________________
३४
ध्यायन्नेवं भृशं साक्षादिव वीक्षाम्बभूव तान् । मनसैव हि संनह्य, युयुधे संयतीव तैः ।।३१७।।
हन्यमाने त्वमानीघे कुन्ताकुन्ति शराशरि । त्वमागास्तत्र तं नन्तुं, स्तुत्वाऽगात् पुरतः परम् ।।३१८ ।।
न चाज्ञायि तदा तेन त्वमायातोऽपि भूपते ! । चेतनस्य हि चैतन्यमनुचित्तं महाचलम् ।। ३१९।। शरारुः कृष्णलेश्यावान्, रौद्रध्यानपरश्च सः । महातमःप्रभायोग्यस्तदाऽवर्त्तिष्ट दुष्टधीः ।। ३२० ।।
श्रीश्रेणिकचरित्रम् ।
त्वयि नत्वाऽऽगते त्वत्र, युध्यमानस्तथैव सः । मनसैव बहून् हत्वा निष्ठितास्त्रोऽभवत् क्षणात् ।। ३२१ ।।
शेषान्निहन्तुमावेशात्, शिरस्कायाक्षिपत्करम् । अशिरोजं स्पृशन् शीर्षमस्मार्षीत् स पुनर्व्रतम् ।।३२२ ।। निन्दित्वा बहुधाऽऽत्मानं स्थापयित्वा पुनर्व्रते । महामोहादिदम्भोलिं, धर्मध्यानं दधार सः ।। ३२३ ।।
तेन सर्व्वार्थसिद्धार्हः, सोऽभूत् तस्यामथो दिशि ।
दृष्ट्वा राट् सुरसंपातं पप्रच्छ किमिदं ? प्रभो ! ।। ३२४ ।।
?
प्रभुः प्राह समुत्पेदेऽमुष्य सम्प्रति केवलम् ।
ततोऽस्य केवलज्ञानमहिमानं व्यधुः सुराः ।।३२५।।
राजा राजर्षिवृत्तान्तैर्नितरां रञ्जितो जगी ।
भगवन् ! केवलज्ञानं, कस्मिन् व्युच्छेदमेष्यति ? ।।३२६।।
विद्युन्माली तदा देवश्चतुर्देवीसमावृत्तः ।
आयातोऽस्ति जिनं नन्तुं महर्द्धिर्ब्रह्मलोकतः ।। ३२७।।
"