________________
१२
श्रीश्रेणिकचरित्रम् । धन्यंमन्योऽथ नागोऽपि, पुत्रजन्मोत्सवं व्यधात् । पुत्रान् प्रीत्या पृथग् धात्रीपञ्चकैः पर्यपालयत् ।।७६।। अङ्केऽथ हृदि पृष्ठे च, स्कन्धयोस्तैः समाश्रितः । नागोऽभादर्भकारूढः, फलेग्रहितरुर्यथा ।।७७ ।। सुखेनोपकलाचार्यमधीत्य सकलाः कलाः । उद्यौवना बभूवुस्ते, श्रेणिकस्यानुयायिनः ।।७८ ।। प्रसेनजिन्महीनाथो, राज्यार्हत्वं परीक्षितुम् । भुजानानां स्वपुत्राणां, सूदेनामोचयच्छुनः ।।७९ ।। नेशुः सर्वेऽपि राजन्याः, श्रेणिकस्त्वात्मनोऽभितः । तत्पात्राण्यन्तरा चक्रे, बुभुजे च यथासुखम् ।।८।। राजा पुन: परीक्षार्थं, मोदकानां करण्डकान् । ददौ निजकुमाराणां, पयः कुम्भांश्च मुद्रितान् ।।८१ ।। इमां मुद्रामभिन्दाना, यूयमश्नीत मोदकान् । तथैव पिबताम्भश्च, पुत्रानित्यादिदेश च ।।२।। कुमारा बलवन्तोऽपि, भोक्तुं पातुं च नाशकन् । बुद्धिसाध्येषु कार्येषु, कुर्युरुर्जस्विनोऽपि किम् ? ।।८३।। श्रेणिकस्तु गृहे नीत्वा, तं मोदककरण्डकम् । चालं चालं क्षरच्चूर्णं, स्वर्णस्थालस्थमाशिवान् ।।८४ ।। धृत्वा रूप्यमयीं शुक्तिं, तत्पयाकुम्भबुध्नके । गलद्वार्बिन्दुपूर्णां तामुत्पाट्य च पयः पपौ ।।८५।। सर्वमेतत्परिज्ञाय, हृदये धृतवान्नृपः । तदा च नगरे तत्रासकृद् जज्ञे प्रदीपनम् ।।८६।।