________________
श्रीश्रेणिकचरित्रम् ।
२०
भूर्जलं जलजा जीवास्त्रसा भूम्याश्रिता अपि । संख्यातीता विराध्यन्ते, स्नानाय भवतामपि । । १६४ ।। मृत्तिकोदकसंस्पर्शाच्छुध्यन्ति यदि जन्तवः । कुलालः सकुटुम्बोऽपि, तर्हि स्वर्गं व्रजिष्यति । । १६५ ।। चेत् शुध्यन्ति बहिःस्नानादन्तः पापमलीमसाः । तत् शुध्यन्ति ध्रुवं मत्स्यमकराद्या हृदादिषु ।।१६६।। मुग्धे ! पञ्चाश्रवत्यागात्, पञ्चेन्द्रियदमादपि । कषायविजयाद् धर्म्मस्तथा दण्डत्रयोज्झनात् । । १६७।।
इत्यादियुक्तियुक्ताभिर्भारतीभिर्निरुत्तराम् । सुज्येष्ठा तापसीं चक्रे, मौनव्रतपरामिव ।। १६८ ।। दास्यादयो हसन्त्यस्तां, मुखमर्कटिकादिभिः । गेहान्निःसारयन्ति स्म, भिक्षुकीं ग्रथिलामिव ।।१६९।। सुज्येष्ठोपरि सा क्रुद्धा दध्यौ दुधरिमां ध्रुवम् । क्षेप्स्यामि पण्डितंमन्यां, सपत्नीदुःखसागरे ।1 १७० ।। आलिख्य चित्रपट्टे च तद्रूपं श्रेणिकाय सा । उपनिन्ये स तां वीक्ष्यापृच्छत् केयं वराकृति: ? ।।१७१ ।।
साSSख्यच्चेटकराजस्य, सुज्येष्ठानामिका सुता । इमा लक्ष्मीपतिर्लक्ष्मीमिवोद्वोढुं त्वमर्हसि ।।१७२ ।।
ततस्तां याचितुं प्रैषीद्वैशाल्यां श्रेणिको नरान् । सुज्येष्ठां याचितः पुम्भिश्चेटकोऽप्येवमब्रवीत् ।।१७३ ।।
कथं वाहीकवंश्योऽयं, कन्यां हैहयवंशजाम् । स्वीकर्तुं श्रेणिको वाञ्छेद् बको हंसीमिवामतिः ? । । १७४ । ।