________________
श्रीश्रेणिकचरित्रम् । तिक्तौषधरसास्वादो, यद्वदारोग्यकारणम् । सुमंगलाट्टहासो मे, तद्वद् वैराग्यकारणम् ।।२१।। ज्ञात्वा श्येनकमायातं, सुमंगलनृपोऽपि हि । तं प्रणन्तुं ययौ हृष्टस्तपसा को न हृष्यति ? ।।२२।। क्षमयित्वा च नत्वा च, भूपतिः प्रीतमानसः । न्यमन्त्रयत् तं तन्मासः, पारणाय कृतादरः ।।२३।। श्येनकस्तद्वचो मेने, ययौ राजा स्वमंदिरे । मासान्ते पारणायागात्, श्येनकोऽपि नृपौकसि ।।२४।। तदा च महदस्वास्थ्यमभूभूमिपतेस्तनौ । राजलोकस्ततो व्यग्रस्तमृषि कोऽपि नैक्षत ।।२५।। क्षणं स्थित्वा निवृत्त्याथ, श्येनकोऽकृतपारण: । द्वितीयं मासक्षपणं, कर्तुं प्राविशदुष्ट्रिकाम् ।।२६।। राजाऽथ स्वस्थतां प्राप्तः, स्मृत्वा च स्वनिमन्त्रणम् । तत्काशसुमवन्मोघं, मत्वाऽनिन्दद् भृशं स्वकम् ।।२७।। विषण्णात्मा ततो गत्वा, श्येनकस्यान्तिकं द्रुतम् । तं नत्वा गद्गदध्वानो, व्यजिज्ञपदिदं नृपः ।।२८।। यथा दातुः प्रियालापः, स्यादन्यत्रापि विघ्नकृत् । तथा मे मंदभाग्यस्य, बभूवेदं निमन्त्रणम् ।।२९।। तथापि मम दीनस्य, क्षमस्वैतत् क्षमानिधे ! । प्रसद्य चानुमन्यस्व, मद्गेहेऽदोऽपि पारणम् ।।३०।। अनुनीतो नृपेणैवं, प्रपेदे श्येनकोऽपि तत् । ततो नत्वा गृहेऽगच्छन्मुदितो मेदिनीपतिः ।।३१।।