SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीश्रेणिकचरित्रम् । हस्तद्वयोच्छ्रितं गात्रमायुर्विंशतिवत्सरी । तपश्च षष्ठमुत्कृष्टं, सङ्घस्यास्य भविष्यति ।। ६५३ ।। दुष्षमान्ते स आचार्यो, विपद्याष्टमभक्तभृत् । सौधर्मे त्रिदशो भावी, विमाने सागराभिधे ।।६५४ ।। च्युत्वा तस्मादसौ प्राप्य, भरतेऽत्र मनुष्यताम् । चारित्रं निरतीचारमाचर्य शिवमेष्यति ।।६५५ ।। धर्मस्या यमे छेदस्तत्राचार्ये दिवंगते । राजधर्म्मस्य मध्याह्ने, परानेऽग्नेर्भविष्यति । । ६५६ ।। इत्युक्ता दुष्षमा वर्षसहस्राण्येकविंशतिः । श्रूयतां गौतमेदानीं तावत्येवातिदुष्षमा । । ६५७ ।। , नष्टे धर्म्मादिके भावी, हाहाभूतो भयानकः 1 कालः षष्ठारके मातृपुत्रादिस्थितिवर्जितः । । ६५८ ।। वास्यन्ति वायवोऽनिष्टाः परुषाः पांशुवर्षिणः । दिवानिशं दिशो धूमायिष्यन्ते भीषणात्मिकाः ।।६५९ ।। अतिशीतं शशी स्रक्ष्यत्यादित्यश्चातितप्स्यति । शीतवातातपक्लान्तो, जनोऽतिक्लेशमाप्स्यति ।।६६० ।। वर्षिष्यन्ते तदाऽत्यर्थं, क्षाराम्लाख्या घनाघनाः । विषाग्निविद्युदाख्याश्च, स्वस्वनामानुसारि कम् ।।६६१ ।। येन स्पृष्टेन पीतेन, जनानां भाविनो घनाः 1 शिरोऽर्त्तिश्वासशूलार्शः कासश्वासादयो गदाः ।।६६२ ।। , तृणगुल्मलतादीनां भविष्यति ततः क्षयः । नृतिर्यञ्चो भविष्यन्ति तथा सर्वेऽपि दुःखिताः । । ६६३ ।। ६५
SR No.022631
Book TitleShrenik Charitram
Original Sutra AuthorN/A
AuthorRajdarshanvijay
PublisherRatnoday Charitable Trust
Publication Year
Total Pages78
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy