SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ पिङ्गकेशशिराः शृंगज्वलद्वह्निरिवाचलः । मार्जार इव पिंगाक्षः, कपिवच्चीननासिकः ।।१०।। मयवल्लंबकंठोष्ठश्चाखुवल्लघुकर्णकः । स्थूलोदरो विना व्याधिं दकपूर्णो दृतिर्यथा । 199 ।। , हस्वोरुर्वामन इव, दुष्कर्म्मविनियोगतः । मंडलस्थानसंलीढयोधवद् वक्रजंघकः ।। १२ । शूर्पवत् स्थूलगुल्फश्च, मंत्रिसूः श्येनकाभिधः । सुमंगलकुमारस्य, क्रीडामित्रमभूत् सदा ।।१३।। चतुर्भिः कलापकं ।। कुमारस्य सभामेति, वराक: स यदा तदा । वक्रोक्त्या राजपुत्रस्तमुपहासास्पदं व्यधात् ।।१४।। सुमंगलकुमारेण, हस्यमानो दिने दिने । वैराग्यं श्येनको भेजे, दु:खगर्भं विमूढधीः ।।१५।। गत्वा देशान्तरे कस्मिन् परिव्राजकसन्निधौ । जग्राह दुःखभीर्दीक्षामुष्ट्रिकाभिग्रहान्विताम् ।।१६।। सुमंगलकुमारोऽथ, पित्रा राज्ये निवेशितः । प्रौढपुण्यप्रभावेण, प्राज्यं साम्राज्यमन्वशात् ।।१७।। श्येनकोऽपि परिभ्राम्यन्, देशाद्देशं पुरात्पुरम् । वसंतपुरमभ्यागात्, तपस्यन् दुस्तपं तपः ।। १८ ।। तपस्वी मंत्रिपुत्रश्च पूर्वसंस्तुत इत्यपि । पौरास्तं पूजयामासुरर्घदानादिभिर्भृशम् ।।१९।। श्रीश्रेणिकचरित्रम् । अपृच्छंश्च सनिर्बन्धं मूलवैराग्यकारणम् । सोऽपि माध्यस्थ्यमास्थाय कथयामासिवानिदम् ।। २० ।। ,
SR No.022631
Book TitleShrenik Charitram
Original Sutra AuthorN/A
AuthorRajdarshanvijay
PublisherRatnoday Charitable Trust
Publication Year
Total Pages78
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy