SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्रीश्रेणिकचरित्रम् । प्रव्रजिष्यन्ति राजानस्त्यक्त्वा राज्यं कियच्चिरम् । अभय: संदिदेहवं, शुद्धात्मबुद्धिसेवधिः || ४७९ ।। इतश्च श्रीमहावीरः, प्रव्राज्योदायनं नृपं । मरुमण्डलतस्तत्राभ्यागत्य समवासरत् ।।४८० ।। दिष्ट्याऽद्य भगवानागात्, संशयोच्छेदहेतवे । ममैव केवलस्यायमिति हृष्टोऽभयस्ततः ।। ४८१ ।। तत्र गत्वाऽऽशु वन्दित्वा पप्रच्छ परमेश्वरम् । राजर्षिः कोऽन्तिमोऽथाख्यत्, स्वामी नृपमुदायनम् ।।४८२ ।। भगवन्तं ततो नत्वाऽभ्येत्य श्रेणिकसन्निधौ । प्रोचे प्रणम्य पर्याप्तं मम राज्येन सर्वथा ।। ४८३ ।। " तात ! नाम्नाऽभयोऽहं तु, सभयः स्वामिवाक्यतः । यदि राजा ततो नर्षिरित्याचख्यौ जगद्गुरुः । । ४८४ ।। तात ! त्वदङ्गजस्यापि शिरःस्थे त्रिजगत्पतौ । प्रव्रज्या यदि मे न स्यात्, मत्तः कोऽन्योऽधमस्ततः ? ।।४८५ ।। तदलं भम राज्येन, व्रतविघ्नकृता ततः । राजोचे मामनापृच्छ्य, प्रव्राजीर्मा कदापि हि ।।४८६ ।। मेने तदा पितुर्वाक्यं प्रविव्रजिषुरप्यसौ । " उत्सुका अपि धीमन्तो, गुर्वाज्ञां खण्डयन्ति न । । ४८७ ।। शीतर्त्तावन्यदा राजाऽपराह्णे चेल्लणायुतः । कम्मरिवीरं श्रीवीरं वन्दितुं विधिवद्ययौ ।।४८८ ।। > ४९ वन्दित्वा श्रीमदर्हन्तं, वलितौ तौ तु दम्पती । जलोपान्ते ददृशतुः, श्रमणं प्रतिमास्थितम् ।।४८९ ।।
SR No.022631
Book TitleShrenik Charitram
Original Sutra AuthorN/A
AuthorRajdarshanvijay
PublisherRatnoday Charitable Trust
Publication Year
Total Pages78
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy