________________
श्रीतपोगच्छगगनभानुश्रीदेवेन्द्रसूरिसूत्रितं श्री श्रेणिकचरित्रम् ।
ज्ञातमात्रं जगज्ज्ञातमाहत्याख्ये महाफले । श्रेणिकोऽपि नृपो येन, तत्कथाऽत: प्रपञ्च्यते ।।१।। अस्त्यत्र भरतक्षेत्रे, कुशाग्रपुरपत्तनम् । कुशाग्रीयमतिस्तत्र, प्रसेनजिदिलापतिः ।।२।। हस्त्यश्वरथपत्त्यादि, शोभायै तस्य केवलम् । चिच्छिदेऽरितमः स्वस्य, प्रतापतपनांशुभिः ।।३।। चित्ते शीलं करे दानं, तपोऽङ्गे हृदि भावनाम् । बिभ्रत् स राजा शुशुभे, जैनधर्म इवाङ्गवान् ।।४।। श्रीपार्धनाथसत्तीर्थे, तस्य भूपस्य निश्चला । बभूव भूयसी भक्तिः, कम्बले जतुरागवत् ।।५।। अद्वैतेश्वर्यसौंदर्यवर्यस्यास्य महीपतेः । गरीयानवरोधोऽभूद्दिवीव दिविषत्पतेः ।।६।। पृथग्राज्ञीभवास्तस्य, सूनवः शतशोऽभवन् । रूपादिगुणसंयुक्तास्तन्मूर्तय इवापराः ।।७।। इतश्चात्रैव भरते, वसंतपुरपत्तने । जितशत्रुरभूद् राजा, प्रतापी न्यायविश्रुतः ।।८।। तस्यामरवधूरम्भाऽभूद् भार्याऽमरसुन्दरी । मूर्त्याऽमरकुमाराभः, कुमारश्च सुमंगलः ।।९।।