________________
२६
श्रीश्रेणिकचरित्रम् । तस्य चैकाङ्गुली छिन्ना, तदाऽशोकतरोस्तले ।। कुक्कुटेन तदाऽसावरोदीत् सकलां निशाम् ।।२३०।। पूयक्लिन्नां ततो राजा, मुखेऽक्षप्सीत् तदङ्गुलीम् । मनाक् सुखासिकां लेभे, दारकोऽपि मुखोद्भवाम् ।।२३१ ।। अशोकचन्द्र इत्याख्यामदात्तस्मै नृपो मुदा ।। व्यघुः कूणाङ्गुलित्चेन, कूणिकाख्यां तु बालकाः ।।२३२ ।। ततोऽष्टवार्षिकं स्नेहात्, कुमारं कूणिकं नृपः । अध्यापयत् कलाचार्याल्लिप्याद्याः सकला: कलाः ।।२३३।। अथान्यौ चेल्लणादेव्याः, पुण्यवन्तौ दिवश्च्युतौ । सुतौ हल्लविहल्लाख्यौ, जज्ञाते गुणशालिनौ ।।२३४।। 'कल्यवर्त्तकृते गौडमोदकान् कूणिकाय सा । पुनर्हल्लविहल्लाभ्यां, प्राहिणोत् खण्डमोदकान् ।।२३५ ।। प्राग्जन्ममत्सरावेशविवश: कूणिको ह्यदः । तात: कारयते सर्वमिति दध्यौ विमूढधीः ।।२३६ ।। सम्प्राप्तयौवनं तं च, महा पर्यणाययत् । पद्मावत्यभिधां कन्यां, पद्माक्षी नृपनन्दनाम् ।।२३७।। अन्यासामपि राज्ञीनां, श्रेणिकस्य महीपतेः । राज्यश्रीवासवेश्मनि, सूनवो बहवोऽभवन् ।।२३८।। इतश्च श्रीमहावीरः, सर्वज्ञश्चरमो जिनः । सुरासुरनरैः सेव्यः, सर्वातिशयसंयुतः ।।२३९ ।।
१. सर्वत्र कल्प इति दृश्यते किंतु 'कल्य' उचितं प्रतिभासते ।
कल्यवर्त्तकृते-प्रातः कालीन भोजनाय इत्यर्थः ।