________________
११
श्रीश्रेणिकचरित्रम् । अथ संहत्य तां मायां, प्रत्यक्षीभूय सोऽमरः । निवेद्येन्द्रकृतां श्लाघामूचे भद्रे ! वरं वृणु ।।६५ ।। जगाद सुलसाऽप्येवं, पतितोषकृते मम । देहि पुत्रमपुत्रायास्ततोऽवादीदिदं सुरः ।।६६ ।। गृहाण गुटिका एता, द्वात्रिंशतमपि क्रमात् । भक्षयेस्ते भविष्यन्ति, पुत्रा द्वात्रिंशदुत्तमाः ।।६७।। ता: समर्प्य पुनः कार्ये, स्मर्त्तव्योऽहं त्वयाऽनघे ! इत्युक्त्वा स ययौ स्वर्गमुत्पत्य गगनाध्वना ।।६८।। सुलसाऽचिन्तयच्चैवं, प्रत्यब्दं प्रसवव्यथाम् । समांसमीनाऽनड्वाहीवत् को ननु सहिष्यति ? ।।६९ ।। देवदत्तास्ततश्चैता, गुटिका एकवेलया । भक्षयामि ततोऽमूभिः, पुत्रो मे भवितोत्तमः ।।७०।। तथैव सुलसा चक्रे, पुत्रा द्वात्रिंशदप्यथ । उत्पेदिरे तदुदरे, नान्यथा दिविषद्वरः ।।७१।। वर्धमानांश्च तान् गर्भान्, सा धर्तुमसहाऽभवत् । प्रभूतफलसंभारमिव वल्ली दिने दिने ।।७२ ।। ततः सस्मार तं देवं, सोऽप्यागत्याब्रवीदिदम् । किं स्मृतोऽहं त्वया भद्रे !, साऽथाचख्यौ निजां व्यथाम् ।।७३ ।। बभाषेऽनिमिषोऽप्येवं, त्वया साधु कृतं नहि । .. द्वात्रिंशदपि ते पुत्रा, भविष्यन्ति समायुषः ।।७४ ।। दैवानुभावतः पीडां, सोऽपहत्य तिरोदधे । कालेन सुलसाऽसूत, सुतान् द्वात्रिंशतं वरान् ।।७५।।