________________
श्रीश्रेणिकचरित्रम् ।
यदा प्रसन्नचन्द्रर्षिः ववन्दे मयका तदा
'
कालं कुर्यात्ततः कां स, गतिमासादयेद् विभो ! ।।३०६ ।।
स्वाम्यूचे सप्तमीं पृथ्वीं यायाद् दध्यौ ततो नृपः । अत्युत्कृष्टतपस्कस्याप्यस्य केयं गतिर्मुनेः ? ।।३०७।।
क्षणं स्थित्वा पुनः पृष्टे, नृपेण प्रभुरभ्यधात् । याति सर्वार्थसिद्धिं स विपद्येताधुना यदि ।। ३०८ ।।
विस्मितो नृपतिर्नत्वा, पुनः पप्रच्छ सादरम् । स्वामिन् ! आख्याहि को हेतु:, यदियं व्याकृतिर्द्विधा ? ।। ३०९ ।।
स्वाम्याख्यत्तव सैन्यस्याग्रस्थौ सुमुखदुर्मुखी । मय तमृषिमैक्षेतां, तत्रेदं सुमुखोऽभ्यधात् ।। ३१० ।। क्रमेणैकेन कस्तिष्ठेत् ?, कश्चैक्षेतार्कमण्डलम् ? । क्षणार्हमपि तेनायमहो दुष्करकारकः । । ३११।। दुर्मुखोऽथ स्वभावेन, दुर्मुखः सुमुखं जगौ । राजा प्रसन्नचन्द्रोऽयमद्रष्टव्यमुखः खलु ।।३१२।। प्रविव्रजिषुणा येन, स्वराज्ये योजितः शिशुः । महानसि नृशंसेन, न्यासितस्तर्णको यथा ।।३१३।। स्वराज्याच्च्यावितोऽमात्यैः, वातैरिव नगाच्छदम् । विदध्वन्सेऽवरोधश्च शून्यं दुग्धमिवौतुभिः । । ३१४ ।। इत्याकर्ण्य स राजर्षिः स्वपुत्रस्य पराभवम् । देध्मीयमानः क्रोधेन, दध्यौ मोहबलार्दितः । । ३१५ ।।
"
३३
धीसखानधमान् धिग् धिक्, कृतघ्नान् सुदुराशयान् । पराबभूवे यैर्बालो, दुर्बलो बालिशैर्मम ।। ३१६ ।।