________________
श्रीश्रेणिकचरित्रम् । उपभुक्तं सकृद्धन्याविषं हि विषयाः पुनः । चिन्तिता अपि जीवानां, हन्युर्जन्मशतान्यपि ॥१९७।। औत्सुक्यं प्रथमं कुर्युर्मध्ये दीप्तादिकान् रसान् । अन्ते बीभत्सलज्जादीन, स्वास्थ्यं त्वेते कदापि न ।।१९८॥ शब्दादिविषयासक्तो, जनः स्वार्थकतत्परः । विश्वस्तं वत्सलं चापि, हन्यान् मां चेल्लणा यथा ।।१९९।। तदलं दुःखदैरेभिः, परायत्तैर्विनश्वरैः । स्वाधीनं सुस्थिरं धर्म, ग्रहीष्यामि सुखास्पदम् ।।२००।। सुज्येष्ठा भावयित्वैवं चन्दनार्यापदान्तिके । प्रव्रज्यां शिवसाम्राज्यदयिकामाददे सुधीः ।।२०१।। श्रेणिकोऽपि व्रजन्मार्गे, सादृश्याच्चेलणां प्रति । सुज्येष्ठे ! वद धीश्रेष्ठे ! भाषते स मुहुर्मुहुः ।।२०२।। साऽप्यवोचदहं स्वामिन् !, सुज्येष्ठाया: कनीयसी । चेल्लणेत्यथ सोऽप्यूचे, खण्डस्थाने सिताभवत् ।।२०३ ।। श्रेणिकः स्वपुरं गत्वा, तामुद्वाह्य प्रमोदतः । पट्टराज्ञीपदेऽकार्षीद, दमयन्ती नलो यथा ।।२०४।। अथाभयकुमारेण सहितः श्रेणिको नृपः । सुलसानागयोगेंहे, ययौ तद्बोधनेच्छया ।।२०५।। तौ तु स्वसुतवृत्तान्तं, ज्ञात्वाऽऽक्रन्दनतत्परौ । अभयेन बभाषाते, भारत्याऽतिगभीरया ।।२०६।। भो भो विश्वस्थितिषेषा, यद् जातस्य ध्रुवं मृतिः । तद् विश्वविदितेऽत्रार्थे, किं शोकेन विवेकिनाम् ? ॥२०७॥