SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्रीश्रेणिकचरित्रम् | दुष्कर्म्मणस्तदस्मात् त्वं, विरम क्षेममर्दनात् । एवमुक्तेऽपि तैरेष भावी भृकुटिभीषणः ।। ६०९ ।। पूर्देवता ततोऽवक्ष्यत्, रे रे किं त्वं मुमूर्षसि ? । कल्किन्नकिञ्चनान् पूज्यान्, यदेवं याचसे यतीन् । । ६१० ।। भीतस्ततो मुनीनेष, क्षमयित्वा विमोक्ष्यति । अथोत्पाता भविष्यन्ति, नगरक्षयसूचकाः ।।६११।। तत्र सप्तदशाहानि, वर्षिष्यति घनस्ततः | उद्धृत्य तत्पुरं गङ्गाप्रवाह: प्लावयिष्यति । । ६१२।। तत्र प्रातिपदः सूरिः, सङ्घलोकोऽपि कोऽपि च । स्थाने स्थास्यति कल्की च, पुरलोकोऽपि कश्चन ।।६१३ ।। निवृत्ते च पयःपूरे करिष्यति नवं पुरम् । नन्दद्रव्येण तेनोच्चैः, कल्की केतुरिवोत्कटः । । ६१४ ।। भविष्यन्ति जिनौकांसि चरिष्यन्ति महर्षयः । सुभिक्षं भावि पञ्चाशद्वत्सराणि निरन्तरं । । ६१५ ।। अथासन्नमृतिः कल्की, लिङ्गानि त्याजयिष्यति । सपत्राकृतिपात्रं च करिष्यति कुलिङ्गिनः ।। ६१६।। क्षिप्त्वा प्रातिपदाचार्यं, ससङ्घ वृषवाटके । मार्गयिष्यति भिक्षायाः, षष्ठभागं स दुष्टधीः ।। ६१७ ।। सङ्घः शक्रं समाराद्धं, कायोत्सर्गं विधास्यति । कृतविप्राकृतिः क्षिप्रं ततः सोऽत्रैत्य वक्ष्यति । । ६१८ ।। कल्किन्नरीत्सीः किं साधून, कल्कपङ्काकलङ्कितान् ? । स वक्ष्यति न मे रान्ति, भिक्षाषष्ठांशमप्यमी ।।६१९ ।। 7 ६१
SR No.022631
Book TitleShrenik Charitram
Original Sutra AuthorN/A
AuthorRajdarshanvijay
PublisherRatnoday Charitable Trust
Publication Year
Total Pages78
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy