्यां शतानीको महाबलः । । ३४० ।।
"
तत्र सेडुबको नाम, द्विज्ञो दारिद्र्यविद्रुतः । सोऽन्तर्वत्न्याऽन्यदा पत्न्या, प्रोचेऽर्पय घृतादिकम् ।। ३४१ ।। तेनोचे नास्ति मे किञ्चित्, तद्विज्ञानं वचस्विनि ! । येनानुरञ्जितो दद्याद्दाता घृतगुडादिकम् ।।३४२ ।।
तयोक्तं भज राजानं, स दद्याद्येन सम्पदम् । सिषेवे स ततो भूपं नित्यं पुष्पफलादिभिः ।। ३४३ ।।
जगदे सोऽन्यदा राज्ञा, किं ते विप्र ! प्रदीयताम् ? । प्रार्थयिष्ये प्रियां पृष्ट्वेत्याख्याद् विप्रोऽपि पार्थिवम् ।। ३४४ ।। ततोऽसौ स्वगृहे गत्वेत्यूचे मेऽद्य महीपतिः । परितुष्टः प्रदत्ते तत्, कमर्थं प्रार्थये प्रिये ! ।।३४५।।
सा प्राहाग्रासने भुक्ति, दीनारं दक्षिणाकृते । याचस्व भूपतिं भद्रोत्सारकं च दिने दिने || ३४६ ।।
गत्वा तद्याचितं तेन राज्ञाऽपि तत् प्रतिश्रुतम् ।
,
उदङ्कः पतितोऽप्यब्धौ बिभर्त्ति स्वोचितं जलम् ।। ३४७ ।।
प्रत्यहं तस्य तत्सर्वं कुर्वन्तं वीक्ष्य भूपतिम् । सामन्ताद्यास्ततो दध्युः, पूज्योऽयं राजवल्लभः । । ३४८ ।।
ततोऽभोज्यत तैर्भीतैर्दक्षिणां ग्राह्यते स्म सः ।
वान्त्वा वान्त्वा द्विजो लोभादबोभोजीद् गृहे गृहे ।। ३४९ ।।
Page #41
--------------------------------------------------------------------------
________________
३७
श्रीश्रेणिकचरित्रम् । ववृधे स्वल्पकालेन, ततः सेडुबको द्विजः । ऋद्ध्या महत्या पुत्रादिसंतत्या च प्रभूतया ।।३५०।। रसेपूर्ध्वमथो यात्सु, तस्याजायत कुष्ठरुक् । दुःसाध्योऽभूच्च स व्याधिर्वैरीवोपेक्षितः क्रमात् ।।३५१ ।। शतानीकस्य भूपस्य, तथैवाग्रासनासिनम् । तं गलत्कुष्ठिनं वीक्ष्यामात्या भूपं व्यजिज्ञपन् ।।३५२ ।। स्वामिन्नस्य पदे कोऽपि, पुत्रादिः स्थाप्यतां ननु । संक्रान्तिर्जायते व्याधेर्येनैकत्रासनादिना ।।३५३ ।। एवमस्त्विति राज्ञोक्ते, विप्रः प्रोक्तः स मन्त्रिभिः । भोक्ष्यतेऽत्र सुतस्ते तु, तिष्ठेस्त्वं स्वीयवेश्मनि ।।३५४ ।। रोगेऽतिप्रसृते तस्य, तत्पुत्रैस्त्रपया ततः । कृत्वा कुटीरकं गेहाद, बहिस्तत्र स आस्यत ।।३५५ ।। तस्य तत्र स्थितस्यादुर्वारं वारेण तत्स्नुषाः । दारुपात्रे सुदूरस्थाः, श्वपाकस्येव भोजनम् ।।३५६।। सोऽथ दध्यौ सुतादीनां, कुपितोऽवज्ञया तया । मत्तः श्रियैव मत्तानां, दर्शयाम्यथ तत्फलम् ।।३५७ ।। ध्यात्वेत्यूचे स तान् मोक्ष्ये, प्राणान् किन्तु सुमुर्गुणा । मन्त्रपूतः पशुर्देयः, स्वेभ्य एष कुलक्रमः ।।३५८ ।। मुदितैस्तैः पशुः क्षिप्रं, तस्यार्प्यत ततोऽङ्गकात् । उद्वोद्वर्त्य तद्भक्ष्ये चिक्षेपोद्वर्तनीर्द्विजः ।।३५९ ।। तद्भक्षणादसौ जज्ञेऽचिरेणाजोऽपि कुष्ठिकः । हत्वा तमन्यदा सोऽदात्, स्वेभ्यस्तं तेऽप्यभुञ्जत ।।३६०।।
Page #42
--------------------------------------------------------------------------
________________
३८
तीर्थे स्वार्थाय गच्छामीत्यापृच्छ्य तनयानसौ । शरण्यमिव मन्वानोऽरण्यानीमुन्मुखोऽगमत् ।। ३६१।।
श्रीश्रेणिकचरित्रम् |
भ्राम्यन्नुदन्ययाऽपश्यन्नदं नानाद्रुमैर्वृतम् । पत्रादिपाकसम्पर्कात्, क्वाथवत्तत्पयः पपौ ।।३६२ ।। तृषार्त्तो वैद्यवाचेव, सोऽपादम्भो यथा यथा । तथा तथा विरेकोऽभूदस्योग्रकृमिभिः समम् ।।३६३ ।। स नीरुक् तेन संवृत्तो, व्यावृत्त्यागात् पुरीं निजाम् । पौरैः पृष्टोऽब्रवीच्चाहं, नीरुक् देवतया कृतः । । ३६४ । । गृहे गतः स्वपुत्रादीन्, मक्षिकाकोटिवेष्टितान् । निकृष्टकुष्ठनष्टाङ्गान् दृष्ट्वाऽभाषिष्ट दुष्टधीः ।। ३६५ ।।
पापिष्ठाः सुष्ठु दृष्टं भो, मदवज्ञा फलेग्रहिः । फलमेतत् ततः पुत्रास्तमूचुः किं त्वया कृतम् ? ।। ३६६ ।।
स स्माहान्यस्य कस्येदृक्, शक्तिस्तस्मै ततोऽशपत् । लोकः सर्वोऽपि सोऽथागाद्, राजन्नन पुरे क्रमात् ।।३६७।। वृत्ति द्वारं स शिवाय, द्वारपालं निराश्रयः । द्वाःस्थोऽथागात् ममानन्तुं कृत्वा तु द्वाररक्षकम् ।। ३६८ ।।
द्वारस्थो द्वारदुर्गाणां बलिः सेडुबकोऽधिकम् ।
चखाद ग्रीष्मसंतापात्, तृषा तस्याभवद् भृशम् ।। ३६९ ।।
7
द्वारपालभयाद् द्वारं, नात्याक्षीत् तृषितोऽप्यसौ । धन्यान् वारिचरान् जीवान्, मन्यमानो व्यपद्यत ।। ३७० ।।
सोऽत्रैव नगरद्वारवाप्यामजनि दर्दुरः ।
भूयोऽत्र समवासाम, विहरन्तोऽन्यदा नृप ! ।। ३७१ ।।
Page #43
--------------------------------------------------------------------------
________________
३९
श्रीश्रेणिकचरित्रम् । अस्मदागमनं श्रुत्वा, भेकोऽम्भोहारिणीमुखात् । ऊहापोहं वितन्वानो, जातिस्मरणमाप सः ।।३७२ ।। अचिन्तयत् स भेकः प्राक्, द्वारे द्वा:स्थो विमुच्य माम् । ययौ यं वन्दितुं वीरं, स आगाद् भगवानिह ।।३७३।। तं नत्वा तद्गिरः श्रुत्वा, ग्रहीष्ये जन्मनः फलम् । ततो मां वन्दितुं भक्त्योत्प्लुत्योत्प्लुत्य चचाल सः ।।३७४ ।। पथ्यागच्छंस्त्वदधेन, खुरेणाक्रम्य मारितः । दर्दुराकेषु देवेषु, महर्टिस्रिदशोऽभवत् ।।३७५।। बिडौजसाऽन्यदा राजन्नाचचक्षे स्वपर्षदि । श्रेणिको नैव चाल्येत, जिनभक्तेः सुरैरपि ।।३७६ ।। तदश्रद्धालुस्तत्रागात्, स देवः कुष्ठिरूपभृत् । गोशीर्षेण ममासिञ्चच्चरणौ रसिका न सा ।।३७७ ।। राज्ञा पृष्टो म्रियस्वेत्याद्यर्थं प्रभुरथावदत् । अर्हन्मृत्वा शिवं गच्छ, म्रियस्वेति शुभं ह्यदः ।।३७८ ।। त्वं च जीवन सुखेनासि, मृतस्तु नरकं गमी । जीवन सुखी मृतः स्वर्ग, गमीत्युक्तो द्विधाऽभयः ।।३७९ ।। कालशौकरिकस्त्वेष, जीवन् पापपरायणः । मृतः श्वभ्रं गमी तेन, द्विधाऽपि प्रतिषेधितः ।।३८०।। मृतस्त्वं नरके याता, सर्वज्ञोक्तमिदं वचः । आकर्ण्य कर्णकटुकं, बभाषे भूपतिः प्रभुम् ।।३८१ ।। भवत्सु विश्वविश्वस्य, शिवतातिषु सत्स्वपि । स्वामिन्नस्वामिकस्येव, कथं मे गतिरीदृशी ? ।।३८२।।
Page #44
--------------------------------------------------------------------------
________________
४०
श्रीश्रेणिकचरित्रम् ।
प्रभुः प्राह दृढं बद्धं, पुराऽऽयुर्नरके त्वया । अस्माभिरपि तत्कर्म्म, नान्यथा कर्तुमीश्यते ।। ३८३ ।। किन्तु तस्मात् समुद्धृत्य भाविन्यामर्हतामिह । चतुर्विंशतिकायां त्वं प्रथमस्तीर्थनायकः || ३८४ ।।
पद्मनाभाभिधस्तुल्यो, मानघर्णादिना मम ।
भावी भवान्तकृद्राजन् ! विषादं तेन मा कृथाः ।। ३८५ । । युग्मम् ।। श्रुत्वेति श्रुतिपीयूषपूरकल्पं ततोऽभवत् ! हर्षप्रकर्षादुत्फुल्लपङ्कजाः क्षितीश्वरः । । ३८६ ।।
प्रभुं प्रणम्य भूयोऽपि, पप्रच्छ स्वच्छधीरसौ । उपाय: कश्चिदस्तीश !, न यायां येन तां गतिम् ।।३८७ ।।
स्वाम्यूचे कपिला भिक्षां, साधुभ्यो दाप्यते त्वया । त्याज्यते शौनिकोऽयं चेच्छूना श्वभ्रे गतिर्न ते ।।३८८ ।।
इन्यस्तशंसयो वीरं, प्रणम्य स्वपुरं प्रति । प्राचालीदचलानाथो, राजन् राज्यश्रिया तया ।।३८९।।
दर्दुराङ्कः स देवोऽथ विशामीशं परीक्षितुम् । सम्यक्त्वं निश्चलं नेति विचक्रे विक्रियामिमाम् ।। ३९० ।।
आनायेन मुनिर्मीनानाकर्षन्नृपतेर्नदात् ।
तेनादर्शि यथाऽन्यस्य, पृथग् धर्मान्मनो भवेत् ।। ३९१ ।।
नृपस्तु निश्चलो धर्मे, तं निवार्य पुरे ययौ । आसन्नप्रसवा साध्वी, पुनर्देवेन दर्शिता । । ३९२ । ।
संगोप्यैनां स्वयं राजाऽरक्षत् शासनलाघवम् । त्रिलोक्याऽपि न चाल्योऽयं, नाकिनेति सुनिश्चितम् ।। ३९३ ।।
Page #45
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् ।
प्रत्यक्षीभूय तं प्राह, सुमनाः सुमना इति । शक्रोऽशंसत् सदःस्थोऽनुश्रेणिकं शुद्धदृष्टयः । । ३९४ ।।
स्थिरभक्तिस्तथैवासि, सम्यक् सर्वज्ञशासने ।
"
इत्युक्त्वा गोलको हारं दत्त्वा देवो दिवं ययौ ।। ३९५ ।। अयमेवार्थः सविशेषो निशीथेऽप्युक्तः, तथाहि रायगिहे सेणिओ राया, तस्स देविंदो संमं सम्मत्तं पसंसइ, इक्को देवो असद्दहंतो नगरबाहिं सेणियस्स पुरओ चेल्लगरुवेणं अणिमेसे गिण्हइ, तं निवारेइ, पुणो वाहडियसंजइवेसेण परओ ठिओ, तं अप्पसारिअं नेऊण उव्वरए पसे (च्छाइ) ऊण धरिया, तच्छेव निक्केइया, संजइसव्वपरिकम्माणि करेइ, मा उड्डाहो भविस्सइ, सो य गोमडयसरिसगंधं विउव्वइ, तहाविन विपरिणामइ, देवो तुट्ठो, दिव्वं देविड्ढि दाइत्ता उववूहइ त्ति ।।
गृहे गत्वा ददौ हारं, चेल्लणायै नृपोऽथ तम् । नन्दाये गोलको ताभ्यां निर्ययौ कुण्डलांशुकम् ।। ३९६ ।।
,
राजाऽथ कपिलामूचे, साधुस्त्वं प्रतिलम्भय ।
तुभ्यं रामीप्सितं द्रव्यं, निग्रहीष्येऽन्यथा ध्रुवम् ।। ३९७।। साऽवोचद्यदि कुर्व्वीथा, मां सर्वस्वर्णदेहिकाम् । तिलशः खण्डयेर्वाऽदः, करिष्ये न कथञ्चन ।। ३९८ ।।
४१
1
कालशीकरिकोऽप्येवमुक्तः पशून् न चामुचत् । राज्ञा सोऽक्षेपि साक्षेपं, निर्जलेऽन्धौ जडाशयः ।। ३९९ ।। तत्र पञ्चशतीं कृत्वा, सोऽवधीन् मृन्मयान् महान् । रज्जुबद्धघटीवासी, दिनमेकं ततो धृतः । ।४०० ।
द्वितीयेऽह्नि नृपो गत्वा, प्रभुं नत्वा व्यजिज्ञपत् । शूनां स शौनिकः कल्पे, व्यमोचि भगवन् ! मया ? ।। ४०१ ।।
Page #46
--------------------------------------------------------------------------
________________
४२
श्रीश्रेणिकचरित्रम् । स्वाम्युवाचांतरालस्थः, सोऽवधीन् मनसाऽप्यमून् । अवश्यं भाविनो भावा, न भवन्त्यन्यथा नृप ! ।।४०२ ।। प्रभुं नत्वा स्ववेश्मागादनेका: शासनोन्नतीः । अकार्षीत् सुचिरं राजा, व्यहार्षीत् प्रभुरन्यतः ।।४०३।। शौनिकेनान्वहं तेन, महपञ्चशती घ्नता । सप्तमपृथिवीयोग्यं, कर्मोपार्जियदुत्कटम् ।।४०४ ।। उपमृत्यु तदायातमसंमादिव संमुखम् । तेन तस्य रुजोऽभूवन्, भूयस्यो युगपत्तनौ ।।४०५ ।। स सर्वाङ्गीणयाऽऽक्रान्तः, क्षुत्तृषाऽऽत्तॊऽपि पीडया । नाश्नन्नपाच्च दीनास्योऽरारट्यत दिवानिशम् ।।४०६।। हा मातम्रियते तात !, हाहेत्यादि सुभैरवम् । आचक्रन्द यथाऽन्येऽपि, श्रुत्वाऽऽक्रन्दान् भयार्दिताः ।।४०७।। सोऽथ तूलीसितामाल्यपञ्चालीवेणुमुख्यजे । रतिं कुत्रापि न प्राप, विषयैः सुन्दरैरपि ।।४०८।। तत्पुत्रः सुलसस्तस्य, प्रतिकारं यथा यथा । व्यधादथ व्यथाऽत्यर्थं, वर्धते स्म तथा तथा ।।४०९।। एतत्तेनातिभीतेन, भाविभद्रेण भाषितम् । अभयस्य स्फुरत्प्रौढमनीषोन्मेषशालिनः ।।४१०।। अभयोऽप्यभ्यधाद् भद्र !, त्वत्पिता सप्तमावनिम् । यास्यत्यवश्यं तल्लेश्या, पश्य तस्येयमागता ।।४११।। प्रतीपान्विषयानस्य, कुर्यास्त्वं सुखहेतवे । । तथा कृतेऽथ तेनासौ, मनाक् मेने सुखासिकाम् ।।४१२ ।।
Page #47
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् |
अहो अंहःसमूहस्य, कीदृशं हन्त दृश्यते । विजृम्भितं भवेऽत्रापि, सुलसो ध्यायतीत्यथ ।।४१३ ।।
कालसौकरिको मृत्वा सप्तम्यां नरकावनौ ।
•
नारकः सोऽप्रतिष्ठानेऽजायतोत्कृष्टदुःखभाक् ।।४१४ ।।
सुलसश्चान्यदा प्रोचे, स्वजनैर्जीविकाकृते ।
त्वयाऽधिष्ठीयतां मङ्क्षु, क्रमायातं पितुः पदम् ।।४१५।।
सोऽवादीन् न ग्रहीष्येऽदः, पदमत्युग्रपापकृत् । चक्षुष्मान् जीविताकाङ्क्षी, कोऽपि कूपे पतेत् किमु ? ।।४१६ ।।
मम पित्राऽनुभूतं यद्विस्मृतं तद् द्रुतं ननु । दृष्ट्वैतदपि यत् पापाद्, युष्माभिर्न विरम्यते ।।४१७ ।।
खाद्यखादकतैवात्र न पापमिति तेऽभ्यधुः । सुलसः स्माह तन्मृत्योर्बिभीयेत किमात्मभि: ? ।।४१८ ।।
यथाऽऽत्मनः प्रियाः प्राणास्तथाऽन्यस्य विन्निति । आत्मनीनो जनो हन्यात् कथं जीवान् सुखप्रियान् ? ।।४१९ ।।
स्वार्थेकनिष्ठास्ते प्रोचुर्यत् स्यात् ते पापमत्र तत् |
वयमेव ग्रहीष्यामः, संविभज्य पृथक् पृथक् ।।४२०।।
४ ३
किञ्चैकमहिषस्कन्धं, छिंद्यास्त्वं शितपर्शुना । छेत्स्यामो वयमन्येषां तत्तेऽहोऽपि न तादृशम् ।।४२१।। सुलसोऽपि निजान् बोद्धुं, बुद्धिधाम निजक्रमम् । अकुण्ठेन कुठारेण, निजघान सुनिष्ठुरम् ।।४२२ ।।
क्षणात्तस्य क्षते तत्र, व्यथाऽत्यर्थमभूदथ । सोऽवोचत्तान् विभज्येमां, गृह्णीत स्नेहलालसाः ।। ४२३ ।।
Page #48
--------------------------------------------------------------------------
________________
४४
ऊचुस्ते शक्यते तात !, जातु लातुं प्रियैरपि । पीडाऽल्पाऽपि परस्याङ्गे, किं कस्यापि हि कोविद ! ।। ४२४ ।।
श्रीश्रेणिकचरित्रम् ।
सुलसस्तानुवाचैवं यूयं जानीथ यद्यदः ।
सुतरां तन्न शक्येत, ग्रहीतुं कस्यचिद् व्यथा । । ४२५ ।। देही दोदूयमानोऽङ्गे, दर्भेणापि हि दारितः । तत् कथं शस्यते शस्त्रैर्भवद्भिर्भीरुको भवी ।। ४२६ ।। एकश्चोत्पद्यते प्राणी, विपद्येतैक एव हि ।
एक: पुण्यात् स्वरेत्येकः पतेत् पापात्तु दुर्गतिम् ।।४२७||
अनित्यं सर्वजीवानां यौवनं जीवितं धनम् ।
ज्ञात्वाऽर्हद्धर्म्म एवेह, कार्यः शाश्वतसौख्यदः । ।४२८ ।।
,
सुलसः स्वजनानेवमनुशिष्य विमृश्यकृत् । भूयो भूयोऽभयाभ्यर्णे, धर्म्म शुश्राव शुद्धधीः । । ४२९ ।।
सम्यक् सम्यक्त्वपूतात्मा, दधार गृहमेधिताम् । धन्यंमन्यो दृढधर्म्मा, कर्म्ममर्म्मप्रमर्द्दनः || ४३० ।।
कुलायातामपि त्यक्त्वा, हिंसां रौद्ररुजामिव । सुलसः सात्त्विकश्रेष्ठो, विपद्य त्रिदिवं ययौ ।। ४३१ ।। उद्याने समवासार्षीत्, पुरे राजगृहेऽन्यदा । मुनिपञ्चशतीयुक्तः, सुधर्मा गणभृद्वरः । । ४३२ ।। वन्दितुं तत्पदद्वन्द्वं, सर्वद्र्ध्या श्रेणिको नृपः । शासनोत्सर्पणामिच्छन्नगच्छत् सपरिच्छदः । । ४३३ ।।
नानायानसमारूढस्तथाऽन्योऽपि पुरीजनः । भक्तिसम्भारसञ्जातरोमांचोच्छ्वसिताङ्गकः । । ४३४ ।। ( युग्मम् )
Page #49
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् |
एवं प्रभावनां प्रेक्ष्य, तत्रैकः काष्ठभारिकः । गत्वा तत्र गुरुं नत्वाऽश्रौषीद् धर्म्ममिमं यथा ।। ४३५ ।।
जन्तुघातो मृषास्तेयमबह्म च परिग्रहः ।
भो भो भव्या विमुच्यतां, पञ्चैते पापहेतवः । । ४३६ ।।
इत्याकर्ण्य नरेन्द्राद्या, पर्षन्नत्वा गृहेऽगमत् । द्रमकः स तु तत्रैव, स्वार्थार्थी तस्थिवान् स्थिरः । । ४३७ ।। गुरुस्तमूचे चित्तज्ञश्चिन्तितं ब्रूहि सोऽब्रवीद् । जानामि यदि वः पादान्, वरिवस्यामि सर्व्वदा ।। ४३८ । । ततः प्रव्राज्य तं सद्यो, गुरवः कृतयोगिनः । अर्पयामासुराचारं, शिक्षयामासुराशु ते ।। ४३९ ।। तं गीतार्थयुतं भिक्षाचर्यायामन्यदा गतम् । प्रागवस्थाविदः पौराः, प्रेक्ष्य प्रोचुरहंयवः ।।४४० ।। अहो महर्द्धस्त्यक्ताऽयं, महासत्त्वो महामुनिः । इति वक्रोक्तितः खिड्गैरुपाहस्यत सोऽन्वहम् ।।४४१ ।। ततोऽसी शैक्षकत्वात्तं, परीषहमसासहिः । सुधर्म्मस्वामिना प्रोचेऽनूचानेन वचस्विना ।। ४४२ ।।
संयमे किं समाधानमस्ति ते सुष्ठु ? सोऽभ्यधात् । अस्ति युष्मत्प्रसादात्तु, विहारोऽन्यत्र चेद् भवेत् ।।४४३ ।। विधास्यते समाधानं, वत्सेत्युक्त्वा गुरुस्ततः । अभयस्यागतस्याख्याद्विहारो नो भविष्यति ।। ४४४ ||
अभय: स्माह नः कस्मादकस्माद् द्रुतमीदृश: । अप्रसादोऽथ तेऽत्रोचुर्मुनेरस्य परीषहः । ।४४५ ।।
४५
Page #50
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् । अभयोऽप्यभ्यधादेकं, दिवसं स्थीयतां प्रभो ! ।। निवर्तेत न चेदेष, न स्थातव्यं ततः परम् ।।४४६।। एवमस्त्विति सूर्युक्तोऽभयोऽथैत्य नृपाङ्गणे । रत्नकोटित्रयीं कृष्ट्वा, राशित्रयमकारयत् ।।४४७ ।। तुष्टो राजा ददात्युच्चै रत्नकोटित्रयीं जनाः ! । गृह्णीतैनां यथेष्टं तु, पटहेनेत्यघोषयत् ।।४४८ ।। ततोऽमिलद् द्रुतं लोको, लोलुभः सोऽभयेन तु । बभाषे गृह्यतामेषा, रत्नकोटित्रयी मुधा ।।४४९ ।। युष्माभिः स्वगृहे गत्वाऽनया किन्तु गृहीतया । यावज्जीवं विमोक्तव्यं, जलमग्निः स्त्रियस्तथा ।।४५० ।। इत्याकर्ण्य जनास्तूर्णमुत्कर्णास्तजिघृक्षवः । बिभ्यतो निश्चलास्तस्थुः, सिंहनादं मृगा इव ।।४५१।। अभयोऽप्यभ्यधात् कस्माद्, विलम्बस्तेऽप्यदोऽवदन् । लोकोत्तरमिदं लोकः, किं कश्चित्कर्तुमीश्वरः ? ।।४५२।। सोऽवदन् मुनिना तेन, त्रीण्यप्येतानि तत्यजे । तत् कुतो हसतैवं तमतिदुष्करकारकम् ।।४५३ ।। न जानीमो वयं स्वामिस्तस्यर्षेः सत्त्वमीदृशम् । तमृषि मर्षयिष्यामस्तदिदानी महामते ! ।।४५४ ।। अभयेन समं गत्वा, श्रीमन्तस्ते प्रणम्य तम् ।। महर्षि क्षमयामासुः, स्वापराधं मुहुर्मुहुः ।।४५५।। सभासीनोऽन्यदा राजा, जगादास्मिन् पुरे जनाः ! । साम्प्रतं सर्वपण्येभ्यः, समर्घं किमु लभ्यते ? ।।४५६।।
Page #51
--------------------------------------------------------------------------
________________
४७
श्रीश्रेणिकचरित्रम् । ततः समस्तसामन्तमन्त्रिमुख्या बभाषिरे । समघु जाङ्गलं देवेत्यभयोऽस्थाच्च मौनभृत् ।।४५७।। दक्षः क्षितिपतिः प्रोचेऽभय ! त्वं किं न भाषसे ? । सम्यग्विचिन्त्य वक्ष्येऽहमित्युवाचाभयः सुधीः ।।४५८ ।। अन्तरन्तः पुरस्याथ, द्वितीयेऽन्यभयो नृपम् । प्रच्छन्नं स्थापयामास, प्रख्याप्यापाटवं तनोः ।।४५९ ।। चिकित्सा क्रियतेऽत्यर्थं, प्रकाश्येति ततोऽभयः । शिक्षयित्वा नरं प्रैषीद्, वेश्मन्येकस्य मन्त्रिणः ।।४६०।। तेनापि कृतसन्मानः, स राजपुरुषोऽवदत् । वरमन्त्रिन् ! सुवैद्योक्तभैषज्यार्थमिहागमम् ।।४६१ ।। मन्त्र्यप्यूचे समादेशो, दीयतामथ सोऽवदत् । स्वकालेयकमांसस्य, यवमानं समर्पय ।।४६२ ।। इत्याकर्ण्य वचो भीष्मं, स मन्त्री मृत्युभीलुकः । कृताञ्जलिपुटः प्रोचे, रक्ष मां राजवल्लभ ! ।।४६३ ।। गृहाण भूयसी: स्वर्णकोटीर्जीवितदायक ! । किं चान्येऽपि च तिष्ठन्ति, सामन्तसचिवादयः ।।४६४।। सोऽपि तस्योपरोधेन, वचो मेनेऽग्रहीच्च ताः । एवमन्यान्यसामन्तमन्त्रिभ्य: स्वर्णमाददे ।।४६५ ।। मेलयित्वा बहु स्वर्णमार्पयत् सोऽभयाय तत् । पुजीचकार तत् सर्वं, सोऽपि राजगृहाङ्गणे ।।४६६ ।। द्वितीयदिवसेऽकस्मात्, किल कल्योऽभवन्नृपः । निषसाद यथास्थाने, मङ्गल्यानि च जज्ञिरे ।।४६७ ।।
Page #52
--------------------------------------------------------------------------
________________
४८
श्रीश्रेणिकचरित्रम् ।
स्वर्णराशिमथोत्तुङ्गं, मेरो: शृङ्गमिवामलम् । वीक्ष्य क्षोणीपतिः प्रोचेऽभयं किमिदमीक्ष्यते ? । । ४६८ ।।
विस्फुरत् कान्तदन्तांशुश्रेणिः श्रेणिकसूर्जगी । ननु कैलाशशैलोऽयं, माङ्गल्यार्थमिहागमत् । । ४६९ ।। राजा जगाद किं कोऽपि त्वयाऽलुट्यत पत्तने ? । अभय: स्माह सर्वत्र, देव ! सम्यग् निरूप्यताम् ।।४७० ।। नृपोऽप्युवाच पर्याप्तं वक्रोक्त्या सुनृतं वद । सोऽप्याख्यात्पिशितं स्वामिन् !, समर्धमिति मन्यताम् ।।४७१।। किं किमेतत् नृपेणोक्ते, सोऽपि सर्वं निवेद्य तत् । ऊचे यतस्ततस्तेन, नोच्यते तात ! धीमता ।। ४७२ ।।
सामन्तादींस्ततः प्रोचेऽभयो भूताभयप्रदः । आकर्णयत तत्रार्थे, सकर्ण्याः ! खलु निर्णयम् ।।४७३ ।। प्राणैः समं यथा भेदं, जानतोऽप्यात्मनः किल । स्वप्राणा दुस्त्यजास्तद्वदन्यस्य सुतरां पुनः ।।४७४ ।। तद् भो अतिमहार्घं हि, स्वमांसं त्रिजगत्यपि । तेऽप्यूचः सत्यमेवैतद्वचस्ते धीतिधेऽभय ! ।। ४७५ । । एवं प्रभावयन्नर्हच्छासनं चण्डशासनः । श्रेणिकोऽभयसंयुक्तश्चिरं साम्राज्यमन्वशात् ||४७६ ।।
अभयं श्रेणिकोऽन्येद्युः प्रोचे राज्यं त्वमाश्रय । श्रीवीरचरणाम्भोजं, श्रयिष्येऽहं द्विरेफवत् ||४७७ ।। पितृभक्तो भवाद् भीरुर्भाविभद्रोऽभयोऽभ्यधात् । यदादिशथ तत् साधु, प्रतीक्षस्व क्षणं पुनः ।।४७८।।
,
Page #53
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् ।
प्रव्रजिष्यन्ति राजानस्त्यक्त्वा राज्यं कियच्चिरम् । अभय: संदिदेहवं, शुद्धात्मबुद्धिसेवधिः || ४७९ ।। इतश्च श्रीमहावीरः, प्रव्राज्योदायनं नृपं । मरुमण्डलतस्तत्राभ्यागत्य समवासरत् ।।४८० ।। दिष्ट्याऽद्य भगवानागात्, संशयोच्छेदहेतवे । ममैव केवलस्यायमिति हृष्टोऽभयस्ततः ।। ४८१ ।।
तत्र गत्वाऽऽशु वन्दित्वा पप्रच्छ परमेश्वरम् । राजर्षिः कोऽन्तिमोऽथाख्यत्, स्वामी नृपमुदायनम् ।।४८२ ।। भगवन्तं ततो नत्वाऽभ्येत्य श्रेणिकसन्निधौ ।
प्रोचे प्रणम्य पर्याप्तं मम राज्येन सर्वथा ।। ४८३ ।।
"
तात ! नाम्नाऽभयोऽहं तु, सभयः स्वामिवाक्यतः । यदि राजा ततो नर्षिरित्याचख्यौ जगद्गुरुः । । ४८४ ।।
तात ! त्वदङ्गजस्यापि शिरःस्थे त्रिजगत्पतौ ।
प्रव्रज्या यदि मे न स्यात्, मत्तः कोऽन्योऽधमस्ततः ? ।।४८५ ।।
तदलं भम राज्येन, व्रतविघ्नकृता ततः ।
राजोचे मामनापृच्छ्य, प्रव्राजीर्मा कदापि हि ।।४८६ ।।
मेने तदा पितुर्वाक्यं प्रविव्रजिषुरप्यसौ ।
"
उत्सुका अपि धीमन्तो, गुर्वाज्ञां खण्डयन्ति न । । ४८७ ।।
शीतर्त्तावन्यदा राजाऽपराह्णे चेल्लणायुतः ।
कम्मरिवीरं श्रीवीरं वन्दितुं विधिवद्ययौ ।।४८८ ।।
>
४९
वन्दित्वा श्रीमदर्हन्तं, वलितौ तौ तु दम्पती । जलोपान्ते ददृशतुः, श्रमणं प्रतिमास्थितम् ।।४८९ ।।
Page #54
--------------------------------------------------------------------------
________________
५०
श्रीश्रेणिकचरित्रम् । अप्रावृतं च तं शीतपरीषहसहं मुनिम् । तौ दम्पती ववन्दाते, सपद्युत्तीर्य वाहनात् ।।४९० ।। तं क्षमाश्रमणं भक्त्या, सह पत्न्या महीपतिः । वन्दित्वा स्वं ययौ गेहं, पुण्यवार्ता प्रपञ्चयन् ।।४९१।। निर्दग्धागुरुकर्पूरधूपे भूमिपतिर्निशि । आगारेऽवसदानन्दप्रदे चेल्लणया सह ।।४९२ ।। निद्रायां चेल्लणादेव्याः, प्रच्छदात् पाणिपल्लवः । बहिबभूव शीता , जजागराशु चेल्लणा ।।४९३ ।। तदा चाप्रावृत्ताङ्गं तं, महर्षि प्रतिमास्थितम् । स्मृत्वोवाचेदृशे शीते स कथं हा भविष्यति ? ।।४९४ ।। साऽऽससाद पुनर्निद्रां, तथैव सरलाशया । प्रबुद्धस्तद् वचः श्रुत्वा, चिन्तयामास भूपतिः ।।४९५।। नूनमस्य मनस्यन्यो, यदेवमनुशोचति । एवमीाकुलस्यास्य, सा रात्रिर्जाग्रतो ययौ ।।४९६ ।। अन्तरन्तःपुरं गन्तुं, प्रातरादिश्य चेल्लणाम् । आहूयाभयमित्यूचे, श्रेणिकस्तीव्रशासनः ।।४९७ ।। ज्ञातमन्तःपुरं रेऽद्य, दुराचारेण दूषितम् । तत् सर्वं ज्वाल्यतां मा भूर्मातृमोहादनीदृशः ।।४९८ ।। इत्यादिश्याभयं राजा, स्वामिनं वन्दितुं ययौ । अभयो मन्त्रयाञ्चक्रे, मनीषी मनसा सह ।।४९९ ।। सतीमतल्लिकाः सर्वा, मातरो मे स्वभावतः । • तास्वहं सर्वदा भक्तस्ताताज्ञा पुनरीदृशी ।।५००।।
Page #55
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् । तदापि चित्रमुत्पाद्य, कालक्षेपः करिष्यते । मन्ये मत्कार्यसिद्धिश्च, प्रस्तावेऽत्र भवेद्यदि ।।५०१।। जीर्णां करिकुटीमन्तःपुरपार्धेऽभयस्ततः । ज्वालयामास निर्दग्धः, शुद्धान्त इति घोषयन् ।।५०२ ।। इतश्च श्रेणिकोऽपृच्छत्, समये परमेश्वरम् । एकपत्नी किमनेकपत्नी वा चेल्लणा प्रभो ! ।।५०३ ।। स्वाम्याख्यद् धर्मपत्नीयमेकपत्नी महासती । मा शंकिष्ठास्त्वमस्यास्तद्, वचस्तत्साधुगोचरम् ।।५०४ ।। इदं च श्रेणिकः श्रुत्वा, पश्चात्तापमुपागतः । सपदि स्वामिनं नत्वा, प्रतस्थे स पुरं प्रति ।।५०५ ।। तथा प्रदीपनं कृत्वाऽभ्यायान्तं चाभयं नृपः । अपृच्छदस्मदादेशो, भवता किमनुष्ठितः ? ।।५०६।। अभयोऽप्यभ्यधाद् भीत इव नत्वा कृताञ्जलिः । स्वाम्यादेशोऽपरस्यापि, प्रमाणं किं पुनर्मम ।।५०७ ।। राजा प्रोवाच रे पाप !, दग्ध्वा मातृजनं निजम् । जीवसि त्वं किमद्यापि ?, किं नापप्तः प्रदीपने ? ।।५०८ ।। स स्माह समयं ज्ञात्वा, यद्येवं देव ! देहि मे । आदेशं यद्विशाम्यद्य, भावाग्नौ दुःखदाहके ।।५०९।। एवमस्त्विति राज्ञोक्ते, स वृत्तान्तमचीकथत् । हृष्टो राजाऽस्य सत्यागूश्चक्रे निष्क्रमणोत्सवम् ।।५१०।। ततः श्रीवीरपादान्ते, नान्देयो नन्दया सह । प्रव्रज्यां परिजग्राह, सुधीः स्वार्थाय सत्वरः ।।५११।।
Page #56
--------------------------------------------------------------------------
________________
प
श्रीश्रेणिकचरित्रम् । अधीत्यैकादशाङ्गानि, पालयित्वा चिरं व्रतम् । विपद्य विजये जज्ञे, देवोऽनुत्तरनामके ।।५१२।। ततश्च्युत्वा विदेहेषूत्पद्य दीक्षां ग्रहीष्यति । केवलज्ञानमासाद्य, स सिद्धिपदमेष्यति ।।५१३।। श्रेणिकस्तु निजं राज्यं, शून्यं मेने विनाऽभयात् । देवराजो दिवो राज्यमिव वाचस्पति विना ।।५१४ ।। सुमङ्गलभवे श्येनमुनिपारणभञ्जकं । द्वेषीव च्छिद्रमासाद्य, डुढौके कर्म तस्य तत् ।।५१५।। कालाद्यैर्दशभिः सार्धं, मन्त्रयित्वा विमातृजैः । कूणिकः श्रेणिकं गुप्तौ, चिक्षेप प्राग् निदानतः ।।५१६।। ततो राज्यमधिष्ठाय, चर्मयष्ट्या स निष्ठुरान् । प्रहारानन्वहं दुष्टः, पितुः पञ्चशतान्यदात् ।।५१७ ।। अन्नपाननिरोधं च, कारयामास यामिकैः । तस्यान्तरायिकं कर्म, स्मारयन्निव विस्मृतम् ।।५१८ ।। श्रेणिको यामिकानूचे, क्रूरात्मा कूणिकोऽधिकम् । रौद्रमूर्तिर्यदाऽभ्येति, तदा शंसेत मे द्रुतम् ।।५१९ ।। शतायुसुरया केशानायित्वाऽथ चेल्लणा । माषपिण्डी तदन्तस्थां, कृत्वा गत्वा नृपान्तिके ।।५२०।। अभोजयन्नृपं माषान्, धावित्वा कबरीपयः । अपाययच्च येन स्यात्, घातान् सोढुं क्षमस्तकान् ।।५२१ ।। कूणिकस्य नरेन्द्रस्य, भुजानस्यान्यदा मुदा । देवीपद्मावतीजात, उदायीनामनन्दनः ।।५२२ ।।
Page #57
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् ।
अङ्कस्थोऽमूत्रयत् स्थाले, त्यक्त्वाऽन्नं मूत्रमिश्रितम् । तथैव बुभुजे राजाऽपश्यत् मातृमुखं मुहुः ।। ५२३।। बभाषेऽम्बां च विश्वेऽस्मिन्नान्यस्यापि हि कस्यचित् । प्रिय: पुत्रो ममेवास्ति, ततस्तं चेल्लणाऽब्रवीत् ।। ५२४ ।।
"
रे रे मर्त्यब्रुवोऽसि त्वं किमेवं स्वं प्रशंससि ? । पितुः प्रियो यथाऽभूस्त्वं तादृगन्यो न कस्यचित् ।। ५२५ ।। यः स्वास्ये शैशवेऽक्षेप्सीत्, पूयक्लिन्नां तवाङ्गुलिम् । पितुस्तस्य कृतघ्नेन, सुप्रत्युपकृतं त्वया ।।५२६ ।।
श्रुत्वा मातृमुखादात्मोत्पत्तिं मातृमुखोऽथ सः । स्वं निन्दन्नभ्युदस्थाद् द्राक्, मुमुक्षुः पितरं निजम् ।। ५२७।। दधावे रंहसोद्यम्य, लोहदण्डं कृतान्तवत् ।
आक्रष्टुं श्रेणिकं गुप्तेर्भङ्क्त्वा तत्काष्ठपञ्जरम् ।। ५२८ ।। प्रेक्ष्य प्राहरिकैर्मङ्क्षु, शशंसे श्रेणिकाय सः ।
विद्युद्दण्ड इवासह्यः, स्वामिन्नायाति ते सुतः । । ५२९ ।।
मारयिष्यति मामेव, दुरात्मा कृतघ्ना (हा ) ग्रणीः । विडम्ब्येति नृपो ध्यात्वा प्राशीत्तालपुटं विषम् ।। ५३० ।।
"
प्राग्बद्धायुष्कतायोगाद्विपद्य श्रेणिकस्ततः । प्रथमप्रस्तटे रत्नप्रभायां नारकोऽभवत् । । ५३१।।
पराशुं श्रेणिकं प्रेक्ष्य, तत्रायातोऽथ कूणिकः । आक्रन्दन् कारयामास, श्रेणिकस्यौर्ध्वदेहिकम् ।।५३२।।
मन्त्रिभिर्विप्रलब्धोऽथ, सशोकः कुणिको नृपः । पिण्डपातादिकार्येषु, पितृतृप्त्यै प्रवर्तितः । । ५३३ ।।
५३
Page #58
--------------------------------------------------------------------------
________________
५४
श्रीश्रेणिकचरित्रम् । निवेश्य सोऽन्यदा चम्पां, त्रिखण्डेशोऽन्यदा विभुम् । पप्रच्छाविरतश्चक्री, मृत्वा क्वैति ? प्रभुर्जगौ ।।५३४ ।। सप्तमे नरके सोऽथ, प्रोचे क्वाहं गमी विभुः ? । षष्ठे इत्यवदद्यत्त्वं, न चतुर्दशरत्नभृत् ।।५३५।। सोऽथ कूटानि रत्नानि, कृत्वा वैताढ्यमासदत् । तमिस्त्रे स हतः षष्ठं, नरकं कूणिकोऽगमत् ।।५३६।। उदायीनृपतिर्जज्ञ, ततः, कूणिकराट्सुतः ।। चम्पापुर्यां प्रचण्डाज्ञस्त्रिखण्डभरताधिपः ।।५३७ ।। सोऽन्यदा पाटलीपुत्रं, कृत्वा तत्र कृतस्थितिः । जिनधर्मोद्यतः प्राज्यं, साम्राज्यं सुचिरं व्यधात् ।।५३८ ।। श्रीवीरं पुर्यपापायां, निर्वाणसमयेऽन्यदा । मण्डलेश: पुण्यपालो, नत्वाऽप्राक्षीदिदं यथा ।।५३९ ।। प्रश्नश्चायं यथाऽभाणि, प्रभुश्रीहेमसूरिभिः । तथैव लिख्यतेऽस्माभिस्तद्वचः कस्य न मतम् ? ।।५४०।। स्वामिन् ! स्वप्ना मयाऽद्याष्टी, दृष्टास्तत्र गज: कपिः । क्षीरद्रुः काक 'सिंहा ब्ज बीज कुंभा इमे क्रमात् ।।५४१ ।। तथाऽऽख्याहि फलं तेषां, भीतोऽस्मि भगवन्नहम् । इति पृष्टो जगन्नाथो, व्याचकारेति तत्फलम् ।।५४२ ।। विवेकवन्तो भूत्वाऽपि, हस्तितुल्या अतः परम् । वत्स्यन्ति श्रावका लुब्धाः, क्षणकर्धिसुखे गृहे ।।५४३ ।। न दौस्थ्येऽन्यस्वचक्रे वा, प्रव्रजिष्यन्त्युपस्थिते । आत्तामपि परिव्रज्यां, त्यक्ष्यन्ति च कुसङ्गतः ।।५४४ ।।
Page #59
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् ।
विरलाः पालयिष्यन्ति, कुसङ्गेऽपि व्रतं खलु ।
इदं गजस्वप्नफलं कपिस्वप्नफलं त्वदः । । ५४५ ।।
"
प्रायः कपिसमा लोलपरिणामाल्पसत्त्वकाः ।
आचार्यमुख्या गच्छस्थाः प्रमादं गामिनो व्रते ।। ५४६ ।।
,
ते विपर्यासयिष्यन्ति, धर्मस्थानितरानपि । भाविनो विरला एव, धर्मोद्योगपराः पुनः ।।५४७।।
7
धर्म्मश्लथेषु ये शिक्षां प्रदास्यन्त्यप्रमादिनः । ते तैरुपहसिष्यन्ते, ग्राम्यैर्ग्रामस्थपौरवत् । । ५४८ ।। इत्थं प्रवचनावज्ञाऽतः परं हि भविष्यति । प्लवङ्गमस्वप्नफलमिदं जानीहि पार्थिव ! ।।५४९ ।। क्षीरद्रुतुल्याः सुक्षेत्रे, दातारः शासनार्चका: । श्रावकास्ते तु रोट्यन्ते, लिङ्गिभिर्वञ्चनापरैः ।। ५५० ।। तेषां च प्रतिभास्यन्ति, सिंहसत्त्वभृतोऽपि हि । महर्षयः सारमेया, इवासारमतिस्पृशाम् ।। ५५१ ।। आदास्यन्ते सुविहितविहारक्षेत्रपद्धतिम् । लिङ्गिनो बब्बूलसमाः, क्षीरफलमीदृशम् ।। ५५२ ।।
धृष्टस्वभावा मुनयः, प्रायो धर्मार्थिनोऽपि हि । रंस्यन्ते नहि गच्छेषु, दीर्घिकाम्भःस्विव द्विकाः । । ५५३ ।।
ततोऽन्यगच्छिकैः सूरिप्रभुस्वैर्वञ्चनापरैः । मृगतृष्णानिभैः सार्धं, चलिष्यन्ति जडाशयाः । । ५५४ ।।
न युक्तमेभिर्गमनमिति तत्रोपदेशकान् । बाधयिष्यन्ते नितांतं, काकस्वप्नफलं ह्यदः । । ५५५ ।।
५५
Page #60
--------------------------------------------------------------------------
________________
५६
श्रीश्रेणिकचरित्रम् । सिंहतुल्यं जिनमतं, जातिस्मृत्यादिसुस्थितम् । विपत्स्यतेऽस्मिन् भरतावनौ धर्मज्ञवर्जिते ।।५५६।। न कुतीर्थिकतिर्यंचोऽभिभविष्यन्ति जातुचित् । स्वोत्पन्नकृमिवत् किन्तु, लिङ्गिनोऽशुद्धबुद्धयः ।।५५७ ।। लिङ्गिनोऽपि प्राक् प्रभावात्, श्वापदाभैः कुतीथिकैः । न जात्वभिभविष्यन्ति, सिंहस्वप्नफलं ह्यदः ।।५५८ ।। अब्जाकरेष्वम्बुजानि, सुगन्धानीव देहिनः । धर्मिका न भविष्यन्ति, संजाता: सुकुलेष्वपि ।।५५९ ।। अपि धर्मपरा भूत्वा, भविष्यन्ति कुसङ्गतः । ग्रामावकरकोत्पन्नगर्दभाब्जवदन्यथा ।।५६०।। कुदेशे कुकुले जाता, धर्मस्था अपि भाविनः । हीना इत्यनुपादेयाः, पद्मस्वप्नफलं ह्यदः ।।५६१ ।। यथा फलायाबीजानि, 'कर्पुर्बुद्ध्वोषरे वपेत् । तथा वप्स्यन्त्यकल्प्यानि, कुपात्रे कल्प्यबुद्धितः ।।५६२ ।। यद्वा घुणाक्षरन्यायाद्यथा कोऽपि कृषीवलः । अबीजान्तर्गतं बीजं, वपेत् क्षेत्रे निराशयः ।।५६३ ।। अकल्पान्तर्गतं कल्प्यमज्ञाता: श्रावकास्तथा । पात्रे दानं करिष्यन्ति, बीजस्वप्नफलं ह्यदः ।।५६४ ।। क्षमादिगुणपद्माङ्काः, सुचरित्राम्बुपूरिताः । रहःस्था भाविनः कुम्भा, इव स्तोका महर्षयः ।।५६५।। श्लथाचारचरित्राश्च, कलशा मलिना इव । यत्र तत्र भविष्यन्ति, बहवो लिङ्गिनः पुनः ।।५६६ ।। १. बीजबुध्योखरे०
Page #61
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् । समत्सराः करिष्यन्ति, कलहं ते महर्षिभिः । उभयेषामपि तेषां, साम्यं लोके भविष्यति ।।५६७ ।। गीतार्था लिङ्गिनश्च स्युः, साम्येन व्यवहारिणः । जनेन ग्रथिलेनेवाग्रथिलोऽभूद्यथा नृपः ।।५६८ ।।। तथा हि पृथिवीपुर्यां, पूर्णो नाम महीपतिः । सुबुद्धिस्तस्य चामात्यो, निधानं बुद्धिसम्पदः ।।५६९ ।। कालं तेनागमिष्यन्तं, पृष्टोऽन्येयुः सुबुद्धिना । लोकदेवाभिधोऽनेन, नैमित्तिकवरोऽवदत् ।।५७० ।। मासादनन्तरं मेघो, वर्षिता तद्जलं पुनः । य: पास्यति स सर्वोऽपि, ग्रहग्रस्तो भविष्यति ।।५७१ ।। कियत्यपि गते काले, सुवृष्टिश्च भविष्यति । पुनः सज्जा भविष्यन्ति, तत्पयःपानतो जनाः ।।५७२ ।। राज्ञो मन्त्री तदाचख्यौ, राजाऽप्यानकताडनात् । आख्यापयद् जने वारिसंग्रहार्थमथादिशत् ।।५७३ ।। लोकोऽपि हि तथा चक्रे, ववर्षोक्तेऽह्नि चाम्बुदः । कियत्यपि गते काले, संग्रहीताम्बु निष्ठितम् ।।५७४ ।। अक्षीणसंग्रहाम्भस्को, राजामात्यौ तु तो बिना । नवाम्बु लोका: सामन्तप्रमुखाश्च पपुस्ततः ।।५७५ ।। तत्पानाद् 'ग्रथिलाः सर्वे, ननृतृर्जहसुर्जगुः । स्वैरं चिचेष्टिरेऽन्यच्च, विना तौ राजमन्त्रिणौ ।।५७६।।
१. ग्रहिलाः ।। २. ऽन्यत्र
।
Page #62
--------------------------------------------------------------------------
________________
५८
श्रीश्रेणिकचरित्रम् । 'जनाः सर्वे सामन्ताद्या, ननृतुर्जहसुर्जगुः । स्वैरं चिचेष्टिरेऽन्यच्च, विना तौ राजमंत्रिणौ ।।५७७ ।। राजामात्यो विसदृशौ, सामन्ताद्या निरीक्ष्य तौ । मन्त्रयाञ्चक्रिरे नूनं, ग्रथिली राजमन्त्रिणौ ।।५७८ ।। अस्मद्विलक्षणाचाराविमकावपसार्य तत् । अपरौ स्थापयिष्यामः, स्वोचितौ राजमन्त्रिणौ ।।५७९ ।। मन्त्री ज्ञात्वेति तन्मन्त्रं, नृपायाख्यानृपोऽवदत् । आत्मरक्षा कथं कार्या, तेभ्यो वृन्दं हि राजवत् ।।५८०।। मन्त्र्यूचे ग्रथिलीभूय, स्थातव्यं ग्रथिलैः सह । त्राणोपायो न कोऽप्यन्य, इदं हि समयोचितम् ।।५८१ ।। कृत्रिमाथिलीभूय, ततस्तौ राजमन्त्रिणौ । तेषां मध्ये ववृताते, रक्षन्तौ निजसम्पदम् ।।५८२ ।। ततः सुसमये जाते, शुभवृष्टौ नवोदके । पीते सर्वेऽभवन् स्वस्था, मूलप्रकृतिधारिणः ।।५८३ ।। एवं च दुष्षमाकाले, गीतार्था लिङ्गिभिः सह । सदृशीभूय वय॑न्ति, भाविस्वसमयेच्छवः ।।५८४ ।। इति श्रुत्वा स्वप्नफलं, पुण्यपालो महामनाः । प्रबुद्धः प्राव्रजत्तत्र, क्रमान् मोक्षमियाय च ।।५८५ ।। अथेन्द्रभूतिः श्रीवीरं, नत्वाऽप्राक्षीत् कृताञ्जलिः । एष्यत्कालस्वरूपं तु, शलाकापुरुषान्वितम् ।।५८६।।
+ राजामात्यो विसदृशौ, सामन्ताद्या निरीक्ष्यते । मन्त्रयाञ्चक्रिरे नूनं, ग्रहिलो राजमंत्रिणौ ।। ६६ ।। (त्रिषष्ठिः
सर्ग-११)
Page #63
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् । स्वाम्युवाच गतैः पक्षैर्नवत्या मम निर्वृतः । प्रवर्त्यति तथैकोनैः, पञ्चमो दुष्षमारकः ।।५८७ ।। तथान्ते केवलं भावि, मन्निर्वाणाच्च गौतम ! । द्वादशाब्दास्ततोऽप्यष्टौ, वत्सराणि सुधर्मणः ।।५८८ ।। भावी तस्य विनेयस्तु, जम्बुश्चरमकेवली । वत्सराणि चतुश्चत्वारिंशतं सर्ववित्त्वभृत् ।।५८९ ।। व्युच्छेत्स्यन्त्यत्र चैतानि, दश स्थानानि तद्यथा । आहारकपुलाकाख्ये, द्वे लब्धी परमावधिः ।।५९०।। क्षपकोपशमश्रेण्यौ, मनःपर्यवकेवलौ । संयमत्रिकमन्त्यं च, जिनकल्पमहोदयौ ।।५९१ ।। भाविनः षट् प्रभवाद्याः, श्रुतकेवलिन: क्रमात् । अत्र चान्त्या चतुष्पुर्वी, स्थूलभद्रेऽन्तमेष्यति ।।५९२ ।। महाप्राणं च संस्थानमाद्यसंहननं तथा । मम मोक्षाद् गते वर्षशते सप्ततिसंयुते ।।५९३ ।। महागिरिसुहस्त्याद्या, भूरयः सूरयस्ततः । गणभृद्वज्रपर्यन्ता, भाविनो दशपूर्विणः ।।५९४ ।। दशपूर्व्या व्यवच्छेदस्तुर्यसंहननस्य च । षोडशाब्दोनषड्वर्षशत्या तत्र भविष्यति ।।५९५ ।। दशवर्षशतान्तेऽतो, भावी पूर्वगतस्य तु । क्रमादेकादशाङ्ग्याश्च, समं छेदश्रुतेन तु ।।५९६ ।। पञ्चमासोत्तरेऽप्यष्टाविंशत्यब्दयुतेषु च । मम मोक्षाद् गतेष्वब्दशतेष्वेकोनविंशतौ ।।५९७ ।।
Page #64
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् । भावी म्लेच्छकुले राजा, विष्टौ चैत्राष्टमीदिने । त्रिनामा पाटलीपुत्रे, कल्की रुद्रश्चतुर्मुखः ।।५९८ ।। मथुरापुरि कृष्णस्य, तदा देवकुलं महत् । अकस्मात् पवनोद्भूतं जीर्णद्रुवत् पतिष्यति ।।५९९ ।। दुर्भिक्षडमरावृष्टिचौरेतिभयविह्वलाः । भविष्यन्ति जनास्तस्मिन्, नृपे क्रूरतराशये ।।६०० ।। कौमारेऽष्टादशाब्दानि, तावन्त्येव च दिग्जये । ततो निष्कण्टकं राज्यं, कल्किनो हि भविष्यति ।।६०१ ।। नन्दस्य सोऽन्यदा स्तूपान्, पञ्च प्रेक्ष्यातिलोलुपः । खानयित्वा च तान् सर्वान्, भूरि स्वर्णं ग्रहीष्यति ।।६०२।। धनाय यावत् सर्वस्मिन्, खन्यमानेऽथ तत्पुरे । गौः पाषाणमयी दैवादुत्थास्यति चतुष्पथे ।।६०३ ।। घट्टयिष्यति सा साधून, व्रजतस्तेन वर्मना । जलोपसर्गमासन्नं, ज्ञास्यन्ति स्थविरास्ततः ।।६०४ ।। ज्ञात्वेति केचिदन्यत्र, विहरिष्यन्ति साधवः । स्थास्यन्त्यन्ये तु तत्रैव, पानानादिषु गृध्नवः ।।६०५।। सर्वे पाखण्डिनोऽन्येयुः, कल्किना याचिता: करम् । ददुर्यथार्थितं तस्मै, ते यस्मात् सपरिग्रहाः ।।६०६ ।। साधवोऽप्यर्थितास्तेनाभ्यधुर्धर्मधना वयम् । धर्मलाभं विना राजन् !, दद्मः किं तेऽन्यदुत्तमम् ? ।।६०७।। पुराणेषूदितं किञ्च, पालयन् व्रतपालकान् । साधूंस्तत्पुण्यषष्ठांशभाजनं भूपतिर्भवेत् ।।६०८ ।।
Page #65
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् |
दुष्कर्म्मणस्तदस्मात् त्वं, विरम क्षेममर्दनात् । एवमुक्तेऽपि तैरेष भावी भृकुटिभीषणः ।। ६०९ ।।
पूर्देवता ततोऽवक्ष्यत्, रे रे किं त्वं मुमूर्षसि ? । कल्किन्नकिञ्चनान् पूज्यान्, यदेवं याचसे यतीन् । । ६१० ।। भीतस्ततो मुनीनेष, क्षमयित्वा विमोक्ष्यति । अथोत्पाता भविष्यन्ति, नगरक्षयसूचकाः ।।६११।।
तत्र सप्तदशाहानि, वर्षिष्यति घनस्ततः | उद्धृत्य तत्पुरं गङ्गाप्रवाह: प्लावयिष्यति । । ६१२।।
तत्र प्रातिपदः सूरिः, सङ्घलोकोऽपि कोऽपि च । स्थाने स्थास्यति कल्की च, पुरलोकोऽपि कश्चन ।।६१३ ।।
निवृत्ते च पयःपूरे करिष्यति नवं पुरम् । नन्दद्रव्येण तेनोच्चैः, कल्की केतुरिवोत्कटः । । ६१४ ।। भविष्यन्ति जिनौकांसि चरिष्यन्ति महर्षयः । सुभिक्षं भावि पञ्चाशद्वत्सराणि निरन्तरं । । ६१५ ।। अथासन्नमृतिः कल्की, लिङ्गानि त्याजयिष्यति । सपत्राकृतिपात्रं च करिष्यति कुलिङ्गिनः ।। ६१६।।
क्षिप्त्वा प्रातिपदाचार्यं, ससङ्घ वृषवाटके । मार्गयिष्यति भिक्षायाः, षष्ठभागं स दुष्टधीः ।। ६१७ ।। सङ्घः शक्रं समाराद्धं, कायोत्सर्गं विधास्यति । कृतविप्राकृतिः क्षिप्रं ततः सोऽत्रैत्य वक्ष्यति । । ६१८ ।। कल्किन्नरीत्सीः किं साधून, कल्कपङ्काकलङ्कितान् ? । स वक्ष्यति न मे रान्ति, भिक्षाषष्ठांशमप्यमी ।।६१९ ।।
7
६१
Page #66
--------------------------------------------------------------------------
________________
६२
शक्रो भाषिष्यते नैते किञ्चिद्दास्यन्ति निर्ममाः । तं मुञ्चामून् द्रुतं नत्वा, भाव्यनर्थस्तु तेऽन्यथा ।। ६२० ।।
जल्पिष्यत्यथ जल्पाकः, कल्की कुप्यन्नरे भटाः ! । अपसारयत क्षिप्रं विप्रं धृत्वा गले दृढम् ।।६२१।।
"
ततः शक्रोऽपि सक्रोधः, कल्किनं कल्कमन्दिरम् ।
चपेटामुत्कटां दत्त्वा द्राग् भस्मसात् करिष्यति ।। ६२२ ।।
,
आयुः संपूर्य राजाऽसौ षडशीतिसमास्ततः ।
,
भविष्यति दुरन्तायां, नारको नरकावनी ||६२३ ।।
दत्ताख्यं कल्किनः पुत्रं, विधाय परमार्हतम् ।
स्थापयित्वा च तद्राज्ये, सङ्घं नत्वा गमी हरिः ।। ६२४ ।।
दत्तो धम्मैकचित्तोऽथ पितुः पापफलं स्मरन् । करिष्यति महीमेनां, जिनायतनमण्डिताम् ।।६२५ ।।
"
जितशत्रुयथाख्यातस्तत्पुत्रो भविता नृपः । तस्यापि चौघघोषाख्यो, जिनसाधुकृतार्चनः । । ६२६ ।।
"
श्रीश्रेणिकचरित्रम् ।
भविताऽन्यान्यभूपानां यावद् विमलवाहनः । भविता दुष्षमारान्ते तावद् धर्म्मश्च संततम् ।।६२७ ।।
इदं च भरतक्षेत्रमर्हत्काले पुराऽभवत् । ग्रामारामपुराकीर्णं, श्रिया स्वर्लोकसन्निभम् ।।६२८ ।।
ग्रामा नगरवद्रम्याः, स्वःपुराणीव तानि तु । कुटुम्बिनो नृपौपम्या, नृपास्तु धनदोपमाः ।।६२९।।
आचार्याश्चन्द्रमस्तुल्याः, पितरो देवतानिभाः । जननीजनकश्वश्रूश्वशुरा जनका इव ।।६३० ।।
Page #67
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् । सत्यशौचार्जवक्षान्तिविनयादिगुणान्वितः ।
सुशीलः सुकुलीनश्च राजन्वांश्च जनस्तदा ।। ६३१ ।। कालो यथा यथा गामी, दुष्षमायामतः परम् । निर्धर्म्मस्त्यक्तमर्यादो, भावी लोकस्तदा तदा ।। ६३२ ।।
मिथ्यात्वमोहितमतिर्दयादाक्षिण्यवर्जितः । अविनीतो जनः क्रूरः, कृतघ्नश्च भविष्यति ।। ६३३ ।। ग्रामाः पितृवनप्रायाः, पुराणि प्रेतलोकवत् । कुटुम्बिनोऽतिभृत्याश्च कृतान्तप्रतिमा नृपाः । । ६३४ ।। लुब्धा लास्यन्ति निष्पीड्य, द्रव्यमेते नियोगिनः । तेऽपि लोकांस्ततो भावी, तिमितिमिंगिलक्रमः ।। ६३५ ।। चौराश्चर्येण लुट्यन्ति, भूम्या भूमिभुजः करैः । देशांश्चान्दोलयिष्यन्ति, वातोद्धूतबहित्रवत् ।। ६३६ ।। पितृन् देवान् गुरून्नापि, मानयिष्यन्ति मानवा: । न प्रत्यक्षीभविष्यन्ति, देवा देव्यो यथा तथा ।। ६३७ ।। मनोवाक्कायकौटिल्यात्, स्नुषाः स्युः सर्पिणीसमाः । कालरात्रिसमाः श्वश्रूस्ताः प्रति क्रूरकर्म्मभिः । । ६३८ ।।
विलासैर्हसनैर्वेषैः कटाक्षैर्वक्रभाषणैः । गणिका इव निर्लज्जा, भविष्यन्ति कुलस्त्रियः ।। ६३९।। विरोधो भविता भूयान् जने स्वार्थैकतत्परे । धर्म्मकर्म्मप्रमादश्च, बहुजीवाकुला च भूः । । ६४० ।।
कूटक्रयतुलामानैर्जनो विश्वस्तघातकः ।
धर्मोऽपि भविता शौचमविश्वासः सुहृत्स्वपि । । ६४१ ।।
६३
Page #68
--------------------------------------------------------------------------
________________
६४
अकाले वर्षिता काले, न वर्षिष्यति वारिदः । सज्जना भाविनो दुःस्था, दुर्जनाः सुस्थिताः पुनः । । ६४२ ।। ज्ञान श्रद्धानविज्ञानध्यानधर्म्मधनायुषाम् । मणिमन्त्रौषधादीनां, फलपुष्परसौजसाम् । । ६४३ ।। गात्रोच्चत्वस्य रूपस्य क्रमाद्धानिर्भविष्यति । अन्येषामपि भावानां शुभानां पञ्चमे रे ।।६४४ ।।
श्रीश्रेणिकचरित्रम् ।
षष्ठेऽधिकतरा त्वेवं ज्ञात्वा यो धर्म्मकर्म्मणि ।
,
समुद्यस्यति तस्यैव, सफलं जन्म जीवितम् ।।६४५ ।। सुधर्म्माद्या भविष्यन्त्याचार्या दुष्प्रसहान्तिमाः । युगप्रधानताभाजो, द्वौ सहस्रौ चतुर्युतौ । । ६४६ ।।
सूरिर्दुष्प्रसहो नाम, फल्गुश्रीश्च प्रवर्त्तिनी । श्रावको 'नायिलाभिख्यः, सत्यश्रीश्राविका तथा । । ६४७ ।। सङ्घोऽयं भरते भावी, राजा विमलवाहनः । धीसखः सुमुखश्चान्त्योऽवसर्पिण्यां हि गौतम ! ।। ६४८ ।। तदारतस्तु यः कश्चिद्, धर्म्मा नास्तीति वक्ष्यत । सङ्घेन गुणसङ्घेन स कार्यः सङ्घतो बहिः । । ६४९ ।।
"
सोऽथ दुष्प्रसह स्वर्गात् च्युतो द्वादशवार्षिकः । प्रव्रजिष्यति तस्याष्टी, समास्तु भविता व्रतम् ।।६५० ।।
नन्दीमावश्यकं चानुयोगद्वाराण्यसौ तथा । दशवैकालिकं जीतकल्पं चाध्येष्यते सुधीः ।।६५१ ।।
स चतुर्दशपूर्बीव, तीर्थस्यास्य प्रवर्त्तकः । शक्रेणार्चिष्यतेऽभीक्ष्णं, लोकपालैश्च भक्तितः । । ६५२ ।। १. नागिला ० ।।
Page #69
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् ।
हस्तद्वयोच्छ्रितं गात्रमायुर्विंशतिवत्सरी ।
तपश्च षष्ठमुत्कृष्टं, सङ्घस्यास्य भविष्यति ।। ६५३ ।।
दुष्षमान्ते स आचार्यो, विपद्याष्टमभक्तभृत् । सौधर्मे त्रिदशो भावी, विमाने सागराभिधे ।।६५४ ।।
च्युत्वा तस्मादसौ प्राप्य, भरतेऽत्र मनुष्यताम् । चारित्रं निरतीचारमाचर्य शिवमेष्यति ।।६५५ ।। धर्मस्या यमे छेदस्तत्राचार्ये दिवंगते । राजधर्म्मस्य मध्याह्ने, परानेऽग्नेर्भविष्यति । । ६५६ ।।
इत्युक्ता दुष्षमा वर्षसहस्राण्येकविंशतिः । श्रूयतां गौतमेदानीं तावत्येवातिदुष्षमा । । ६५७ ।।
,
नष्टे धर्म्मादिके भावी, हाहाभूतो भयानकः 1 कालः षष्ठारके मातृपुत्रादिस्थितिवर्जितः । । ६५८ ।। वास्यन्ति वायवोऽनिष्टाः परुषाः पांशुवर्षिणः । दिवानिशं दिशो धूमायिष्यन्ते भीषणात्मिकाः ।।६५९ ।। अतिशीतं शशी स्रक्ष्यत्यादित्यश्चातितप्स्यति । शीतवातातपक्लान्तो, जनोऽतिक्लेशमाप्स्यति ।।६६० ।।
वर्षिष्यन्ते तदाऽत्यर्थं, क्षाराम्लाख्या घनाघनाः । विषाग्निविद्युदाख्याश्च, स्वस्वनामानुसारि कम् ।।६६१ ।। येन स्पृष्टेन पीतेन, जनानां भाविनो घनाः 1 शिरोऽर्त्तिश्वासशूलार्शः कासश्वासादयो गदाः ।।६६२ ।।
,
तृणगुल्मलतादीनां भविष्यति ततः क्षयः । नृतिर्यञ्चो भविष्यन्ति तथा सर्वेऽपि दुःखिताः । । ६६३ ।।
६५
Page #70
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् । वैताढ्यर्षभकूटाद्री, गङ्गासिन्धू च निम्नगे । मुक्त्वाऽन्यद् गिरिगर्तादि, भविष्यति समं समम् ।।६६४ ।। भस्मरूपा तदा भूमिर्मुर्मुराङ्गारसन्निभा । कदाचित्कर्दमाकीर्णा, कदाचिद् वह्निदुर्गमा ।।६६५ ।। विद्यन्ते चोपवैताढ्यं, गङ्गासिन्धोस्तटे तटे । बिलानि नव सर्वाणि, द्वियुक्ता सप्ततिस्ततः ।।६६६ ।। तत्र स्थास्यन्ति ते माः, कुवर्णाः कर्कशक्तियः । क्रोधनाश्च कुसंस्थाना, एकहस्तसमुच्छ्रयाः ।।६६७।। निर्वस्त्रा निस्त्रपाः क्रूरा, नरा नार्यश्च भाविनः । विंशत्यब्दी नृणामायुः, स्त्रीणां षोडशवत्सरी ।।६६८ ।। तदाऽतिदुःखप्रसवा, षड्वर्षोंदरिणी तथा । अनेकपुत्रपौत्रा स्त्री, वृद्धा षोडशवार्षिकी ।।६६९ ।। मांसासिनो मनुष्यास्ते, निष्कृपा निर्विवेककाः । बीजमात्रं तु तिर्यञ्चस्तदा तत्रैव भाविनः ।।६७०।। गङ्गासिन्धुसरितोयं, तदा रथपथप्रमम् । प्रवक्ष्यति तथा मत्स्यनक्रचक्रकुलाकुलम् ।।६७१।। रात्रौ तत्रैत्य मत्स्यादीन्, कृष्ट्वा मोक्ष्यन्ति ते स्थले । दिवाळतापपक्वांस्तान्, भोक्ष्यन्ते च निशान्तरे ।।६७२ ।। ते कृत्वेत्यघमेष्यन्ति, तिर्यक्षु नरकेषु च । षष्ठोऽरो भवितेत्यब्दसहस्राण्येकविंशतिम् ।।६७३।। यादृशाववसर्पिण्यामन्त्योपान्त्याविमावरौ । तावन्तौ तादृशावुत्सर्पिण्यामाद्यद्वितीयको ।।६७४ ।।
Page #71
--------------------------------------------------------------------------
________________
६७
श्रीश्रेणिकचरित्रम् । तत्र प्रथमकारान्ते, पञ्चाप्येते घनाघनाः । सप्त सप्त दिनान्यत्र, वर्षिष्यन्ति पृथक् पृथक् ।।६७५ ।। ते च पुष्करदुग्धाज्यपीयूषरसनामकाः । भूशैत्यधान्यसुस्नेहौषधीरसविधायिनः ।।६७६ ।। द्रुमौषधिलतादीनि, निरीक्ष्य बिलवासिनः । निर्यास्यन्ति बिलेभ्यस्ते, हृष्टा गुप्तिगृहादिव ।।६७७ ।। वक्ष्यन्तीतः परं मांसं, न भक्ष्यं यस्तु भक्षिता । स त्याज्योऽन्त्यजवच्चेति, करिष्यन्ति व्यवस्थितिम् ।।६७८ ।। कालो यथा यथा गामी, वर्धिष्यन्ते तथा तथा । वपुः शक्तिसुखायूंषि, धनधान्यादिकानि च ।।६७९ ।। यादृक्षे भरतेऽमुष्मिन्, कालस्तादृक्ष एव हि । अन्येषु भरतेष्वैरवतेष्वपि च सर्वदा ।।६८०।। ततः कुलकरा: सप्त, दुष्षमान्तेऽत्र भारते । भाविनो गौतमैतेषामाद्यो विमलवाहनः ।।६८१ ।। द्वैतीयीकः सुदासाख्यस्तृतीयः सङ्गमाभिधः । तुर्यः सुपार्श्वनामा च, पञ्चमो दत्तनामकः ।।६८२ ।। षष्ठस्तु सुमुखाभिख्या, संमुचिश्चेति सप्तमः । पूर्वोऽमीषां पुनर्भावी, जातजातिस्मृतिः स तु ।।६८३ ।। संग्रहीष्यति हस्त्यादीन्, ग्रामादीन् रचयिष्यति । नीतिशिल्पकलादींश्च, प्रजानां दर्शयिष्यति ।।६८४ ।। इत्युक्तं दुष्षमादीनां, स्वरूपं तव गौतम ! । शलाकापुरुषानेवं, भाविनस्त्वधुना शृणु ।।६८५।।
Page #72
--------------------------------------------------------------------------
________________
६८
श्रीश्रेणिकचरित्रम् । सप्ताब्दपञ्चमास्यां चतुरशीतौ च गौतम ! । वत्सराणां सहस्रेषु, गतेषु मम निर्वृतेः ।।६८६।। उत्सर्पिण्यास्तृतीयारे, भविष्यन्त्या गतेष्विह । सार्धेष्वष्टसु मासेषु, त्रिषु संवत्सरेषु च ।।६८७ ।। अत्रैव पुण्ड्रदेशेषु, शतद्वाराभिधे पुरे । संमुचेर्नृपतेः पत्नी भद्रानाम्नी भविष्यति ।।६८८ ।। तदा श्रेणिकराड्जीवो, भयात् कूणिकभूपतेः । भुक्त्वा तालपुटं रत्नप्रभायामुदपादि यः ।।६८९ ।। तत्राद्यप्रस्तटे सीमन्तके च नरकेन्द्रके । आयुश्चतुरशीत्यब्दसहस्राण्यतिवाह्य सः ।।६९०।। तत्तत्प्रभावनाप्राप्तप्राज्यपुण्यप्रभावतः । विश्वं विश्वं समुद्धर्तुमिव दुर्गमदुर्गतः ।।६९१ ।। समुद्धृत्य ततो मासे, शुचौ पक्षे सिते तथा । निशीथसमये षष्ठ्यां , चन्द्रे हस्तोत्तरागते ।।६९२ ।। ज्ञानत्रयपवित्रात्मा, त्राता त्रिजगतामपि । देव्यास्तस्याः सुतत्वेन, कुक्षाववतरिष्यति ।।६९३ ।। भद्रा प्रशस्तसम्पूर्णदोहदा समये सुतम् । चैत्रशुद्धत्रयोदश्यां, निशीथे जनयिष्यति ।।६९४ ।। विधिवदिक्कुमारीभिः, सूतिकर्मणि निर्मिते । जिनेन्द्रं स्नपयिष्यन्ति, सुमेरौ सर्ववासवाः ।।६९५ ।। पद्मगर्भसमाङ्गस्य, तस्य जन्मोत्सवं पिता । विधायाधास्यते पद्मनाभ इत्यभिधां शुभाम् ।।६९६ ।।
Page #73
--------------------------------------------------------------------------
________________
श्रीश्रेणिकचरित्रम् । निवेशयिष्यते राज्ये, पितृभ्यां सोऽष्टवार्षिकः । पूर्णभद्राभिधोऽन्येधुर्माणिभद्राभिधस्तथा ।।६९७ ।। महर्धिको सुरौ तस्य, सेनानीत्वं करिष्यतः । ततोऽस्य भावि नामान्यत्, देवसेन इति स्फुटम् ।।६९८ ।। श्वेतवर्णश्चतुर्दतो, विमलः शङ्खकुन्दवत् । करिरत्नं महामानं, भविता चास्य वाहनम् ।।६९९ ।। वक्ष्यतेऽसौ ततो लोकैर्नाम्ना विमलवाहनः । इति नामत्रयख्यातश्चिरं राज्यं करिष्यति ।।७००।। दत्त्वाऽसौ वार्षिकं दानं, पित्रोर्गतवतोर्दिवम् । दशम्यां मार्गशीर्षस्य, कृष्णायां प्रव्रजिष्यति ।।७०१ ।। विहत्य सातिरेका स, द्वादशाब्दी प्रथमोऽर्हन् । राधशुद्धदशम्यां तु, लप्स्यते केवलश्रियम् ।।७०२ ।। सप्रतिक्रमणं धर्ममचेलं पञ्चयामिकम् । यथाऽहं कथयामास, कथयिष्यत्यसौ तथा ।।७०३।। मया यथा महाराजा, अष्टौ प्रव्राजिता: किल । प्रवाजिष्यति स तथा, पद्मनाभजिनोऽपि हि ।।७०४।। स्वर्णरुक् सप्तहस्तोच्चस्त्रिंशद्वर्षाणि केवली । विहत्य दर्शयामिन्यां, कार्तिके शिवमेष्यति ।।७०५।। मत्तुल्योऽयं यथा भावी, वर्णमानादिना जिनः । पार्धादिसदृशोऽन्येऽपि, प्रतीपं भाविनस्तथा ।।७०६ ।। तेषां नामानि कथ्यन्ते, जीवाः पूर्वभवेषु च । तत्र जीवः सुपार्थस्य, सुरदेवो द्वितीयकः ।।७०७ ।।
Page #74
--------------------------------------------------------------------------
________________
७०
श्रीश्रेणिकचरित्रम् । तृतीयोऽर्हन् सुपार्थाख्यो, जीव: पोट्टिलकस्य तु । तुर्यः स्वयम्प्रभाभिख्यो, जीवो दृढायुषः पुनः ।।७०८ ।। पञ्चमः कार्तिकजीवः, सर्वानुभूतिनामकः । जिनो देवश्रुतो नाम, जीवः शङ्खस्य षष्ठकः ।।७०९ ।। उदयाख्यो जिनो भावी, नन्दजीवस्तु सप्तमः । जीवः सुनन्दसंज्ञस्याष्टम: पेढालनामकः ।।७१०।। जिनेन्द्रः कैकशीजीवो, नवमः पोट्टिलः पुनः । जीवो रेवतिनाम्नस्तु, शतकीर्त्तिर्दशमोऽर्हन् ।।७११।। जीव: सत्यकिसंज्ञस्यैकादश: सुव्रतो जिनः । कृष्णस्य शीरिणो जीवोऽममाख्यो द्वादशो जिनः ।।७१२ ।। बलदेवस्य जीवोऽर्हनिष्कषायस्रयोदशः । रोहिणीश्राविकाजीवो, निष्पुलाकश्चतुर्दश ।।७१३।। निर्ममः सुलसायास्तु, जीवः पञ्चदशो जिनः । रेवतीश्राविकाजीवश्चित्रगुप्तस्तु षोडशः ।।७१४ ।। जीवो गवालिनाम्नस्तु, समाधिः सप्तदशोऽर्हन् । जीवो गागलिसंज्ञस्याष्टादश: संवराभिधः ।।७१५।। जीवो द्वीपायनस्यैकोनविंशोऽर्हन् यशोधरः । जीवः कर्णस्य विंशस्तु, विजयाख्यो जिनेश्वरः ।।७१६ ।। जीवस्तु नारदस्यैकविंशो मल्लाभिधो जिनः । अंबडस्य तु जीवोऽर्हन्, द्वाविंशो देवनामकः ।।७१७।। त्रयोविंशो जिनोऽनन्तवीर्यो द्वारमदस्य तु । जीवः स्वातेः पुनर्जीवश्चतुर्विंशोऽत्र भद्रकृत् ।।७१८ ।।
Page #75
--------------------------------------------------------------------------
________________
७१
श्रीश्रेणिकचरित्रम् । चक्रिणोऽपि तथैवामी, दीर्घदन्ताभिधोऽग्रिमः । द्वितीयो गूढदन्ताख्यः, शुद्धदन्तस्तृतीयकः ।।७१९ ।। तुर्यः श्रीचन्द्रनामा तु, श्रीभूतिरिति पञ्चमः । सोमाभिधानकः षष्ठः, सप्तमः पद्मनामकः ।।७२०।। अष्टमस्तु महापद्मो, नवमो दर्शनाह्वयः । दशमो विमलश्चैकादशो विमलवाहनः ।।७२१।। द्वादशोऽरिष्ठनामा तु, नवामी त्वर्धचक्रिणः । नन्दिश्च नन्दिमित्रश्च, तथा सुन्दरबाहुकः ।।७२२ ।। महाबाहुरतिबलो, महाबलो बलस्तथा । द्विपृष्ठश्च त्रिपृष्ठश्च, बलदेवास्त्वमी नव ।।७२३।। बलश्च वैजयन्तश्चाजितो धर्मश्च सुप्रभः । तथा सुदर्शनानन्दौ, नन्दनः पद्म इत्यपि ।।७२४ ।। तिलको लोहजङ्घश्च, वज्रजङ्घश्च केसरी । बलिः प्रह्लादनामा च, तथाऽपराजिताभिधः ।।७२५।। भीमः सुग्रीवनामा च, नवामी प्रतिविष्णवः । शलाकापुरुषा एते, त्रिषष्टिरिति भाविनः ।।७२६।। पृष्टमागामिकालादिस्वरूपं यत्त्वया किल । इन्द्रभूते ! तवाग्रे तद्, तन्मयेति प्ररूपितम् ।।७२७ ।। श्रुत्वेति गौतमो वीरं, ववन्दे प्रभुरप्यथ । कार्तिके दर्शयामिन्यां, जगाम पदमव्ययम् ।।७२८ ।।
Page #76
--------------------------------------------------------------------------
________________
७२
श्रीश्रेणिकचरित्रम् ।
।। शार्दूल ।। इत्युच्चैर्जिनशासनोन्नतिगतं तीर्थेश्वरत्वं फलं, ज्ञात्वा श्रेणिकभूपतेरविरतस्याप्युत्तमं सर्वथा । भव्या ! भक्तिभरावनम्रतनवः कुर्व्वीध्वमेनां मुदा, येन स्यादचिरेण वोऽपि सुलभा सर्व्वज्ञता निश्चितम् ।।७२९ ।।
इति श्रीअविच्छिन्नशासनस्वरूपतपोगच्छदिनमणिश्रीदेवेन्द्रसूरिसूत्रितं श्रीश्रेणिकचरित्रम् ।
Page #77
--------------------------------------------------------------------------
________________
'પ.પૂ. તત્ત્વપ્રવચનપ્રજ્ઞ સરળસ્વભાવી ગુરુ મહારાજ આચાર્ય ભગવંત શ્રીમદ્ વિજય રત્નચન્દ્રસૂરીશ્વરજી મહારાજ સાહેબ (ડહેલાવાલા).
Page #78
--------------------------------------------------------------------------
________________ : लाभार्थी : श्री सरेलावाडी जैन संघनी बहेनो-सुरत COMC જીવનનો પ્રાણ છે. शाय ગુરુરામ જિષ્ણુતાબ્દી // वि.सं. 1873 थी 2073 // BHARAT GRAPHICS - Ahmedabad-1 | Ph.: 079-22134176, M : 9920020106 8P ODAY CHAR SHREE RATU ABLE TRUS सूरिराम स्मरण माला : 61 : प्रकाशक: श्री रत्नोदय चेरिटेबल ट्रस्ट