________________
८
ययौ यावत् तपस्व्येष, संप्राप्ते पारणाहनि । नृपीकस्तावदास्थानमभूत्तस्य महत्तरम् ।। ३२ ।। तथैव विनिवृत्त्यासौ, पुनः प्राविशदुष्ट्रिकाम् । तं चानुनेतुं तत्रागात्, स्वस्थीभूतः सुमंगलः ।।३३।। मुञ्चन्न श्रान्तमश्रूणि, नत्वोचे तमृषिं नृपः ।
भगवन् ! भवतामेवं धिग्मां दुष्कर्म्मकारिणम् ।।३४।।
,
श्रीश्रेणिकचरित्रम् ।
सर्वंसहावदाराध्याः, सदा सर्वंसहा मयि । तत्प्रसद्यानुगृह्णन्तु, पारणेनाधुनाऽपि माम् ।।३५।। प्रपेदे नृपदाक्षिण्यात्, तृतीयमपि पारणम् । श्येनकर्षिस्ततो राजा, धन्यंमन्यो गृहं ययौ ।। ३६ ।। पूर्णेऽथ मासक्षपणे, यावत्तत्र ययावृषिः । बृहत्तरतमं तावद्, राज्ञोऽस्वास्थ्यमजायत ।। ३७।। राजलोकस्त्विदं दध्यावयमेति यदा यदा । तदा तदा महीभर्तुः, सहसा जायते रुजा ।।३८।। इति तैः श्येनकः क्रुद्धैर्यष्टिलोष्टादिभिर्भृशम् । यथेष्टं कुटितो गेहे, प्रविष्ट इव तस्करः ।। ३९ ।।
संचूर्णितसमस्ताङ्गश्चिन्तयामास चेतसि । नूनं सुमंगलो राजा, मत्सरी मयि सर्वदा ।। ४० ।। भवान्तरेऽस्य भूयासं, वधाय तपसाऽमुना । निदायेति विपद्याभूदल्पर्धिर्व्यन्तरोऽथ सः ।।४१।।
गृहीत्वा तापसीं दीक्षां, सुमंगलनृपोऽपि हि । कालेन मृत्वा भूत्वा च व्यन्तरः स ततश्च्युतः ।। ४२ ।।