SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ तत्त्वप्रधाना धीसाध्या चर्याऽपि सरलभाषया बालानपि प्रतिबोधयति दृश्यतां १६२ - १६८ तमानि पद्यानि । इत्याद्यर्थवैशिष्ट्यविभूषितवर्णन मण्डितोऽयं ग्रन्थः राराजते । पूज्याचार्य श्रीरामसूरीश्वराणाम् जीवनस्य शततमवर्षानुसन्धाने तेषाम् प्रियतमस्वाध्याययोगान्तर्गतस्य अस्य ग्रन्थस्य पुनः प्रकाशनम् पूज्याचार्यश्रीरत्नचन्द्रसूरीश्वराणाम् शिष्यपुङ्गवाभ्याम् गणि-उदयरत्नविजय-मुनिराजदर्शनविजयाभ्याम् क्रियते । जैनशासनस्य महापुरुषाणाम् जीवनपर्याय - संयमपर्यायादि किमपि निमित्तमासाद्य ईदृशा उत्तमग्रन्थाः प्रगटीक्रियन्ते इत्येतदमन्दाऽऽनन्दविषयोऽस्ति । | द्वाभ्यां मुनिपुङ्गवाभ्याम् पुरापि प्रभूता उपयोगिग्रन्थाः प्राकाश्यमानीताः अग्रेऽपि प्रभुः मुनिपुङ्गवाभ्याम् ग्रन्थप्रकाशनम् कारयतु इति परमप्रभुप्रार्थनापुरःसरम् धन्यवादः । अपरश्च धन्यवादो यदस्य ग्रन्थस्य प्रास्ताविकं लेखितुं श्रुतभक्तिं च कर्तुं मह्यमवसरप्रदतः तदर्थे मुनियुगलाय । विक्रमाब्द २०७१ अधिकाषाढ कृष्णा नवमी पादलिप्तपुरे कस्तूरधामे - हेमप्रभसूरिः
SR No.022631
Book TitleShrenik Charitram
Original Sutra AuthorN/A
AuthorRajdarshanvijay
PublisherRatnoday Charitable Trust
Publication Year
Total Pages78
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy