________________
श्रीश्रेणिकचरित्रम् ।
२७ सहितः साधुसिंहानां, चतुर्दशसहस्रकैः । षट्त्रिंशद्भिश्च साध्वीनां, सहस्रैः परिवारितः ।।२४०।। मज्जन्मुग्धं भवाम्भोधावुद्दिधीषुरिदं जगत् । ग्रामाकरपुराकीर्णा, विहरन्नन्यदा महीम् ।।२४१ ।। बहिस्तन्नगरात्तुङ्गे, गिरौ वैभारनामनि । चैत्ये गुणशीलाभिख्ये, भगवान् समवासरत् ।।२४२ ।। चतुर्भिः कलापकम् ।। ज्ञात्वा श्रीवीरमायातं, तं नन्तुं त्रिजगत्पतिम् । श्रेणिकः सपरीवारो, जगाम जगतीपतिः ।।२४३ ।। विधिवत्तत्र वन्दित्वा, यथास्थानमुपाविशत् । ततो भव्यावबोधाय, जगादेवं जगद्गुरुः ।।२४४ ।। भो भो दुःखी भवारण्ये, पुण्यपाथेयवर्जितः । पान्थवत् सत्पथः भ्रष्टो, बम्भ्रमीत्यसमाश्चिरम् ।।२४५।। श्वभ्रेषु सहतेऽदभ्राः, कुम्भीपाकादिका व्यथाः । तिर्यक्षु च्छेदवेधाङ्कदाहदोहादिकाः पुनः ।।२४६।। मनुष्येषु तु दौर्गत्यरोगशोकभयादिकाः । देवेष्वपि विषादेावियोगच्यवनादिकाः ।।२४७ ।। सहतेऽत्र भवाटव्यां, जीवो दुःखपरम्पराम् । अनन्तान् पुद्गलाव निर्धर्मोऽटाट्यते पुनः ।।२४८ ।। जैनो धर्मस्तदुच्छेत्ता, दाता स्वःशिवसम्पदाम् । आत्मनीना जना ह्येनं, श्रयध्वं शक्तितस्ततः ।।२४९ ।। श्रुत्वैनां देशनां भर्तुर्भूपः सम्यक्त्वमाश्रयत् । अभयाद्याः पुनर्देशविरतिं प्रतिपेदिरे ।।२५०।।