________________
१६
भूयानपि जनोऽभ्यागादादातुं स्वकरेण ताम् ।
किन्तु कुब्ज इवाशक्तः फलमत्युच्चशाखिनः ।। १२० ।।
इतश्च तस्या नन्दायाः, अन्यदा दोहदोऽभवत् । रान्ती दानं गजारूढा भ्रमाम्यभयदा पुरे ।। १२१।।
"
"
पित्रा नृपमनुज्ञाप्य तस्याः सोऽपूरि दोहद: । कालेनासूत सा सूनुं, रत्नं वैडूर्यभूरिव ।।१२२ ।।
कृत्वा मातामहस्तस्य, महान्तं जननोत्सवम् । सूनोरभय इत्याख्यां दोहदानुसृतेर्ददौ ।।१२३॥
"
,
श्रीश्रेणिकचरित्रम् |
ववृधे लाल्यमानोऽसौ धात्रीभिः पञ्चभिः क्रमात् । रूपलावण्यसौभाग्यैः, कलाभिर्नव्यचन्द्रवत् । । १२४ ।। कलाचार्यस्य भद्रेणार्पितो भद्रदिने सूनुः ।
द्राक् तेनाबोधि दीपेन, दीपवत् सकलाः कलाः । । १२५ ।।
विनीतमुद्यतं शान्तं धीमन्तममितौजसम् । गुरुस्तमिति विज्ञाय, प्रशशंस पदे पदे ।। १२६ ।।
एकान्ते तु सहाध्यायी, तमूचे कोऽपि मत्सरी । किं ते गुणान्तरैर्यस्य, पिता विज्ञायते नहि ? ।।१२७।।
अभयोऽप्याह भद्रो मे पिताऽस्ति विपणौ स्थितः । स प्राह ननु ते मातुः, पिता भद्रो न ते पुनः ।। १२८ ।। गत्वोपनन्दमानन्दमुक्तो नान्देय ऊचिवान् ।
ब्रूहि मातः ! पिता को मे ?, साऽपि भद्रमचीकथत् ।। १२९ ।।
अभयोऽप्यभ्यधाद् भूयो, ननु भद्रः पिता तव । यथाज्ञातमनाबाधं, तातः को मे ? निवेद्यताम् ।। १३० ।।